साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
द्वितीयः परिच्छेदः । ६९
एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ १७ ॥
अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता
व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा—'कालो मधु-’
इत्यादि । लक्ष्यार्थस्य यथा—'निःशेषच्युतचन्दनं-' इत्यादि । व्य-
ङ्ग्यार्थस्य यथा—'उअ णिच्चल-’ इत्यादि । प्रकृतिप्रत्ययादिव्यञ्ज-
कत्वं तु प्रपञ्चयिष्यते ।
शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥
यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदे-
कस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।
अभिधादित्रयोपाधिवैशिष्ट्यात्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ॥ १९ ॥
तद्वैशिष्ट्ये यथा—'नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति । मृगाक्षी न क्षिपत्यक्षि
सादरं मयि पश्यति ॥' अत्र चेष्टाविरहेण कोपो व्यज्यते । तस्य च कान्तापराधरा-
तीनत्वं वैशिष्ट्यम् । व्यस्तानां प्रत्येकं समस्तानां द्वित्वादिरूपाणाम् ॥ त्रैविध्या-
दिति । इयं व्यञ्जना ॥ प्रपञ्चयिष्यते । 'असंलक्ष्यक्रमव्यङ्ग्यध्वन्युदाहरणे' इति
शेषः ॥ ननु शाब्द्या व्यञ्जनायामर्थस्यार्थीमपि शब्दस्योपयोगिसत्त्वान्नैव तन्मोदृश-
मन्योर्भेदकारणमत आह—शब्दबोध्य इति । अर्थान्तराश्रयः अर्थान्तरेणान्व्य-
यकः । 'व्यनक्ति' इत्यनुषज्यते । इत्यनुपपत्तिदर्शनानन्तरमुपपत्तिमाह—एकस्येति ।
सहकारिता अप्रधानकारणत्वम् । अप्रधानत्वं च व्यवहितोपपादित्वेन । एवं च यत्र
यस्याव्यवहितोपपादकत्वेन प्रधानत्वं तत्र तत्सम्बन्धित्वेनैव तस्या व्यवहार इति भावः ।
ननु नाटकादौ चेष्टाभिनयादेरपि व्यङ्ग्यव्यञ्जकत्वेन व्यञ्जकत्रैविध्यमयुक्तमिति
चेत् । न । तत्रापि दृष्टोपस्थितायैव व्यङ्ग्यावबोधकत्वात् । चेष्टादिनाप्यभिप्राय
विशेषादिरूपप्रहणादिबोधनानन्तरं दृष्टाच्छब्देऽपि चेष्टाभिनयाद्यपेक्ष्य प्राधान्येन
तज्ज्ञव्यवहारः । अत एव वक्ष्यति—'शब्दार्थ चेष्टाभिर्भयान् ईदृश्या बोधकैर्वि-
बुद्धिः । शब्दार्थमिव निबद्धं नाटयं चेष्टाभिरुच्यते' । इति । अभिधा-
दिविषयविभागं विधाय तद्वृत्तौ शब्दस्यापि त्रैविध्यमाह—अभिधेति । एत-
१. 'अपराधरा- २. 'व्यङ्ग्यध्वनौ' ३. 'व्यनक्ति' इत्यस्य स्थाने 'व्यज्यते'
दृश्यते'
७० साहित्यदर्पणे
अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपा-
धिको व्यञ्जकः ।
किं च—
तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्बोधकं परे ॥ २० ॥
अभिधाया एकैकपदार्थबोधनविरमाद्वाक्यार्थरूपस्य पदार्थान्वयस्य
धिर्व्यापार । अभिधया लक्षणया वा शब्दैः प्रत्येकमुपस्थापिताना पदार्थानां संसर्गो-
वाक्याङ्गादसमानस्तात्पर्याख्या वृत्तिमपेक्षत इति प्राचीननैयायिकमतमाह—किं
चेति । मतान्तरसूचनाय 'आहुः' इति । 'परे' इति परेणान्वय । इयमेवाधुनिकै-
संसर्गमर्यादोच्यते । अभिधाया इति लक्षणाया उपलक्षणम् । अभिहितानामभि-
धया लक्षणया वा पदोपस्थापितानामन्वयबोधवादिना प्राचीननैयायिकानामित्यर्थ ।
- तात्पर्येति । एतदुक्त भवति—लाघवात्पदाना पदार्थमात्रे शक्तिः, नत्वन्वयांशे-
ऽपि । गौरवादनन्यलभ्यत्वाच्च । तादृशो हि तात्पर्यार्थो वाच्यार्थवैलक्षणशरीर आकाङ्क्षा-
योग्यतासत्तिवशादपदार्थोऽपि प्रतीयते । न चापदार्थविषयस्यापि शाब्दबोधविषयत्वे कथं-
चिदुपस्थितस्य गगनादेरपि तद्विषयत्वापत्तिरिति वाच्यम् । अपदार्थविषयस्य शाब्दबोध-
विषयतायामप्रयोजकत्वात् । इत्यभिहितान्वयवादिनो नैयायिक-भाट्ट-मीमांसकाः । तेषा-
मयमभिप्रायः—'घटं करोति' इत्यादौ घटवृत्तिकर्मत्वानुकूला कृतिरित्थों बोध्यते । तत्र
घटपदस्य घटोऽर्थः, अम्रप्रत्ययस्य च कर्मता, वृत्तिता तु न कस्यापि, इत्यपदार्थोऽपि
वृत्तिता तात्पर्यवशादनयोः ससर्गविधया भासते । अन्विताभिधानवादिनः प्राभाक-
रास्तु—'अन्वयरूपे वाक्यार्थेऽपि पदाना शक्तिः । व्यवहारेणान्वितसंवोपस्थापनात्तत्रैव
शक्तिग्रहात् । तथाहि—'देवदत्त, गामानय' इत्युत्तमवृद्धप्रयोगात्सास्नादिमतीं व्यक्तिं
मध्यमवृद्धे सचारयति, तच्चेष्टया तस्य वाक्यस्य तदर्थबोधकतामनुमाय पश्चात् 'गा
नय, अश्वमानय' इति प्रयोगे गवापसरणमश्वाहरण च दृष्ट्वान्न्वयव्यतिरेकाभ्यां क्रिया-
पदार्थांन्विते कारके कारकपदस्य, कारकपदार्थान्विताया क्रियाया च क्रियापदस्य
शक्ति बालोऽवधारयति । ततः प्रयोगकाले तस्य प्रथमत एवान्वितबुद्धिर्जायते । न च
गौरवेणान्वयांशपरिहारः । प्रथमगृहीतान्वयशक्तेरुपजीव्यत्वेन तदपरित्यागात् । शाब्द-
बोधे तु आकाङ्क्षादिवशाद्वृत्तितादिविशेषरूपमेव भासत इति नापदार्थो वाक्यार्थः' इति
वदन्ति । अत्रारुचिबीज तु—'अन्वितत्वेन शक्तावपि अन्वयविशेषावगमाय आकाङ्क्षादिकं
कारणमवश्यमङ्गीकार्यम् । एव च विशेषाकारेण अशक्यस्यैव भानमिति तैरप्यवश्यमभ्यु-
पेयंम्' इति ॥
१. 'पदार्थमात्रबोधविरमात्पदार्थानामन्वयप्रतिपादिका तात्पर्याख्या वृत्ति' ग. २ 'पदाना क',
' ' ख.
द्वितीयः परिच्छेदः । ७१
बोधिका तात्पर्यं नाम वृत्तिः । १_ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च
वाक्यमित्यभिहितान्वयवादिनां मतम् ॥
इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।
अत्र मूलकारिका = २० । पूर्व्वानि सह २३ ।
उदाहरणश्लोका = ९ । पूर्व्वैः सह १५ ।
अन्विताभिधानवादिनो मीमांसकगुरुवस्तु—'क्रियाकारक्यः प्रथमत एवान्व-
यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं
तात्पय्र्यवृत्तिकारेण' इत्याहुः ॥
इति श्रीरामचरणतर्कवागीशभट्टाचार्य्यविरचितायां साहित्यदर्पणविवृतौ
द्वितीय प्रकाश ।
१. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामन्वय इति ये
वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥
२ अन्वितेति । पदान्यन्दितानि भूत्वानन्तरं निर्दिष्टमर्थं बोधयन्तीति ये वदन्ति
तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥
१. 'तदर्थं च तात्पर्यार्थ' ग
७८ साहित्यदर्पणे .
‘रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते’ । इत्युक्तप्रकारो बाह्य-
मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी
अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् ।
अखण्ड इत्येक एवायं विभावादिरेत्यादिप्रकाशसुखचमत्कारात्मकः ।
अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यैरपि वक्ष्यमाणरीत्या । चिन्मय इति
स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः ।
तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम-
न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे—
‘रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥’ इति ।
चमत्कारप्राणः । स्वाकारवदिति । यथा स्वात्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि-
भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः ।
घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा
स्वाकारवत्सविषयवत् । परिणामवादिभिर्ज्ञानविषयोर्भेदानङ्गीकारादिति भावः ।
कामलोभादिबीजभूतौ मनोवर्मा रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंस्पृष्टं
मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि-
र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः ।
तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापाराभावश्च दृढमनोयोगः । अभिभूय स्वका-
र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् ।
तत्र सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिस्तस्य परिशीलनमतन्ताभि-
निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत
आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुदायालम्बनज्ञानादात्म्यमेव
हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यैरपीत्यादिना सुखतादात्म्यपरिग्रहः । स्वरूपार्थे
इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थः । लोकातीताश्चर्यदर्शनेन विस्फारिते
नेत्रविकासने चिन्मय दीप्ताप्राचुर्य्यं चित्तविस्तारः । दृष्टहेतुभ्योऽसमन्वितज्ञानेन
दिष्टसंज्ञाने मनोव्यापाराभाव एव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्दोऽय
----------------- । यद्वा अपरपर्यायोऽस्य । तत्प्राणत्वं
----------------- । सर्वत्र शृङ्गारादौ । चमत्कारप्राण्ये
१ 'अयं प्रकाशानन्द...' ग. २ 'दर्शयत्याह-सुख...' ३ 'अस्य' ग. ४ 'मयट्' इति
५ 'रतिरस...' क-ख-ग-पुस्तके ६ 'अस्य' इति नास्ति पुस्तकान्तरे ७ 'प्राणता'
७९
तृतीयः परिच्छेदः ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्—
'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति ।
यद्यपि 'स्वादः काव्यार्थसंभेदाद्भात्मानन्दसमुद्भवः ।' इत्युक्तदिशा
रसास्वादानतिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिक-
भेदमङ्गीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्— 'रस्यमानतामात्रा-
त्स्वात्मनावशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध-
शैलेषूत्पत्तारेण प्रयोगो ज्ञेय ।
नन्वेतादृता रसस्याहेयत्वमुक्तं भवति । व्यञ्जनावश्च इत्यभि-
धानाद् द्वयोरैक्यमापतितम् । तत्तश्च—
घनत्त्वात्पविभाव्यते । रसास्वादान्तरान्नव ...
गृह्यतेने दपदस्य पाठान्तराननस्य च यह ... ।
प्राक्तनेति । ऐहिकपुण्यगोचरतरे दुद्धर्षतरपुण्यवद्भिः । इति
नर्वाि यदा रसति । यद्यपीति । काव्यार्थस्यात्माविभूतत्त्वे । रस
टति, रसान्द इत्यत्र न गृह्यतेने यच्चातिरिक्तत्वेने ... । एव
म्यते इति । प्रयोग इति कर्मकर्तृप्रयोगः । काल्पनिकभेदेनेत्यत्र
एवं रसः । रसास्वादानतिरिक्तत्वे कर्मकर्तरि वेति । ...
ननू । तस्यैव कर्मत्वात्कर्तृत्वं च ...
गतेरिति । रस्यमानतामात्रे ...
रस्यमानेतीति । रसनात्मकात्प्रकाराद्
नतिरिक्तस्य हेतोरात्, प्रकाशाशरीराद् ...
एव रसइति नन्वतिप्रसङ्गादत्रान्य
द्वित्वमिति रसास्वाद ...
हेतुर्व्यञ्जन
न तथा रसास्तेन ...
रतः, तैश्च व्य ...
यद्व्यञ्जकत्वोक्तौ ...
... रस ... व्यञ्जनावशत्वेनेति
स्वैश्वर्यत्वाचेति । ...
अथ धीरोद्धतः—
मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः ।
आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥
यथा—भीमसेनादिः ।
अथ धीरललितः—
निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् ।
कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः ।
अथ धीरप्रशान्तः—
सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥
यथा—मालतीमाधवादौ माधवादिः ।
एषां च शृङ्गारादिरूपत्वे भेदानाह—
एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड-
शप्रकारो नायकः ।
एषु त्वनेकमहिलाससरागो दक्षिणः कथितः ॥ ३५ ॥
द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः ।
यथा—
स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु-
द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च ।
अहंकारः अहं महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र-
चण्डचरितः ॥ सामान्यगुणैर्नायकसामान्यगुणैः । धीरोदात्तादित्रितयभिन्नो
नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति ।
शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता
ऋतुस्नाता । वार सुरतार्थं नियमितदिवम । जिता जयेनात्मसुरतार्थं प्राप्ता । देवी
कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यानिश्चयेन मूढं व्याकुलम्
- एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धतः, दक्षिणधीरललितः, दक्षिणधीर-
प्रशान्तः, एवं धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥
१ ग पुस्तके रत्नावल्याद्या नास्ति, घ पुस्तके तु 'यथा रत्यादिका' इति पाठः, २ 'धीरप्रशान्त'
३ 'नायकासु' घ, ४ 'नायिकस्य' इति घ पुस्तके नास्ति ५ 'नायकः' इति नास्ति ग पुस्तके
तृतीयः परिच्छेदः । ९९
१इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः^२ ॥
कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः ।
दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥
यथा मम—
शोणं^३ वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः
पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि ।
किंचित्तत्र विधातुमक्षमतया बाष्पं सृजन्त्याः सखे
ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥
अनुकूल एकनिरतः—
१एकस्यामेव नायिकायामासक्तोऽनुकूलनायकः ।
यथा—
अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं,
नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः ।
किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो
दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम्^२ ॥
अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै-
तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा-
दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या-
श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयक कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् ।
- इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया
विज्ञापिते विनिश्चय निवेदिते सति । एतदुक्तं भवति—ऋतुत्सवं तावदनुपक्षणीया किमुत
कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुतापनायस्तत्सन्मोहिन्या-
यागतसमागमसमय., सामान्योऽपि जने परतन्त्रता किमुत कमलाललामकमलाप्रयुक्ते ।
एवमुत्तरोत्तराधिककार्यसंपादनेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥ - नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥
- 'वरुणवेक्ष्य चुम्बितुमर्' इति प्राचीयान् पाठ. ॥
१. ग-पुस्तके तु 'सा... सान्द्रस्विद्यत्तनूत्तुङ्गतनूत्तुङ्गकुचेन किं वक्षक्षर... प्रतिनिश्चयनिश्चयात्मने
नोदाह्यते । रक्ते प्र... सहसा तन्मुन्तनष्टै तया स्रष्टा रभसेन तन्मुखावलोक्या च
तदित्युक्तम्' इति परणीतमुदाहरणं दृश्यते २. 'रख्या-' इति पाठिका ग-पुस्तके ।
३. ... 'इत्यदि' इत्यादिर्गं ग-पुस्तके.
१०२ साहित्यदर्पणे
अर्थचिन्तने सहायमाह—
मन्त्री स्यादर्थानां चिन्तायां—
अर्थास्तन्त्रावापादयः । यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं
चोभयं वापि सखा तस्यार्थचिन्तने' इति केनँचिल्लक्षणं कृतम्, तदपि
राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र-
करणे । नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत
एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त-
सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि-
मात्रायत्तार्थचिन्तनोपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः ।
किं तु स्वयमेव संपादकः । तस्यार्थचिन्तनाद्यभावात् ।
शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुषज्यते ।
चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं
कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थे ।
उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक-
स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं
चिन्तापक्षे स्वस्य सहकारित्वरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा-
च्चेति भाव । सखिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् ।
मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः ।
स्वलक्षणेनेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभावः ।
तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि-
- तन्त्रेति । तन्त्रण तणम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो-
च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने'
'हलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तरुखि' इति ॥ - केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः
कार्यान्तरसहायानाह—'मन्त्रौ ख वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः
अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः । तत्र
विभागमाह—'मन्त्रिणा ललित , शेपा मन्त्रिष्वायत्तसिद्धयः ।' उक्तलक्षणो ललितो नेता
मन्वायत्तसिद्धिः । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी-
कृतसिद्धय इति ॥
१ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्वदवरोधे ।' इत्यार्ध
२ ... न 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापाद्य ।' इत्येवम् ...
अथान्तःपुरसहायाः—
तद्वदवरोधे ।
वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥
आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा
रत्नावल्याम्—
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं
ज्ञातव्याः ।
अथ दण्डसहायाः—
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः । स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥
त्स । स्वयमेव महदेव निष्पादक प्रधानकरणम् ॥ तद्वदिति । अवरोधेऽन्त-
पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शकारितानेपक्षः क्लीबो वा । शका-
रमाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा-
दिप्रभवान् वा ॥ नष्टमिति । वानरवेगेनान्त पुरप्रविष्टं विदूषकमवलोक्य भये-
नान्तःपुरस्थाना पलायनवर्णनमिदम् । नष्टमदर्शन्तां प्राप्तम् । वर्षवरै र्षण्ढैः ।
'सौविदल्ला कञ्चुकिनः' इत्यमरः । किर पर्यन्तदेशस्तमटतीति किरात इति नाम्नाः स्ववा-
च्यशब्दास्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिक नाटिकाविशेषः ।
अन्ये म्लेच्छाभीरादयः । अटाटिनि दण्डारिणः ॥ ऋत्विगिति । धर्मे धर्मकर्मणि
१. दण्डेति । राज्ञो ये दण्डमदन्ति दण्डः । 'दण्ड दमने' । डण्डी । मूर्खा-
र्थादित् बहुव्रीहिः । तेन दण्डानुवृत्तय बह्मवत्कुलं प्रभोः सद्य नाशमाप्नुयात् ।
इत्यादी दण्डो दण्डकर्मकरणम् । 'ये सामन्तादयः इत्यतः पूर्वम् नीतिशास्त्रविदः ।
स चाऽत्र गृहीत भवेत् ते तु मन्त्रिणः स्युस्ततः' इति पाठान्तरं केषुचित्कोशेषूपलभ्यते ।
२. मूर्खेति । शकारोऽयं नराधमश्चेत् इत्युचितम् ।
१०६ साहित्यदर्पणे
अथ विलासः—
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा—
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयमेत्युत दर्प एव ॥
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा—
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥
यथा—
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्¹हरः प्रसङ्ख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥
तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साहः सारो बलं च यया सा ।
धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय-
कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेखः ॥ ऊह्यमुदाह-
रणमिति । यथा मम रामविलासे—'तन्निपीय कटु कर्णपदव्या खेदमाप न
मनागपि रामः । शूलपाणिरिव घोरसुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य
श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो
लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मणः । अचलनम् अप्रच्यवनम् ॥ प्रसङ्-
ख्यानपरो योगनिष्ठः । आत्मेश्वराणां मनोनिरोधक्षमाणाम् ॥ अधिक्षेपो
- अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥
घ. ३. 'तस्य-' इत्यादि लक्ष्यते' इत्यन्त पाठो हि 'मनोनिरोधक्षमागाम्' इत्यादग्रे
तृतीयः परिच्छेदः । १०७
वाग्वेषयोर्मधुरता तद्वच्छृङ्गारचेष्टितं ललितम्।
दानं सप्रियभाषणमौदार्यं शत्रुमित्रयोः समता ॥ ५५ ॥
एषामुदाहरणान्यूह्यानि ।
अथ नायिका त्रिभेदा स्वान्या साधारणस्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ५६ ॥
नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति ।
सा च स्वकी अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वकी—
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
यथा—
लज्जापल्लवपसाहणाईं परभत्तिणिप्पिदामाईं ।
अविणअदुम्मेधाईं धण्णाण घरे कलत्ताईं ॥'
नर्मनम् । अपमानः पराभवः । अरिना अपकारि । प्रयुक्तस्य कृतस्य । परेण
शत्रुना ॥ उदाहरणं यथा रामतिलके— 'निरुपमरूपशोभा कर्षितस्मितनयनं
कृथा किंचिदितो लोचनान्युज्ज्वलोत्फुल्लितविकृतम् । युक्तं तस्य हरधनुर्भागित-
तेजोग्राह्येन नेत्रांन्तेन विदार्य स्थितस्य प्रोचे रुषा राघवः ।' विरुपसम-
न्वन्तं रूपदोषाणाम् यस्य तम् । तस्य गर्वस्य । अर्थं गन्धम् । तद्धन्वंश-
ङ्गुष्ठम् । एतैव सर्वतोऽपरस्यापि रूप—'पौरुषं तस्य दृष्ट्वा वपुश्च सरसव्यापारं
मधुरं च भाषितम् । संस्मृत्येदमात्मनः धैर्ये कृतवान् साभिलाषो युक्तम् ।'
'दृष्टे मन्मथधम्मे रात्रिश्चन्दनं च धूपम् । स्निग्धं तरुणे रूपं निर्विकल्पं
जरा त्यक्तम् ।' स्या स्वीया । अन्या परकीया । साधारणी सर्वस्त्री-
वेश्या । 'स्त्री' इति स्वरूपनिर्देशः । यथासंभवैरिति । रूपकुलीनगुणैर्युक्ता
नायिका न भवति । अत एव पञ्चाङ्गेभ्यो नायकेभ्यः शक्तिस्तद्गुणानां
यस्याः । तत्रेति । 'लज्जा'प्रसाधनानि परभक्ति...
१२० साहित्यदर्पणे
पुनः—
अवस्थाभिर्भवन्त्येताः षोडश भेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ७२ ॥
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥
तत्र—
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ७४ ॥
यथा—‘अस्माकं सखि वाससी-’ इत्यादि (९० पृ.) ।
पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ७५ ॥
यथा—‘तद्वैतथ्यमवादीः-’ इत्यादि (११३ पृ.) ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६ ॥
उक्तयथा—
न च मेऽवगच्छति यथा लघुतां, करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमभिगम्य वदेर्गलद्गति कान्हिदिनि संदिशिगे ॥
'उच्छित्थं करकङ्कणद्वयमिदं, वद्धा दृढं मेखला,
करेण प्रतिगदिता मुञ्चय्योर्मङ्गीर्योर्मृरुता ।
यदा ... । ईर्ष्याकषायिता ईर्ष्या कलुषीकृतचित्ता ॥ अभिसारिकाया
लक्षणमाह दूत्येत्याह—अभिसारयत इति ॥ न चेति । स
मयि यथा लघुतां नाभिगच्छति तथा कुरु प्रति संदिशिते इति संबन्धः ॥ उच्छित्थ-
...
तृतीयः परिच्छेदः । १२१
आरब्धे रभसान्मया प्रियसखि क्रीडाभिसारोत्सवे,
चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः॥'
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजामिसरेद्यदि ॥ ७७ ॥
विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा ।
प्रमोदस्मेरवदना स्याद्वेश्याभिसरेद्यदि ॥ ७८ ॥
मदस्खलितसंलापा विभ्रमोत्फुल्ललोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ७९ ॥
तत्राद्ये 'उत्क्षिप्तं-'इत्यादि (१२० पृ.) । अनयोरुद्यमुदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते—
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
माँलापन्थः श्मशानं च नद्यादीनां तटी तथा ॥ ८० ॥
तम् ऊर्ध्वं न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादितः कृतः । तिमिरमेव
अवगुण्ठनपटं आच्छादनवस्त्रं तस्य क्षेपं निरासम् ॥ प्रमदादिसहगमनमाह—
संलीनेति । गात्रेषु अङ्गेषु । सङ्कुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन
संवीता संवृतदेहा । एतदुपलक्षणम् । अनुचितरागेणापि संवीता । तदान्धकारे नील-
वस्त्रपरिधानवस्त्ररीत्यासन्दीप्ता । ज्योत्स्नायां चन्दनद्रवलिप्ता । उक्तेन यथा—'लिन
यत्तमर्दिते वपुषि नीलचोलप्रभान्त्या सरागदशनाया मल्लदण्डद मेदिनी । करेण
परिवेदितं शङ्कनशङ्कया दुर्जनः परं परमनुध्वनन् गच्छति न लज्जिता प्रेयसी ।',
'मपिचाकाराभरणेष्वपि सर्वोत्कर्षमीड्यतेत्यादि । ध्वन्यङ्गो न लज्जन्ते ज्योत्स्नावसति-
गतीना ॥' आविद्ध इत्यादि पदमुदाहरणे यथा । 'आविद्धगतिसंचारा' इति
पाठे आविद्धा वक्ररूपा गत्या सञ्चारः यस्यैतादृशप्रमितिशा प्रेक्ष्या । आद्ये
कुलजामिसरेणपरे । अनयोश्चेष्याप्रेष्यनिसरेणप्रकणयोः । तत्र कामोदाहर-
णम् । यथा मम—'दम्पेयुदेयविकटं यदि दर्शयसि शिरस्समुद्गतैर्गुच्छैः,
सीधोः । मन्ये गृहमुदमिल्यमरेण मुक्ताऽथ लज्जातिलकुलं इति भावतः ।',
'जनो तवेदानुमन्मथेनासिने कर्णपूरप्रभाभिरुद्भवन् । प्रसङ्गादेते दिशेत् न-
तीति सूचयन् वं प्रकटयिष्यसि ।' अत्र 'समीपम्' इति यमार्क 'समीपिकम्' इति
- वाटीति । ... न तु इति शेषः । क्षेत्रं यत् प्रसिद्धाख्यम् । वाटी पुष्पवाटी-
वनम् बिल्वपाटलविशालवने । यत् वनौषधिसहितं वनम् इतरत्तु केवलं बिल्व-
...पादपैः । श्मशानं ... नद्योराद्योतीयादिना नदीमुखम् ...
... तदर्थम् ...
१२६ साहित्यदर्पणे
'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥'
'१मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥'
'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥'
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी-
रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् ।
२इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥
ता नायिकाः ।
पिवति पाती वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो
योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के-
सरो यस्य तेन । चक्षु पक्षे-पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश-
ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥
अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र-
यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि
विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा-
सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणा पल्लवा. पुष्पाणि च तान्येव कर्ण
पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती-
त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्म चिरपरिपूरित नित्य
पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा-
येति प्रहस्यमानामिव स्थितामेना कलिका कोरकम्, अत्र कलि कलह च । 'कलहे च
युगे कलि.' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माक किमर्थ वितरसि ।
हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन
त्वया अद्यैव वर्तमानो महान् कलि. कलहो दत्त• । स्वदत्त एव महति कलौ स्थिते
कि कल्पन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्त स्फुरितान्युज्ज्वलानि
मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे
नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च सम युगपज्जघान
ताडयामासेति ॥
- इतरा इति । तथा चोक्तम्- 'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि ।
१ अयं श्लोक क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.
तृतीयः परिच्छेदः । १३३
अथ विव्वोकः-
विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा-
'यासा सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥'
अथ किलिकिञ्चितम्-
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलिकिञ्चितमभीष्टतमसंगमादिजाद्धर्षात् ॥ १०१ ॥
यथा-
'पाणिरोधमविरोधितावाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः ।
कामिन सा कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥'
यासामिति । वंचिन्तासिनं प्रति मयूरगर्दवचनमिदम् । सद्गुणानुसरणे पर-
स्तावने दोषाणामनुवृत्तिः सत्य पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं दद्यक्षेपवारिश्रणनायस्वरप्रतिबन्धम् । हारि मनोहरम् । वरणं निम्-रहितं
१. प्राणानिति । गलद्ग्रहश्चापगार्हणं तत्तदुत्तरम् न पुनः संपूर्णदृष्टिप्रिये ।
२ वस्तुनीति । निषेधन्तीष्टविधे ॥
३ वामा इति । वना रोषिनः । दृष्टेपि वस्तुनि अनिच्छुकास्त्रैलोक्यप्रकृतयो
१३२ साहित्यदर्पणे
अथ विलासः—
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥
विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ।
यथा—
'अत्रान्तरे किमपि वाग्विभवातिवृत्त-
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्य-
माचार्यकं विजयी मान्मथमाविरासीत् ॥'
अथ विच्छित्तिः—
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।
यथा—
'स्वच्छाम्भःस्नपनविधौतमङ्गमौष्ठ-
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुणा न शून्यः ॥'
जूतो यस्या अमीति ॥ अत्रान्तरे नायकसंदर्शनादिमये । वाग्विभवमतिवृत्तम-
तिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत् । ते प्रसिद्धा भूरिसात्त्विकवि-
काराः स्तम्भादयो यस्मात्तत् । आचार्यकमुपाध्यायकर्म । उपदेश इत्यर्थः ॥ स्तोका
अल्पा आकल्परचना वेषविन्यासः । प्रतनु अनतिसूक्ष्मम् । विविक्तं निर्मलम् ॥
महाकुलोत्पन्ना, कुलं स्वामिकुलममन्त्रि निष्कलङ्कम् । अयं मदृक्षणो जनः न त्वेव स्थिरः,
जीवितं च न स्थिरम् । अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमपि-
नरामनुचितमिति भावः ॥
१. इतीति । इत्येवंरूपं स्यात् एतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु ।
निर्मन्तरित्यर्थः । यदि स कुसुमेषुणा कामेन शून्यो न स्यात् । अन्यथा उज्झितानामिव
कनकभूषणादि नाप्येत वेति भावः ॥
'...विशेषस्तु विस्मयोत्कण्ठाहर्षप्रियादिषु ३' इति ग. २. 'स्तोकाप्याकल्पकल्पना'
१ इति ग. ३ 'कस्यचिद्रोगादावस्थिताया मोगेवनाद्येकेनातिप्रस्तारि । तथा दर्शनं
...' इति ग.
अथ विब्बोकः—
विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा—
'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरसमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥'
अथ किलिकिञ्चितम्—
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलिकिञ्चितमभीष्टतमसंगमादिजाद्धर्षात् ॥ १०१ ॥
यथा—
'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ॥'
यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे पैर-
रुद्भावने दोषाणामनुवृत्तिः स्वयं पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं वस्त्रक्षेपादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं
१. प्राणानिति । मानग्रहग्रस्तत्वात्प्राणार्पणं तावत्सुकरम्, न पुनः सम्पूर्णदृष्ट्यर्पणम् ॥
२. वस्तुनीति । नीवीवसनादिरूपे ॥
३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे
बीजम् ।
४. पाणीति । करभोरूः स्त्री अनिरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का-
मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर स्मित गर्भे
अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड-
१ 'गर्वाभिमानादिष्टेऽपि विब्बोकोऽनादरक्रिया । तथा वात्स्यायनः—"शोभाऽभ्यस्तविर्तवेन यत्प्रिय-
स्यावधीरणम् । हाटेन चार्धदन्तेन यच्च दानाय याचनम् ॥ प्रियेऽपराधिते [....] जाननुयुक्ताद्विघा हति ।
दन्तरुचिन्तमैश्चारोपन्यानेऽपि दण्डिनम् ॥ प्रेष्यताम्बूलेरागं[...]प्रबोध्येतनालसे । विब्बोकाय
सूनो हाव कामशास्त्रविचक्षणैः ॥ अभिनवगुप्तेननाट्यशास्त्रेऽपि "गर्वेऽनादरलज्ज्या । गर्वं विदन्त्य
स्यन (न) ताडनप्रमाभिधादि विब्बोकः" अवधीरये यथा कालिदासः—"निर्मत्सुन्ध दशनच्छदं
न्ते वाचि मधुरदधीणत्परा । शैलराजनया समीक्षणात्तन्मन विचलनहेतुरभूत् ॥" इति ग
२ 'दासा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'क्रोधाद्दरस्मीत्यादे संकरः किलिकिञ्चितम् ।' इति
ग ४ 'रतिनीडादुक्ते व्यजननि संगाद्व संमदं गदा हस्येऽहू तथा यत्किञ्चिद्लज्जाम्भये । कुच-
भूम्नाऽदौ मरटिभिरित्यादैरदिन्त्स्यक्रोधादीन् पुनरपि वि इत्यादीनि सुखम् ॥' इति ग.
९२
१४८ साहित्यदर्पणे
यथा—
'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,
कालोऽभ्यर्णजलागमः, कुशलिनो वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसा निजंवधूं श्वश्रूश्चिरं रोदिति ॥'
अथ श्रमः—
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा—
'सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुतः कृतवती प्रथमावतारम् ॥'
अथ मदः—
संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥
स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका
क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीतायाः
स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो संभेदो मेलकः
- वत्सस्येति । वत्सस्य पुत्रस्य ॥
- निजवधूमिति । निजवधू आत्मस्नुषाम् ॥
- श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद-
विशेषः श्रम इति । यदाहु —'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकै । गात्रसंवाहनैरा-
स्यसंकोचैरङ्गमोटनैः ॥ निःश्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति । अयं च
सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि-
श्रमस्य भेदः ॥ - प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥
- मद इति । मद्याद्युपयोगजन्मा उल्हासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो
१ '-श्रम स्वेदादिकारक रतान्मार्गममनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभावननक ।'
इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल
घेत्तूण समागदम्हि सहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति
४ 'च' घ ५ 'हर्षोत्कषों मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष
वचनस्खलादिस्खलनानुभावक ।' इति ग.
तृतीयः परिच्छेदः । १४१
अमुना चोत्तमः शेते, मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥
यथा—
‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रवृवृते परिहासः ॥’
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये—
‘णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि ।
मद्यस्यानवस्य उपयोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग-
ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्य यत्र स चासौ हासश्चेति ॥ अप्र-
तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ
मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो-
क्त्यादि । अयं च मदस्त्रिविधः । तरुणामध्यमाधमभेदात् । अव्यक्ताङ्गतवाग्वैश्वः सुकुमा-
रस्तत्तद्वत्ता च योऽसिनीवने न आद्यः । भुजक्षेपस्खलितघूर्णितादिनिर्णेयभः । गतिम-
न्मृतिनाशादिकार्य्यादिनिरधमः । प्रदीपे तु 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य-
मसत्प्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥' इति व्यत्यासोऽस्ति ॥
१. प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं
त्रिवारमधुपानम् । 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।' इति विश्वः । तेन
त्रिसरकेण । 'त्रिपाने मदातिभूमिः' इति पानप्रसिद्धिः । प्रतिभाएव प्रातिभं प्रतिभाविशेषः ।
तत्प्रातिभं गतानां त्रिवारसुरापाणोत्कटमदोद्भूतप्रागल्भ्यभाजां सुभ्रुवां वक्रवाक्यरचनारम-
णीय वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका-
शितानि रहस्यानि नाम्याद्यवच्छेदालग्नसितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ
हासश्चेति विशेषणसमासः । प्रवृवृते प्रवृत्तः ॥
२. जडतेति । चिन्नोत्कण्ठामयविहेष्टानिष्टदर्शनश्रवणादिभ्याञ्चास्यानुपदसंर्व्यार्थप्रति-
संधानविकला चित्तवृत्तिर्जडता । इयं च मोहाद्भूतः परतः जडने । यदाहुः—
'कार्याविवेको जडता परतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥
अनुभावास्त्वमी तूष्णींभावविसरनादयः । सा पूर्वं परतो वा स्यान्मोहादिति विदां
मतम् ॥' इति ॥
३. णवेति । स्कन्धकमिदम् । दृष्टशब्द्—'स्तन्धनन्ति वत्तपिरितं यत्र चतुष्क-
१. 'अथ जडता' इति नास्ति क-पुस्तके. २. 'यथा-' इत्यदिदर्शिव पर्यन्तं नास्ति ग-पुस्तके.
१५० साहित्यदर्पणे
आलेख्खओपिअं विअ खणमेत्तं तत्थ संट्ठिअं मुअसण्णं ॥'
अथोग्रता—
शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र स्वेदशिरःकम्पतर्जनाताडनादयः ॥ १४९ ॥
यथा--
'प्रणयिसखीसलीलपरिहासरसाधिगतै-
र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥'
अथ मोहः—
मोहो विचित्तता भीतिदुःखावेगानुचिन्तनैः ।
मूर्च्छनाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ १५० ॥
यथा—
'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
इति । 'केवलं तद्युवयुगलमन्योन्य निहितसजलमन्थरदृष्टि । आलेख्यार्पितमिव
क्षणमात्रं तत्र संस्थितं मुक्तसङ्गम् ॥' इति संस्कृतम् । णवरिअशब्द केवलार्थे
देशी ॥ चण्डत्वमत्यन्तासहिष्णुत्वम् । प्रणयिनी या सखी तस्या परिहासरसेनाधि-
गतैः प्राप्तै । अकाण्डयमदण्ड इति । अकालयमदण्ड इत्यर्थ । अत्र मालती-
शरीरे शस्त्रप्रहारं कुर्वतोऽघोरघण्टस्यापराधेन माधवस्य चण्डत्वमेतादृशोक्त्या
व्यज्यते ॥ चित्तस्य निमीलनत्व विचित्तता । सुषुप्तिवारणायाह—भीतीति ।
आवेग संभ्रम । अनुचिन्तनमत्यन्तचिन्ता । अदर्शनमज्ञानम् ॥ अभिषङ्गः
त्प्रणाटेकेनार्थ स्यात् । तत्तुत्यमप्रिमदलं भवति चतुःषष्टिमात्रकशरीरनिदम् ॥' इति
दामोदरमिश्राः ॥
- उग्रतेति । अविशेषापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता ।
यदाहुः—'नृपापराधोऽसद्घोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडन-
भर्त्सने ॥ एते यत्रानुभावास्स्युर्दौर्हृद्य निर्दयतात्मकम् ॥' - मोह इति । भयवियोगादिनयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः ।
'द्रव्यभ्रान्तिप्रवृत्तिका चित्तवृत्तिः' इति तु नव्याः ॥
१. 'अथोग्रता' इति नास्ति ग पुस्तके २ इत्योऽन्ते 'ई' र्थं दिना यथारुच्यनुगमः । तत्र मोहीऽप-
रससदातुणता भवतीत्य ।' इत्यधिकं ग-पुस्तके. ३ 'दृष्टि' इत्यधिकममन्त्राप्यस्त्यनुपदहृद् । ङी. ख-
- निर्दशितोऽस्ति सोऽपि दृढीभवन्नापट्टानुग्रहेद् ।' इति ग.