सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 372, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 372

तृतीयः परिच्छेदः । १४१
अमुना चोत्तमः शेते, मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥
यथा—
‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुभ्रुवां प्रवृवृते परिहासः ॥’
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये—
‘णवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि ।
मद्यस्यानवस्य उपयोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग-
ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्य यत्र स चासौ हासश्चेति ॥ अप्र-
तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ
मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो-
क्त्यादि । अयं च मदस्त्रिविधः । तरुणामध्यमाधमभेदात् । अव्यक्ताङ्गतवाग्वैश्वः सुकुमा-
रस्तत्तद्वत्ता च योऽसिनीवने न आद्यः । भुजक्षेपस्खलितघूर्णितादिनिर्णेयभः । गतिम-
न्मृतिनाशादिकार्य्यादिनिरधमः । प्रदीपे तु 'उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य-
मसत्प्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥' इति व्यत्यासोऽस्ति ॥
१. प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं
त्रिवारमधुपानम् । 'सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।' इति विश्वः । तेन
त्रिसरकेण । 'त्रिपाने मदातिभूमिः' इति पानप्रसिद्धिः । प्रतिभाएव प्रातिभं प्रतिभाविशेषः ।
तत्प्रातिभं गतानां त्रिवारसुरापाणोत्कटमदोद्भूतप्रागल्भ्यभाजां सुभ्रुवां वक्रवाक्यरचनारम-
णीय वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका-
शितानि रहस्यानि नाम्याद्यवच्छेदालग्नसितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ
हासश्चेति विशेषणसमासः । प्रवृवृते प्रवृत्तः ॥
२. जडतेति । चिन्नोत्कण्ठामयविहेष्टानिष्टदर्शनश्रवणादिभ्याञ्चास्यानुपदसंर्व्यार्थप्रति-
संधानविकला चित्तवृत्तिर्जडता । इयं च मोहाद्भूतः परतः जडने । यदाहुः—
'कार्याविवेको जडता परतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥
अनुभावास्त्वमी तूष्णींभावविसरनादयः । सा पूर्वं परतो वा स्यान्मोहादिति विदां
मतम् ॥' इति ॥
३. णवेति । स्कन्धकमिदम् । दृष्टशब्द्—'स्तन्धनन्ति वत्तपिरितं यत्र चतुष्क-
१. 'अथ जडता' इति नास्ति क-पुस्तके. २. 'यथा-' इत्यदिदर्शिव पर्यन्तं नास्ति ग-पुस्तके.