साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 370, कुल 506 में से
संदर्भ में पढ़ेंअथ विब्बोकः—
विब्बोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा—
'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरसमर्पयन्ति, न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥'
अथ किलिकिञ्चितम्—
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलिकिञ्चितमभीष्टतमसंगमादिजाद्धर्षात् ॥ १०१ ॥
यथा—
'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स कुरुते करभोरूर्हारि शुष्करुदितं च सुखेऽपि ॥'
यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे पैर-
रुद्भावने दोषाणामनुवृत्तिः स्वयं पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं वस्त्रक्षेपादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं
१. प्राणानिति । मानग्रहग्रस्तत्वात्प्राणार्पणं तावत्सुकरम्, न पुनः सम्पूर्णदृष्ट्यर्पणम् ॥
२. वस्तुनीति । नीवीवसनादिरूपे ॥
३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे
बीजम् ।
४. पाणीति । करभोरूः स्त्री अनिरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का-
मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर स्मित गर्भे
अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड-
१ 'गर्वाभिमानादिष्टेऽपि विब्बोकोऽनादरक्रिया । तथा वात्स्यायनः—"शोभाऽभ्यस्तविर्तवेन यत्प्रिय-
स्यावधीरणम् । हाटेन चार्धदन्तेन यच्च दानाय याचनम् ॥ प्रियेऽपराधिते [....] जाननुयुक्ताद्विघा हति ।
दन्तरुचिन्तमैश्चारोपन्यानेऽपि दण्डिनम् ॥ प्रेष्यताम्बूलेरागं[...]प्रबोध्येतनालसे । विब्बोकाय
सूनो हाव कामशास्त्रविचक्षणैः ॥ अभिनवगुप्तेननाट्यशास्त्रेऽपि "गर्वेऽनादरलज्ज्या । गर्वं विदन्त्य
स्यन (न) ताडनप्रमाभिधादि विब्बोकः" अवधीरये यथा कालिदासः—"निर्मत्सुन्ध दशनच्छदं
न्ते वाचि मधुरदधीणत्परा । शैलराजनया समीक्षणात्तन्मन विचलनहेतुरभूत् ॥" इति ग
२ 'दासा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'क्रोधाद्दरस्मीत्यादे संकरः किलिकिञ्चितम् ।' इति
ग ४ 'रतिनीडादुक्ते व्यजननि संगाद्व संमदं गदा हस्येऽहू तथा यत्किञ्चिद्लज्जाम्भये । कुच-
भूम्नाऽदौ मरटिभिरित्यादैरदिन्त्स्यक्रोधादीन् पुनरपि वि इत्यादीनि सुखम् ॥' इति ग.
९२