साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
तृतीयः परिच्छेदः । १०३
अथान्तःपुरसहायाः—
तद्वदवरोधे ।
वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥
मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः ।
सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥
आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा
रत्नावल्याम्—
नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा-
मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः ।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥
शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं
ज्ञातव्याः ।
अथ दण्डसहायाः—
दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च ।
दुष्टनिग्रहो दण्डः । स्पष्टम् ।
ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥
ल्ल । सयमेव सहदेव निष्पादकः प्रधानकारणम् ॥ तद्वदिति । अवरोधेऽन्तः-
पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शष्टारिष्टनोपस्य क्लीबो वा । शरा-
र्त्थाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा-
दित्यर्थवान् वा ॥ नष्टमिति । वानरवेषेणान्तःपुरप्रविष्टं विदूषकमवलोक्य भये-
नान्तःपुरस्थानां पलायनवर्णनमिदम् । नष्टमदर्शनतां प्राप्तम् । वर्षवरैः षण्ढैः ।
'सौविदल्लाः कञ्चुकिन' इत्यमरः । किर पर्यन्तदेशमटतीति किरात इति नाम्नोऽन्वया-
च्चस्थानस्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिका नाटिकाविशेषः ।
अन्ये म्लेच्छाभीरादयः । आटविका दण्डायिनः ॥ ऋत्विगिति । धर्मे धर्मसंबन्धि-
१. दण्डेति । राज्ञो दण्डसंसाधको दण्डः । 'दण्डः समासे' । इति । मूर्-
र्खविद् राजसंबन्धिः । तत्र राज्ञोऽनुचरस्य बहुत्वात्कृतं यतोऽपत्यं नाशं गच्छेत् ।
सार्थे संचरं स्थानान्तेऽस्तु । 'ये सामन्ताः, कुमाराः, सैनिकाः कौटिकादितः ।
स वा न दृष्टा कार्येषु ते हि संविदः स्मृताः ।' इति शास्त्रान्तरे दर्शितोऽप्यनादृतो
२. मृच्छेति । शूद्रकविरचितं नाटकविशेष इत्युचितम् ॥
१०६ साहित्यदर्पणे
अथ विलासः-
धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः ।
यथा-
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् ।
कौमारकेऽपि गिरिवद्गुरुतां दधानो
वीरो रसः किमयेत्युत दर्प एव ॥
संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥
ऊह्यमुदाहरणम् ।
भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता ।
यथा-
आहूतस्याभिषेकाय विसृष्टस्य वनाय च ।
न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥
व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥
यथा-
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव ।
आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥
अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥
तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साह सारो बलं च यया सा ।
धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय-
कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेख ॥ ऊह्यमुदाह-
रणमिति । यथा मम रामविलासे- 'तन्निपीय कटु कर्णपदव्या खेदमाप न
मनागपि राम । शूलपाणिरिव घोरमुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य
श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो
लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मण । अचलनम् अप्रच्यवनम् ॥ प्रसं-
ख्यानपरो योगनिष्ठ । आत्मेश्वराणा मनोरोधक्षमाणांम् ॥ अधिक्षेपो
- अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥
घ. ३. 'तस्य-' इत्यादि लक्ष्य'ते' इत्यन्त पाठो टि 'मनोनिरोधक्षमागाम्' इत्यादाग्रे
५०
तृतीयः परिच्छेदः । १०७
वाग्वेषयोर्मधुरता तद्वच्छृङ्गारचेष्टितं ललितम् ।
दानं सप्रियभाषणमौदार्यं शत्रुमित्रयोः समता ॥ ५५ ॥
एषामुदाहरणान्यूह्यानि ।
अथ नायिका त्रिभेदा स्वान्या साधारणस्त्रीति ।
नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ५६ ॥
नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति ।
सा च स्वकी अन्यस्त्री साधारणस्त्रीति त्रिविधा ।
तत्र स्वकी—
विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।
यथा—
लज्जापञ्जरपसाहणोइ परभत्तिणिप्पिदामारं ।
अविणअदुम्मेधाई धणगाण घरे अलत्ताइ ॥
नर्मन्नम् । अपमान पराभव । अरिना अपर. तरि । प्रयुक्तव्य दृश्य । परेण
नहणा ॥ उदाहरण यथा रामनिती— निरपरररदोहन...
कृत्वा त्रिदिवेरितलोचनन्युत्योनरुचिरकृतम् । वृत्त तस्य हस्तहृत्तपटि
तेजोवराहस्त नेत्रान्तेन विदार्य ... प्रोचे दय राघव ।' विरन्वक-
सन्तं एरदोटयात्र यस्य तम् । तस्य गदादस्य । अहं गच्छन् । तद्गच्छ-
... । ललितं पार्थगौरवार्थे यत्र—'दीक्ष तस्य रुचि प्रतेश शूषणस्य
मधुर च भवितम् । सप्रसादमदस्य चित्र हरणस्य सप्रक्ति दृष्टम् ।',
'दत्ते गहावदने सप्रियवदन च नूपुर । द्विचि तस्ये यत्र निशितस...
जरा रक्षन् ।' स्वा स्वीय । अन्या परन ... । साधारणी सर्वलोक-
वेश्या । 'स्त्री इति स्वरूपोक्तेः, यथासंभवैरिति । हेतुकर्मगुणैर्युक्ता
नायिकाया न वर्तन्ते । अत एव कुलाङ्गने नायके नासिका तुष...
... । तत्रेति । 'राजा' इत्युपलक्षणम् ...
२. तृतीय परिच्छेद: रस-निरूपण, भाव व विभाव
१२० साहित्यदर्पणे
पुनश्च—
अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः ।
स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ७२ ॥
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका ।
अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥
तत्र—
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् ।
विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ७४ ॥
यथा—'अस्माकं रति वाससी—' इत्यादि (९०पृ.) ।
पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः ।
सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ७५ ॥
यथा—'तद्वितथमवादीः—' इत्यादि (११३पृ.) ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६ ॥
उदाहरणम्—
न च मेतिगच्छति यथा लघुतां, करुणां यथा च कुरुते न मयि ।
निपुणं तथैनमभिगम्य वदेर्गर्भद्रुतिं क्वचिद्दिनि संदिदिगे ॥
उच्छ्रिते कनकद्रणद्वयमिदं, बद्धा दृढं मेखला,
दत्तेन प्रतिपादिता मुग्गरयोर्मङ्गीयोर्मूक्रता ।
.... । ईर्ष्याकषायिता ईर्ष्या कषायीकृताचित्ता ॥ अभिसारिकाया लक्षणं
........ सूत्रेण तद्व्याचष्टे—अभिसारयते इति ॥ न चेति । न
....... दूतं प्रति संदिष्टे कविः न्याख्यातं ॥ उच्छ्रि-
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
.............................................................
तृतीयः परिच्छेदः । १२१
आरब्धे रससान्मया प्रियसखि क्रीडाभिसारोत्सवे,
चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥’
संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा ।
अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ ७७ ॥
विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा ।
प्रमोदस्तमेरवदना स्याद्वेश्याभिसरेद्यदि ॥ ७८ ॥
मदस्खलितसंलापा विभ्रमोत्फुल्लोचना ।
आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ७९ ॥
तत्राद्ये ‘उत्क्षिप्तं—’इत्यादि (१२० पृ.) । अन्ययोरप्युदाहरणम् ।
प्रसङ्गादभिसारस्थानानि कथ्यन्ते—
क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् ।
मालापक्षः श्मशानं च नद्यादीनां तटी तथा ॥ ८० ॥
तम् ऊर्ध्वं न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादिता दृशा । तिमिरमेव
अवगुण्ठनपटं आच्छादनवस्त्रं तस्य क्षेपं निरासम् ॥ प्रसङ्गादभिसारलक्षणमाह—
संलीनेति । गात्रेषु अङ्गेषु । सङ्कुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन
संवीता संवृतदेहा । एतदुपलक्षणम् । अनुचितरविनापि संवीता । तत्रान्धकारे नील-
तत्तत्सदृशवस्त्रादिनासंवीता । ज्योत्स्नायां चन्दनाद्युपलीप्ता । उक्तेन यथा—‘लीनं
यत्तमसि प्रियं वपुषि नीलोत्पलाभाम्बरं साटोपारवमद्य मन्दमपरं पादौ दधौ योषिताम् । व्योम
परिवेदितं रजनिराज्या दुर्दिनः परं परमनुग्रहान् गतिं न रुद्धितः प्रेयसी ।’,
‘मदिरामोदगन्धेन सङ्केतगोऽनुविन्दन् । दीपोऽसौ न तरन्ते जोत्स्नावतारि-
गतिम् ॥’ आविद्ध उद्धान्ता पद उद्भ्रान्तो यस्याः । ‘आविद्धगतिसञ्चारा’ इति
पाठे आविद्धा उद्धान्ता गता सञ्चारः यस्येत्यन्यपदार्थस्य विशेषणं । आद्ये
कुलजाभिसारप्रसङ्गे । अन्ययोरपि प्रेष्याभिसारप्रसङ्गयोः । तत्र ...
तम् । यथा मम—‘दत्तेऽङ्गुष्ठेऽङ्गुष्ठे पुरे दर्शनं स्थिरतरकुटीकुसुमकेशे-
र्भितः । अन्ये मुकुलितकुवलयदलैरम्भोभिर्नवाश्चित्तधृत इति यक्षः ।’,
‘अयं तवेशान-...-रभसनिर्भरम् । प्रसङ्गादेते विशेषण-
नीनि सूच्यते प्रेक्षद् विभाव्यिते । अत्र ‘मन्दोऽयम्’ इति पाठाद् ‘अतीवोध्द्’ इति
... वाटीति । ...
...
...
...
१२६ साहित्यदर्पणे
'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।
ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥'
'मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् ।
वसतिमुपगतेन धाम्नि तस्याः शठ कलिरप महांस्त्वयाद्य दत्तः ॥'
'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण ।
श्रवणनियमितेन कान्तमन्त्या सममसिताम्बुरुहेण चक्षुषा च ॥'
इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी-
रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् ।
इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥
ता नायिकाः ।
पिवति पाति वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो
योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के-
सरो यस्य तेन । चक्षु पक्षे—पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश-
ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥
अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र-
यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि
विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा-
सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं
पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैरनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती-
त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं
पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा-
येति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकम्, अद्य कलिं कलहं च । 'कलहे च
युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माकं किमर्थं वितरसि ।
हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन
त्वया अद्यैव वर्तमानो महान् कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते
किं कृत्यन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि
मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे
नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपज्जघान
ताडयामासेति ॥
- इतरा इति । तथा चोक्तम्—'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना ।
चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि ।
१ अयं श्लोकः क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.
तृतीयः परिच्छेदः । १३३
अथ विव्वोकः—
विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा—
‘यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णां दृष्टिं प्रिये ।
अत्यन्ताभिहितेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥’
अथ किलिकिञ्चितम्—
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलिकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥
यथा—
‘पाणिरोधमविरोधितवाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः ।
कामिन स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥’
यासामिति । कंचिन्मानिनं प्रति सख्युपगर्भवचनमिदम् । सद्गुणानुसरणे संद-
र्शनायने दोषाणामनुवृत्तिः खय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं दन्तक्षेपणादिरूपनानाप्रकारप्रतिबन्धम् । हारि मनोहरम् । करणं भिन्नम् ॥
१. प्राणानिति। गन्धरूपरसादिना न्यक्करणम्, न पुनः संपूर्णदृष्टिप्रिये ।
२ वस्तुनीति । गं ऽभ्यन्तरविषये ॥
३ वामा इति । ङग देविषु । देवी प्रसूति शशिशेखरम चित्तवृत्तिभिरिति
१३२ साहित्यदर्पणे
अथ विलासः—
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥
विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना ।
यथा—
'अत्रान्तरे किमपि वाग्विभवातिवृत्त-
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्य-
माचार्यकं विजयि मान्मथमाविरासीत् ॥'
अथ विच्छित्तिः—
स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् ।
यथा—
'स्वच्छाम्भःस्नपनविधौतमङ्गमौष्ठ-
स्ताम्बूलद्युतिविशदो विलासिनीनाम् ।
वासस्तु प्रतनु विविक्तमस्त्वितीया-
नाकल्पो यदि कुसुमेषुना न शून्यः ॥'
जूतो यस्या अस्तीति ॥ अत्रान्तरे नायकसंदर्शनादिसमये । वाग्विभवमतिवृत्तम-
तिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत् । ते प्रसिद्धा भूरिसात्त्विकवि-
काराः स्तम्भादयो यस्मात्तत् । आचार्यकमुपाध्यायकर्म । उपदेश इत्यर्थः ॥ स्तोका
अल्पा आकल्परचना वेषविन्यासः । प्रतनु अतिसूक्ष्मम् । विविक्तं निर्मलम् ॥
महाकुलोत्पन्ना, कुलं स्वामिकुलममलं निष्कलङ्कम् । अयं मटक्षणो जनः न त्वेष स्थिरः,
जीवितं च न स्थिरम् । अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमभि-
नरामनुचितमिति भावः ॥
- इतीति । इत्येवंरूपं स्यात् एतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु ।
किन्न्वन्तरित्यर्थः । यदि स कुसुमेषुना कामेन शून्यो न स्यात् । अन्यथा उद्विग्नितानामिव
कनकभूषणादि नाप्यायत एवेति भावः ॥
१ 'प्रतन्वङ्गे विशेषस्तु विष्णोनेत्रादिकर्मणाम् २' इति ग. २. 'मोष्ठस्तम्बूलदीप्ति विच्छित्ति-
१' इति ग. ३ 'कन्दिशो शैलप्रपातमधो गोगोवनागद्वेषिनिवारणे । यस्य वने
० ० ० ० च यदि दहनदोहः ३' इति ग.
तृतीयः परिच्छेदः । १३३
अथ विव्वोकः-
विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥
यथा-
'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा,
याः प्राणान्वरसमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक-
स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥'
अथ किलकिञ्चितम्-
स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।
सांकर्यं किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥
यथा-
'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।
कामिनः स कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥'
यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे परै-
रुद्भावने दोषाणामनुवृत्तिः स्वय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि-
रोधं वस्त्रक्षेपणादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं
१. प्राणानिति । मानत्रह्यस्त्वत्प्राणार्पणं तावत्सुकरम्, न पुनः संपूर्णदृष्ट्यर्पणम् ॥
२. वस्तुनीति । नीवीवसनादिरूपे ॥
३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे
बीजम् ।
४. पाणीति । करभोरुः स्त्री अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का-
मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर सित गर्भे
अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड-
१ 'गर्भाभिमानादिष्टेऽपि विव्वोकोऽनादरोऽनया । तथा वात्स्यायन - 'शोभाभ्यन्तारितैर्वैत्र यत्प्रिय-
म्यवधीरणम् । ताटन वावर्त्तनेन यच्च रागायैव वर्धनम् ॥ निषेधस्यापि हि जानन्पुष्पादिना इति ।
दत्तस्तम्तिनपैश्राद्यरोपस्थानेऽपि यन्मित्तम् ॥ प्रेयस्तत्सूरयो राशीद्भावनवाले । विव्वोकारव्य
मूनो हाव रागरागविवर्द्धनः ॥ अभिनवगुप्तेनपट्टनावपि 'यष्टिनादरस्त्वन्या । नग्नत्वं प्रियस्य
वधन (न) ताडनमश्राणिद्यादि विव्वोकः ॥' अवधीरणे यथा कालिदास - 'निर्मुमुन्द दशनच्छदं
न्नो वाचि मधुरैरधीगण्परा । ईक्षणात्तनया समीपानात् नाय दिपदानहेतुवन् ॥' इति ग
२ 'पाठा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'रोषाऽह्रञ्चीत्यादे संकरः किलकिञ्चितम् ।' इति
ग ४ 'रुजिनीडावृत्ते व्यजनि सन्त्रास समथं मया दृष्ट्यैः तया इत्यित्थन्तद्वाष्पैर्मधे । कुल-
भूमहाडौ मरटिन्दिरगुंणैरहर्द्दित्तकण्येगोधोद्वाप्त पुनरपि वि इपदान्ति मुखम् ॥' इति ग.
- १२ ५
१४८ साहित्यदर्पणे
यथा-
'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,
कालोऽभ्यर्णजलागमः, कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं रोदिति ॥'
अथ श्रमः-
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा-
'³सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुणः कृतवती ⁴प्रथमावतारम् ॥'
अथ मदः-
⁵संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥
स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका
क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीताया
स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो समेदो मेलकः ।
१. वत्सस्येति । वत्सस्य पुत्रस्य ॥
२. निजबधूमिति । निजबधू आत्मस्नुषाम् ॥
३. श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद-
विशेषः श्रम इति। यदाहु - 'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरा-
स्यसङ्कोचैरङ्गमोटनैः ॥ नि श्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति। अय च
सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि-
श्रमस्य भेदः ॥
४. प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥
५. मद इति । मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो
१ '-श्रम स्वेदादिकारक रतान्मार्गगमनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभाजन क ।'
इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल
घेत्तूण समागदम्हि रुहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति
४ 'च' घ ५ 'हर्षोत्कर्षो मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष
- वचनगत्वादिस्खलनानुभावक ।' इति ग.
तृतीयः परिच्छेदः । १४९
अमुना चोत्तमः शेते, मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥
यथा—
‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुध्रुवां प्रववृते परिहासः ॥’
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये—
‘णेवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि ।
मद्यस्यानवस्य उपभोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग-
ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्यं यत्र स चासौ हासश्चेति ॥ अप्र-
तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ
मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो-
क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासङ्गतवाक्यैः सुकुमा-
रस्खलद्विला च योऽभिनीयेते स आद्यः । कुञ्चितनेत्रस्खलितघूर्णितनादिनिर्नमध्यमः । गतिभ्र-
ष्टस्मृतिनाशहिक्काछर्द्यादिभिर्चरमः । प्रदीपे तु ‘उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य-
मप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥’ इति व्यत्यासोऽस्ति ॥
- प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं
त्रिवारमधुपानम् । ‘सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।’ इति विश्वः । तेन
त्रिसरकेण । ‘त्रिपाने मदातिभूमिः’ इति पानप्रसिद्धिः । प्रतिभां प्रतिभं प्रतिभानविशेषः ।
तत्प्रातिभं गतानां त्रिवारसुरापायोत्कटमदोद्रेकप्रागल्भ्यभाजां सुध्रुवां वक्रवाक्यरचनारम-
णीयं वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका-
शितानि रहस्यानि नाभ्याद्यवयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ
हासश्चेति विशेषणममानः । प्रववृते प्रवृत्तः ॥ - जडतेति । चिन्तोत्कण्ठामयविरहेष्टानिष्टदर्शनश्रवणादिभ्यस्तत्तदवस्थेऽवधार्यप्रति-
संधानविकलं चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वः परश्च ज्ञायते । यदाहुः—
‘कार्याविवेको जडता परवतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥
अनुभावास्त्वमी तूष्णींभावविस्मरादयः । सा पूर्वं परतो वा स्यान्मोहादिति निदर्श-
नकृत् ॥’ इति ॥ - णवेति । स्तब्धस्वेदम् । यहृद्दण्डम्—‘स्तब्धवलितं तत्तद्विधं यत्र चक्षुष्क-
१. ‘अथ जडता’ इति नास्ति ग-पुस्तके. २. ‘यथा—’ इत्यादिपाठिका नास्ति ग-पुस्तके.
१४० साहित्यदर्पणे
आलेख्खओपिअं विअ खणमेत्तं तत्थ संट्ठिअं मुअस्सण्णं ॥'
अथोग्रता—
शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता ।
तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥ १४९ ॥
यथा--
'प्रणयिसखीसलीलपरिहासरसाधिगतै-
र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः
पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥'
अथ मोहः—
मोहो विचित्तताभीतिदुःखावेगानुचिन्तनैः ।
मूर्च्छानाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ १५० ॥
यथा—
'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
इति । 'केवलं तद्युवयुगलमन्योन्य निहितसजलमन्थरदृष्टि । आलेख्यर्पितमि
क्षणमात्रं तत्र संस्थितं मुक्तसङ्गम् ॥' इति संस्कृतम् । णवरिअशब्द केवल
देशी ॥ चण्डत्वमत्यन्तासहिष्णुत्वम् । प्रणयिनी या सखी तस्या परिहासरसेना
गतैः प्राप्तै । अकाण्डयमदण्ड इति । अकालयमदण्ड इत्यर्थ । अत्र मालत
शरीरे शस्त्रप्रहार कुर्वतोऽघोरघण्टस्यापराधेन माधवस्य चण्डत्वमेतादृशोत्क
व्यज्यते ॥ चित्तस्य निमीलनत्व विचित्तता । सुषुप्तिवारणायाह—भीतीति
आवेग श्भ्रम । अनुचिन्तनमत्यन्तचिन्ता । अदर्शनमज्ञानम् ॥ अभिषङ्ग
ल्गानाटकेनार्थ स्यात् । तत्तुन्त्यमप्रिमदल भवति चतुःषष्टिमात्रकभीरिनिदम् ॥' इ
दामोदरमिश्राः ॥
- उग्रतेति। अविशेषापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता
यदाहु—'नृपापराधोऽसद्क्षेपकीर्त्तन चोरधारणम् । विभावोः स्युरथो बन्धो वधम्ताड
भर्त्सने ॥ एते यत्रानुभावास्स्युर्दौस्थ्य निर्दयतामरुन् ॥' - मोह इति । भयवियोगादिनयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः
'अज्ञानान्तरमुत्पन्ना चित्तवृत्तिः' इति तु नव्याः ॥
१. 'अथोनना' इति क्वचित् ग पुस्तके २ पुस्तके 'ई यं दिना यच्चण्डामुग्रता । तत्र स्वेदांग
स्तम्भानुभावा भवन्ति ।' इत्येवं दृश्यते. ३ 'देह' इत्यधिकम्लल्लपुस्तकपाठस्त्वशुद्धः । ङौ.२
- विचित्तेति शेषे इतिदृष्टान्तचतुष्टयमभूत् ।' इति ग.
तृतीयः परिच्छेदः । १५१
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥'
अथ विबोधः—
निद्रापगमहेतुभ्यो 'विबोधश्चेतनागमः ।
जृम्भाङ्गमङ्गनयनमीलनाङ्गावलोककृत् ॥ १५१ ॥
यथा—
'चिरंरतिपरिखेदप्राप्तनिद्रालुब्धानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्रा कुर्वते न प्रियाणाम्-
अशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥'
अथ स्वप्नः—
स्वप्नो निद्रासमुत्थस्य विषयानुभवस्तु यः ।
१५२ साहित्यदर्पणे
कोपावेगभयग्लानिसुखदुःखादिकारकः ॥ १५२ ॥
यथा—
'मामोकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेन ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥'
अथापस्मारः—
मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः ।
भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ १५३ ॥
'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् ।
फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
अथ गर्वः—
गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः ।
अवज्ञांसाविलासाङ्गदर्शनाविनयादिकृत् ॥ १५४ ॥
तत्र शौर्यगर्वो यथा—
'धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम् ॥'
भुजाक्षेपं कर्तुमर्हतीति । अस्य निद्राभङ्गो नोचित इति भाव ॥ मामिति ।
यक्षस्य मेघं प्रति प्रियायै वाचनिकार्पणमिदम् । मा यक्षम् । कथमपि महता
कष्टेन । मुक्ता इव स्थूला ॥ मनःक्षेप इति । मनसो नाट्योविशेषनिवेशेन घूर्ण-
नमित्यर्थः । ग्रहादीत्यादिना भूतादिपरिग्रह । मध्यमादिपदेन धातुवैषम्यादिपरि-
ग्रहः ॥ फेनायमानं फेनमुद्वमन्तम् । असौ श्रीकृष्णः आशशङ्के ज्ञातवान् ॥
मदश्चित्तविकारविशेषः । राज्ञ कोशदण्डादिजन्यः प्रतापः प्रभावः । श्रीस्त्रि-
- मामिति । मया कथमपि स्वप्नप्रदर्शनेन लब्धायाः के तव निर्दयाश्लेषहेतोः गाढा-
लिङ्गनार्थम् आकाशप्रणिहितभुजं शून्यार्पितबाहु मा पश्यन्तीना म्स्थलीदेवताना वनदेवताना
१. 'मात्सर्यमथकोपाडेरनुभावस्य कारणम् । विद्राणस्यापि विषयज्ञान मनसः ! मात्सर्यानुभाव-
हेतु । इति ग. २ 'भूयश्चावि स्त्वमसि शयने कण्ठलग्ना पुरा मे-'इत्युदाहरणान्तरं ग पुस्तके
३ 'आवेशो महदु बाधैरपस्मारः स्मृतो बुधै । मुर्मुहूर्पतनभूपानफेनाङ्गान्दोलनादिकृत् ॥' इति ग
४. 'लोल्द्रू' ग ५ 'मोङ्गलसदशवशाहाहेनाविनयादिकृत् । प्रभावदिजन्यो मदो गर्व । आदि
शब्दाद्दारण्यसेनाग्यादिः । स चाविनयाद्यनुभावहेतु ।' इति ग. ६. 'यथा' क. घ. ७ अस्मादग्रे
'त्वमन्यदयूथ्यम्' इत्याधिकं ग-पुस्तके
तृतीयः परिच्छेदः । १५३
अथ मरणम्—
शराद्यैर्मरणं जीवत्यागोऽङ्गपतनादिकृत् ।
यथा—
'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥'
अथालस्यम्—
आलसं श्रमगर्भाद्यैर्जाड्यं जृम्भासितादिकृत् ॥ १५५ ॥
वर्गसपतिः । अवज्ञा परस्मिन् ॥ अन्यैर्मृदुतायुधभिन्ने ॥ रामेनेति । सा निशा-
चरी ताडका राक्षसी, सैव निशाचरी अभिसारिका नायिका । राम एव मन्मथ
तस्य शरेण हृदये वक्षसि मनसि च ताडिता सती जीवितेशो यम एव जीवितेशः
प्रियस्तस्य वसतिं जगाम । कीदृशी । गन्धवद्रुधिरमेव चन्दनं तेनोक्षिता लिप्ता ॥
'जाड्यम्' इत्यत्र क्वापि 'जैह्यम्' इति पाठः । स न सम्यक् असंगतार्थापत्ते ।
मुक्तास्थूला अश्रुलेशा नयनोदबिन्दवः तरुकिसलयेषु बहुशः न खलु न पतन्ति । अपि
तु पतन्त्येव । एवंविध मानवलोक्य वनदेवता अपि रुदन्तीति भावः ॥
- शरेति । अत्र विशेषमाह रसगङ्गाधरकारः 'रोगादिजन्या मूर्च्छारूपा मरणप्रा-
गवस्था मरणम् । न चात्र प्राणवियोगात्मकं मुख्यं मरणमुचितं ग्रहीतुम् । चित्तवृत्त्या-
त्मकेषु भावेषु तस्याप्रसक्तेः । भावेषु च सर्वेषु कार्यमहर्वतितया शरीरप्राणयोगस्य हेतु-
त्वात् । उदाहरणम्—'दयितस्य गुणाननुस्मरन्ती शयने संप्रति या विलोकिनासीत् ।
अधुना खलु हन्त सा कृशाङ्गी गिरमङ्गीकुरुते न भाषितापि ॥' प्रियविरहोऽत्र विभावः ।
वचनविरामोऽनुभावः । स्तब्धदशाप्राप्त्यनुसङ्गाच्छाश्वदासादवस्थोऽप्ययं भावः
षड्व्यङ्ग्यतामावहति । दयितस्य गुणाननुस्मरन्तीत्यनेन व्यज्यमान चरमदशायादामपि तस्या
दयितगुणस्मरणं नाभूदिति विप्रलम्भस्य शोकस्य वा चरममभिव्यङ्ग्यं पोषयन् । अयं च
भावः स्वव्यञ्जकनादोत्तरवर्तिना बाष्पान्तेन सहर्षघटनेन सन्निपातः प्रादुर्भावन्दशने
विप्रलम्भस्य, अन्यथा तु करुणस्य पोषक इति विवेकः । ज्वरः पुनरमुं प्रपञ्चेन न
वर्णयन्ति । अमङ्गलप्रायत्वात् ।' इति । प्रदीपोऽप्युक्तम्—'जीवत्योन्मनागम्भो मरणं
परेरितीवदन् । समोहेन्द्रियस्खलनाङ्गविलेपनादिकृत् ॥' इति ॥ - आलस्यमिति । स्त्रीशृङ्गिणांम्बादिगतादिवन्या चेष्टकः प्रियन्वृत्त्यन्तराग्यम् ।
अत्र च मानाभ्यर्थम् । नापि गर्दावर्णशून्यकम् । तेन कार्योपरमस्त्यागान्तरस्य
बृहदवेदेदि गान्तेऽन्तणादाडान्यं भेदः ॥
१. 'यथा मरणम्' इति क्वचित् न दृश्यते २. 'शराद् दुःखादिना जातं' तथा 'शराद्यैर्' इति वा
३. यथा—'राम-' इत्याद्युदाहरणं क्वचिन्न दृश्यते ४. 'निहता' इत्यत्र ५. इत्यपि 'अथाह्लादम्' वा
क्वचित् पाठवैचित्र्यम् ॥
१५८ साहित्यदर्पणे
अथ मतिः—
नीतिमार्गानुसृत्यादेरर्थनिर्धारणं मतिः ।
स्मेरता धृतिसंतोषौ बहुमानश्च तद्भवः ॥ १६३ ॥
यथा—
'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥'
अथ व्याधिः—
व्याधिर्ज्वरादिर्वाताद्यैर्भूमीच्छोत्कम्पनादिकृत् ।
तत्र दाहमयत्वे भूमीच्छादयः । शैत्यमयत्वे उत्कम्पनादयः । शे
षमुदाहरणम् ।
अथ त्रासः—
निर्घातविद्युदुल्काद्यैस्त्रासः कम्पादिकारकः ॥ १६४ ॥
मुखं स्मितयुक्तं वदनं स्मरामीत्यर्थः ॥ नीतिमार्गो नीतिशास्त्रं तस्यानुसृति
र्गमम् । आदिना अनुमानादेर्ग्रहणं । निर्धारण निश्चयः ॥ असंश्य
मिति । शकुन्तलामालोक्य दुष्यन्तस्यानुमानमिदम् । क्षत्रपरिग्रहक्षमा क्षत्रियवि
वाहोचिता । 'इयम्' इति शेषः । अस्यां शकुन्तलायाम् । गमयेति—सतां
मिति । प्रमाणं निश्चयबीजम् । अन्तःकरणस्य मनसः प्रवृत्तयः शङ्कापादयः ॥ वा
ताद्यैरिति । आद्यपदेन पित्तश्लेष्मणोर्ग्रहणं । भूमीच्छा भूमिपतनेच्छा ।
तत्र व्याध्युदाहरणं यथा मम—'प्रियजनपरिप्राप्ताद्वेपमाना कृशाङ्गी त्रिहुत-
दहनवर्णा स्वेदगर्भिस्तगात्रीम् । विपुलपुलकश्लेषामाकलय्य ज्वरार्त्ता कुमतिरि-
तश्चिन्तनगरे निर्नमज्ज ॥' निर्घात इति । 'यदान्तरिक्षे बलवान्मारुतो मरुता
तृतीयः परिच्छेदः । १५९
यथा-
'परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥'
अथ व्रीडा-
धार्ष्ट्याभावो व्रीडा वदनानमनादिकृद्दुराचारात् ।
यथा- 'मयि सकपटं-' इत्यादि ( १५७ पृ. ) ।
अथ हर्षः-
हर्षस्त्विष्टावाप्तेर्मनःप्रसादोऽश्रुगद्गदादिकरः ॥ १६५ ॥
हतः । पतत्यधः स निर्घातो जायते वायुसम्भवः ॥' इत्युक्तलक्षणो निर्घातः । 'बृह-
च्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरुषी च प्रमाणेन उल्का नानाविधा
स्मृता ॥' इत्युक्तलक्षणा चोल्का । आयपदेन भूकम्पादेर्ग्रहणम् । अत्र 'मन धेभ'
इति पूरणीयम् ॥ परिस्फुरदिति । जलविहारवर्णनमिदम् । अपिना नायस्य
- परीति । परितः स्फुरद्भिर्विवर्तमानैर्मनैर्विघट्टिता ऊरवो यासां ताः अत एव
त्रासाद्विलोला दृष्टयः कम्पितपाणिपल्लवाश्च सुराङ्गना सखीजनस्यापि विलोकनीयतामुपाययुः ।
किमुत प्रियजनस्येति भावः ॥ - व्रीडेति । स्त्रीणां पुरुषसद्भावलोकनादेः पुंसां च प्रतिज्ञाभङ्गपराभवादेरुपन्नो
वैवर्ण्याधोमुखत्वादिकारीचित्तवृत्तिविशेषो व्रीडा । केचित्- 'नेत्रोन्मीलन-ग्रैवा-
व्यङ्गरागच्छदादिनिः।' इत्याहुः । व्यङ् वैकतनम् ॥ - हर्ष इति । इष्टप्राप्त्यादिजन्मा सुखविशेषो हर्षः । तदुक्तम्- 'दैवभर्तृप्रसादाप्ति-
प्रसादः प्रियसंगमः । मनोरथादिप्राप्यमनोरथगणनम् ॥ ज्योतिर्द्दिश इवावेदिग्जनो
यत्र जायते । नेत्रवक्त्रप्रसादश्च प्रियोक्तिः पुलोद्गमः ॥ उच्छ्वासोद्वाष्पह्रदाद्या हर्षे
तत्रादिशेत् ॥' इति ॥
१ तदुक्तं हि हरौ यत्र वा अधिकीर्ण द्युतिः-इति-गदाधरभट्टस्य तु- 'राद्धान्तरीत्या
धाष्टर्यभावस्तद्धेतुकेः । स्रीणां पुरुषावलोकनेत्यादिप्रतीकः । पुंसस्त्वर्पिणी 'इत्यन्योन्या'
लक्षणं तं प्रतिपादितं वैधेयस्य हेतुः । इति । २. यथा तु 'सकपटं' 'सविषम' इति
स्थितं इत्यादि यन्त्रस्थसुवर्ण-प्रदीप्तं विक्षिप्तम् । 'इत्याहस्तद्' किञ्चित्परिस्फुरता इति
लभ्यमानं यथावद्रूपं रूपकम् । 'इत्याहस्तद्' ३. 'स्मरविस्फारितेन' नयने ही जातैः ।
शीतातपाभ्यां स्तोकावलोकेति ।' इति च.
यहाँ पृष्ठ का मूल पाठ दिया गया है:
१६२ साहित्यदर्पणे
तत्र भर्त्सनपारुष्यस्वच्छन्दाचरणादयः ॥ १६९ ॥
यथा—
'अन्यासु तावदुपमर्दसहासु भृङ्ग
लोल विनोदय मनः सुमनोलतासु ।
मुग्धामजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं १नवमैलिकायाः ॥'
अथ ग्लानिः—
३रत्यायासमनस्तापक्षुत्पिपासादिंसंभवा ।
ग्लानिर्निष्प्राणताकम्प४कार्श्यानुत्साहतादिकृत् ॥ १७० ॥
यथा—
'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं
हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डुक्षाममस्याः शरीरं
शरदिज इव घर्मः केतकीगर्भपत्रम् ॥'
अथ चिन्ता—
ध्यानं २चिन्ता हितानाप्तेः शून्यताश्वासतापकूत् ।
मुष्मिकी परलोकभवा । नीवारस्तृणधान्यम्, कृते निमित्तम् । साप्रतं वार्धके । अत्र
तत्त्वज्ञानेन नि स्पृहत्वम् ॥ अन्यास्विति । मधुपानकालीनश्चरणप्रहारादिरुपमर्दः ।
पक्षे संभोगकालीनश्चुम्बनालिङ्गनादि. । लोलं सतृष्णम् । मुग्धा कोमला सुरतमुढां
च । रज पराग आर्तव च । अकाले मकरन्दाभावदशाया बाल्ये च । अत्रोप-
भोक्तरि बालाया अस्थैर्यं परुषवचनेन प्रतीयते ॥ निष्प्राणता असामर्थ्यम् ॥
बन्धनात् उत्पत्तिस्थानात् । निष्प्राणत्वानौजसस्तत्त्वसक्षयाणा बलहानिरूपत्वेऽपि
१. नवेति । सप्तलायाः 'सप्तला नवमालिका' इत्यमरः । 'नवमल्लिकायाः' इति
पाठे तु मुग्धेत्यादिनैव नवत्वलाभे पुनर्मल्लिकाया नवत्वविशेषणं व्यर्थम् । नवा सुप्ता
माला अस्या., कप् । इति भानुजिदीक्षिताः ॥
२. चिन्तेति । इष्टाप्राप्त्यनिष्टप्राप्त्यादिजनिता ध्यानापरपर्याया वैवर्ण्यमूर्च्छेखनाधोमुख-
त्वादिकृतुश्चित्तवृत्तिविशेषश्चिन्ता । यदाहु —'विभावा यत्र दारिद्र्यमैश्वर्यभ्रशनं तथा ।
'उद्वेगास्थितिनैरस्यसमुत्थैरवबुध्यते ।' इति ग २ 'नवमल्लिकायाः' इति क. ३ 'रत्याद्ययास-
र्निर्निष्प्राणता मता । अनुत्साहाददौर्बल्यस्वेदाधैर्य्यक्त्विमेति सा प' ग. ४ 'कार्श्य' घ.
'उन्निन्नयनतारा क्षामवक्त्रेदुविन्या रजनय इव निद्राक्लान्तनीलोत्पलास्य । निनिरभिन्न ध्याना
केशराशाननपिनिगृहेभ्यो यान्त्यमूर्वारवन्ध्य ॥' इति ग.
यहाँ पृष्ठ का संपूर्ण और यथारूप लिप्यंतरण (transcription) दिया गया है:
तृतीयः परिच्छेदः । १६५
तद्भेदानाह—
रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेत्यष्टौ प्रोक्ताः शमोऽपि च ॥ १७५ ॥
तत्र
रतिर्मनोनुकूलेऽर्थे मनसः प्रवणायितम् ।
वागादिवैकृतैश्चेतोविकासो हास इष्यते ॥ १७६ ॥
इष्टनाशादिभिश्चेतोवैकल्यं शोकशब्दभाक् ।
प्रतिकूलेषु तैक्ष्ण्यस्यावबोधः क्रोध इष्यते ॥ १७७ ॥
कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते ।
रौद्रशक्त्या तु जनितं चित्तवैकल्यदं भयम् ॥ १७८ ॥
त्वेन सबन्धी । तैर्भावैः पुष्यते रसरूपता नीता प्रवृद्ध- क्रियते ॥ तद्भेदान्
स्थायिभावान् । अष्टौ भावा- स्थायिभावा । शमोऽपि च । स्थायिभाव इत्यर्थः ॥
रतिरिति । मनसोऽनुकूले प्रिये वस्तुनि प्रवणायितम् । प्रेमार्द्रं मनो रतिरित्यर्थः ।
तच्चोत्कटावेश एव पर्यवस्यति । स चानुराग एव सोऽपि प्रकृते सुरतेच्छारूप एव ।
केचित्तु—“स चानुराग एव सोऽपीष्टसाधनताज्ञानधारारूपः, अभिलाषहेतुत्वेनो-
क्तत्त्वात्” इत्याहु- । तन्न । सुरतेच्छाया आलम्बनप्राप्त्यभिलाषं प्रति हेतुत्वसम्भवेन
लक्षणाया अयोगात् । चेतोविकास उपहसनीयत्वेन ज्ञानमुखविकासहस्य-
हेतुः । चेतोवैकल्यं दुःखम् । तैक्ष्ण्यस्य अपचिकीर्षया अवबोध उत्कटत्वम् ।
कार्यारम्भेषु चानिष्टकार्येषु संरम्भ उत्कट आवेशः । केचित्तु—'संरम्भः
सहर्षप्रवृत्तिः' इत्याहुः । तन्न । आद्यप्रवृत्तिरूपस्यारम्भस्य प्रवृत्त्यसम्भवात्, वीररसे
उत्कटावेशस्यैव स्थायित्वेनास्वाद्यमानत्वाच्च । रौद्रशक्त्येति । शात्रवादेरनिष्टदर्श-
- रतिरिति । रत्यादीना विशदतर लक्षणमभिहितं रसगङ्गाधरे—'स्त्रीपुंसयोरन्यो-
न्यालम्बनः प्रेमाख्याश्चित्तवृत्तिविशेषो रतिः । गुरुदेवतापुत्राद्यालम्बनस्तु व्यभिचारी ।
वागङ्गादिविकारदर्शनजन्मा विकासाख्यो हासः । पुत्रादिवियोगमरणादिजन्मा वैक्लव्या-
ख्यश्चित्तवृत्तिविशेषः शोकः । गुरुबन्धुवधादिपरमापराधजन्मा प्रज्वलनाख्यः क्रोधः । अयं
च परविनाशादिहेतुः । क्षुद्रापराधजन्मा तु परपक्वचात्मारूपानादिहेतुः । अयमेवामर्षाख्यो
व्यभिचारीति विवेकः । परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः । व्याघ्र-
दर्शनादिजन्मा परमानर्थविषयको वैक्ल्याख्यः स भयम् । परनानर्थविषयकत्वाभावे तु
स एव त्रासो व्यभिचारी । अपरे तु—औत्पातिकप्रमदसत्त्वः, स्वापराधोत्थं भयमिति
भेदमाहुः । कदर्यवस्तुवलोकनजन्मा विचिकित्साख्यश्चित्तवृत्तिविशेषो जुगुप्सा । अलौ-
किकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः ॥
१. '-वैकृत्यं' घ. २. 'प्रतिकूलसम्बन्धिचित्तविशेषः क्रोध इष्यते ।' इति ग. ३ 'अवध-
नाम्बिका भर्तुरुत्साहोऽप्यवतारिता । अरिष्टदर्शनं नीतिरितिसंदर्शन्यादितिः ।' इति ग.
१६४ साहित्यदर्पणे
वाच्या । हासः पुनरुत्पद्यमानो व्यभिचार्येव । व्यभिचारिलक्षण-
भावात् । तदुक्तम्—
'रसावस्थां परं भावः स्थायितां प्रतिपद्यते ।' इति ।
तत्तस्य स्थायिनः कस्मिन्नरसे संचारित्वमित्याह—
शृङ्गारवीरयोर्हामो वीरे क्रोधस्तथा मतः ॥ १७२ ॥
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
इत्याद्यन्यन्मनुन्नेयं तथा भावितबुद्धिभिः ॥ १७३ ॥
अथ स्थायिभावः—
अविरुद्धा विरुद्धा वा यं तिरोधातुमक्षमाः ।
आस्वादाङ्कुरकन्दोऽसौ भावः स्थायीति संमतः ॥ १७४ ॥
यदुक्तम्—
'व्यङ्ग्यवृत्त्या भावानामन्येषामनुगामकः ।
न तिरोधीयते स्थायी तैर्भूभौ युज्यते परम् ॥' इति ।
... ॥ परमिति । अत्यधिकार्थे ॥ अक्षमा इति । 'भावा
... । कन्दो मूलम् ॥ व्यङ्ग्यवृत्त्या व्यङ्ग्यन्यायेन । अनुगामकः प्रका-