सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 120, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 120

तृतीयः परिच्छेदः । १५१
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥'
अथ विबोधः—
निद्रापगमहेतुभ्यो 'विबोधश्चेतनागमः ।
जृम्भाङ्गमङ्गनयनमीलनाङ्गावलोककृत् ॥ १५१ ॥
यथा—
'चिरंरतिपरिखेदप्राप्तनिद्रालुब्धानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्रा कुर्वते न प्रियाणाम्-
अशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥'
अथ स्वप्नः—
स्वप्नो निद्रासमुत्थस्य विषयानुभवस्तु यः ।