सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 117, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 117

१४८ साहित्यदर्पणे
यथा-
'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं,
कालोऽभ्यर्णजलागमः, कुशलिनी वत्सस्य वार्तापि नो ।
यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला
दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं रोदिति ॥'
अथ श्रमः-
खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः ।
यथा-
'³सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी
सीता जवात्त्रिचतुराणि पदानि गत्वा ।
गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा
रामाश्रुणः कृतवती ⁴प्रथमावतारम् ॥'
अथ मदः-
⁵संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥
स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका
क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीताया
स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो समेदो मेलकः ।
१. वत्सस्येति । वत्सस्य पुत्रस्य ॥
२. निजबधूमिति । निजबधू आत्मस्नुषाम् ॥
३. श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद-
विशेषः श्रम इति। यदाहु - 'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरा-
स्यसङ्कोचैरङ्गमोटनैः ॥ नि श्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति। अय च
सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि-
श्रमस्य भेदः ॥
४. प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥
५. मद इति । मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो
१ '-श्रम स्वेदादिकारक रतान्मार्गगमनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभाजन क ।'
इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल
घेत्तूण समागदम्हि रुहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति
४ 'च' घ ५ 'हर्षोत्कर्षो मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष

  • वचनगत्वादिस्खलनानुभावक ।' इति ग.