साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 118, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः । १४९
अमुना चोत्तमः शेते, मध्यो हसति गायति ।
अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥
यथा—
‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।
गूढसूचितरहस्यसहासः सुध्रुवां प्रववृते परिहासः ॥’
अथ जडता—
अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः ।
अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥
यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये—
‘णेवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि ।
मद्यस्यानवस्य उपभोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग-
ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्यं यत्र स चासौ हासश्चेति ॥ अप्र-
तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ
मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो-
क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासङ्गतवाक्यैः सुकुमा-
रस्खलद्विला च योऽभिनीयेते स आद्यः । कुञ्चितनेत्रस्खलितघूर्णितनादिनिर्नमध्यमः । गतिभ्र-
ष्टस्मृतिनाशहिक्काछर्द्यादिभिर्चरमः । प्रदीपे तु ‘उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य-
मप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥’ इति व्यत्यासोऽस्ति ॥
- प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं
त्रिवारमधुपानम् । ‘सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।’ इति विश्वः । तेन
त्रिसरकेण । ‘त्रिपाने मदातिभूमिः’ इति पानप्रसिद्धिः । प्रतिभां प्रतिभं प्रतिभानविशेषः ।
तत्प्रातिभं गतानां त्रिवारसुरापायोत्कटमदोद्रेकप्रागल्भ्यभाजां सुध्रुवां वक्रवाक्यरचनारम-
णीयं वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका-
शितानि रहस्यानि नाभ्याद्यवयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ
हासश्चेति विशेषणममानः । प्रववृते प्रवृत्तः ॥ - जडतेति । चिन्तोत्कण्ठामयविरहेष्टानिष्टदर्शनश्रवणादिभ्यस्तत्तदवस्थेऽवधार्यप्रति-
संधानविकलं चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वः परश्च ज्ञायते । यदाहुः—
‘कार्याविवेको जडता परवतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥
अनुभावास्त्वमी तूष्णींभावविस्मरादयः । सा पूर्वं परतो वा स्यान्मोहादिति निदर्श-
नकृत् ॥’ इति ॥ - णवेति । स्तब्धस्वेदम् । यहृद्दण्डम्—‘स्तब्धवलितं तत्तद्विधं यत्र चक्षुष्क-
१. ‘अथ जडता’ इति नास्ति ग-पुस्तके. २. ‘यथा—’ इत्यादिपाठिका नास्ति ग-पुस्तके.