सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

प्रथमोऽध्यायः ३१
[ शिलाद्याहरणक्षणः ]
सुदिने शुभनक्षत्रे शकुने शान्तचेष्टिते ।
प्रतिमागृहकाष्ठादिकर्म कार्यं न चान्यथा ॥१०॥
इति शिलापरीक्षा
इत्येकान्तकृष्णाया एव दोषश्रुतेः,
“हरिता कृष्णा शिला ग्राह्या सितवर्णा विशेषतः” इति (अ० ४९, ५० श्लो०)
ईषत्कृष्णाया ग्राह्यत्वविधानाच्च । अग्निपुराणे तु—
“पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्” (अ० ४३, १२ श्लो०)
इत्यविशेषेण सर्वेषामेव ब्राह्मणादिवर्णानां सर्वाऽप्यरुणपीतादिशिला प्रशस्तेत्याह । इह तु
कासाञ्चन कृष्णानां कासाञ्चन पीतानामविशेषेण च श्वेतानां शुभावहत्वमाह—कपोतेत्यादिना ।
तथा च कपोतादिवत् कृष्णशिला, घृतवत् पद्मवच्च पीतशिला श्वेतशिला च सर्वांर्चासु प्रयुक्ता
कर्तुः सुखमावहतीति श्लोकार्थः ।
१०। सुदिन इति । शुभनक्षत्रे कर्तुरिति ज्ञेयम्, सुदिने इति सामान्यतोऽभिधाय विशिष्य
पुनर्नक्षत्रोपादानस्य फलाभावात् । सुदिनञ्च ज्योतिःशास्त्रादाववलोकनीयम् । विशिष्याह
काश्यपः—
“सुमासतिथिनक्षत्रलग्नवारे शिलां ग्रहेत्” इति । (अ० ४९, १८ श्लो०)
मयमते च शिलाद्याहरणं प्रकृत्य—
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ।
प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते ॥ इति । (अ० ३३, १९-२० श्लो०)
शकुने शान्तचेष्टित इति । शकुने शुभाशुभाशंसिनि निमित्ते शान्तचेष्टिते शान्तं सौम्यं
कर्मानुकूलमिति यावत् चेष्टितं यत्र तादृशे सति । शकुनमाह काश्यपशिल्पे—
वायसं दक्षिणे वामादागतञ्च तथैव च ।
श्येनं वै दक्षिणे वामे गृध्रं मांसेन संयुतम् ॥
कन्यागोदर्शनञ्चैव गावस्त्ववावाहनं तथा ।
दधिना पूर्णकुम्भञ्च क्षीरकुम्भं तथैव च ॥
पुष्पं पुष्पप्लुतं वापि सुतवतीयु(षदयु)वतिस्त्रियः ।
अन्नञ्च मांसहास्व (हारञ्च) शिवमक्तिपरायणम् ॥
ज्वालाऽनलञ्च दीपञ्च जलैः पूर्णघटावृतम् ।
त(व)राहं च गजं चैव वेण्या चात्यन्तसुन्दरी ॥
शुभान्येतानि भौमानि अशुभं विपरीतकम् ।

१२ देवतामूर्तिप्रकरणम्
उल्कापातं दिशां दाहं महावातप्रवर्त्तनम् ।
अशुभान्यन्तरीक्षाणि ... ... ॥ इत्यादि ।
(अ० ४९, २०-२५ श्लो०)
शुभशकुनञ्चेद् गच्छेदशुभञ्चेन्न गच्छेदित्याशयः । तदुक्तं काश्यपे—
“शुभञ्चेद् गमनं कुर्यादशुभञ्चेद् विवर्जयेत्” इति । (अ० ४९, २८ श्लो०)
कालातिपाताक्षमे कर्मण्यशुभशकुनदर्शने प्रतिप्रसवमप्याह तत्रैव—
अशुभे त्वग्निमास्तीर्य शिवेनैव शताहुतीः ।
समिदाज्योदनैः कुर्यान्नागाङ्गं नागभूषणम् ॥
दत्त्वा शिवं नमस्कृत्य गच्छेदाचार्यशिल्पि च । इति ।
(अ० ४९, २९-३० श्लो०)
प्रतिमेति । एतदुपलक्षणम्, लिङ्गपीठाद्युचितशिलाद्याहरणेऽप्येतद् योज्यम् । तथा च काश्यपे—
आचार्यः शिल्पिसंयुक्तः शिलाग्रहणमाचरेत् ।
दिव्यान्तरीक्षमौमानि निमित्तान्युपलक्षयेत् ॥ (अ० ४९, १९ श्लो०)
इति सामान्यतः शिलाहरणमुक्तम् ।
मयमते च—
प्रशस्तपक्षनक्षत्रे मुहूर्त्ते करणान्विते ।
गच्छेल्लिङ्गं समुद्दिश्य वनं चोपवनं गिरिम् ॥
... ... ...
निमित्तैः शकुनैर्योग्यैः सह मङ्गलशब्दकैः ॥ इति ।
(अ० ३३, २०-२२ श्लो०)
अत्र लिङ्गमित्युपलक्षणमर्चादीनाम् । वनं चोपवनमिति प्रतिमोचितद्रुमोद्देशकथनम्,
गिरिमिति लिङ्गाद्युपयोगिशिलास्थानकथनम् ।
शिलाग्रहणमन्त्रमाह तत्रैव—
ॐ अपक्रामन्तु भूतानि देवताश्च सगुह्यकाः ।
युष्मभ्यन्तु बलिर्भूयात् क्रूराश्च वनदेवताः ॥
कर्मैतत् साधयिष्यामि क्रियतां व[वा ?]स्तुपर्ययः । इति ।
(अ० ३३, २७-२८ श्लो०)
प्रतिमोचितकाष्ठग्रहणे विशेषमाह बृहत्संहितायाम्—
कर्तुरनुकूलदिवसे दैवज्ञविशेषिते शुभनिमित्ते ।
मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥ इति ।

प्रथमोऽध्यायः १३
[ प्रासादमानेनोर्द्ध्वस्थज्येष्ठप्रतिमालक्षणम् ]
एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुला ।
दशाङ्गुला ततो वृद्धिर्यावद्धस्तचतुष्टयम् ॥११॥
[ ऊर्द्ध्वस्थप्रतिमाया मध्यमाधमभेदकथनम् ]
द्व्यङ्गुला दशहस्तान्ता शतार्द्धान्ताऽङ्गुलस्य च ।
अतो विंशदशांशोना मध्यमार्चा कनीयसी ॥१२॥
एवञ्च तत्रैव ग्राह्याग्राह्यवृक्षानभिधाय तदभिमन्त्रणमाह—
अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः ।
नमस्ते वृक्ष पूजेयं विधिवत् संप्रगृह्यताम् ॥
यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥ इति
(अ० ५८, १०-११ श्लो०)
गृहकाष्ठाहरणप्रकारोऽप्येतदनुरूपः समराङ्गणसूत्रधारे परिलक्ष्यते । तत्राहरणमन्त्रस्तु—
अपक्रामन्तु भूतानि यानि वृक्षाश्रितानि हि ।
कल्पनं वर्त्तयिष्यामि क्रियतां वासपर्ययः ॥ (अ० १६, २७ श्लो०)
तदेतत् सर्वं शेषतो जिज्ञासुभिः समराङ्गणसूत्रधार-(अ० १६) काश्यपशिल्प-(अ० ४९)
मयमत-(अ० ३३) बृहत्संहितासु (५८ वनसम्प्रवेशाध्याये) द्रष्टव्यम् ।
११ । अथ प्रथमं प्रासादमानेन ऊर्द्ध्वस्थायाः ( दण्डायमानायाः ) प्रतिमायाः प्रमाणम्
उच्यते—एकहस्त इत्यादिना । एकहस्ते प्रासादे मूर्त्तिरेकादशाङ्गुला भवेत् । ततो हस्तचतुष्टयं
यावत् प्रतिहस्ते दशाङ्गुला वृद्धिः । अर्थात्, द्विहस्ते प्रासादे मूर्त्तिरेकविंशत्यङ्गुला, त्रिहस्ते
एकत्रिंशदङ्गुला, चतुर्हस्ते एकचत्वारिंशदङ्गुला भवेत् ।
१२ । ततो दशहस्तान्ता द्व्यङ्गुला वृद्धिः, अर्थात् पञ्चहस्तादिदशहस्तान्तप्रासादेषु प्रतिहस्ते
द्व्यङ्गुला वृद्धिः, तेन पञ्चहस्तप्रासादे त्रिचत्वारिंशदङ्गुला प्रतिमा, षड्ढस्तप्रासादे पञ्चचत्वारिंश-
दङ्गुला, सप्तहस्ते सप्तचत्वारिंशदङ्गुला, अष्टहस्ते ऊनपञ्चाशदङ्गुला, नवहस्ते एकपञ्चाशदङ्गुला,
दशहस्ते त्रिपञ्चाशदङ्गुला प्रतिमा स्यादित्यर्थः ।
शतार्द्धान्ताङ्गुलस्य च—शतार्द्धान्ता शतार्द्धहस्तान्ता वृद्धिरित्यस्य विशेषणम् । वृद्धिरङ्गुलस्य
एकाङ्गुलस्य ; एकादशहस्तादिपञ्चाशद्धस्तान्तप्रासादेषु प्रतिहस्ते एकैकाङ्गुला वृद्धिरित्यर्थः ।
तेन च एकादशहस्तप्रासादे चतुःपञ्चाशदङ्गुला प्रतिमा, द्वादशहस्ते पञ्चपञ्चाशदङ्गुला, त्रयोदशहस्ते

१४ देवतामूर्त्तिप्रकरणम्
षट्पञ्चाशदङ्गुला, चतुर्दशहस्ते सप्तपञ्चाशदङ्गुला, पञ्चदशहस्ते प्रासादे अष्टपञ्चाशदङ्गुला प्रतिमा ।
एवंक्रमेण वृद्ध्या पञ्चाशद्धस्तप्रासादे त्रिनवत्यङ्गुला प्रतिमा भवेत् । इत्यूर्ध्वस्थाः पञ्चाशत्
प्रतिमाः ।
अत उक्तमानावधि विंशांशोना विंशेनांशेन न्यूना मध्यमार्चा मध्यमप्रतिमा, दशांशोना
दशमांशेन हीना च कनीयसी क्षुद्रतरा अर्चा कथितेति शेषः । एवञ्च एकहस्तप्रासादे एकादशाङ्गुलं
ज्येष्ठप्रतिमायाः परिमाणम्, दशाङ्गुलं विंशतिविभक्ताङ्गुलस्योनविंशांशाश्च मध्यमप्रतिमापरिमाणम्,
दशाङ्गुलं दशधा विभक्तस्याङ्गुलस्य नवांशाश्च कनिष्ठप्रतिमापरिमाणमिति । एवमन्यास्वपि
प्रमाणाधिकप्रतिमासु ज्ञेयम् ।
प्रासादपरिमाणेन ऊर्ध्वस्थप्रतिमापरिमाणम् ।
प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया
हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम्
१ ... ... ११ २० ... ... ६३
२ ... ... २१ २१ ... ... ६४
३ ... ... ३१ २२ ... ... ६५
४ ... ... ४१ २३ ... ... ६६
५ ... ... ४३ २४ ... ... ६७
६ ... ... ४५ २५ ... ... ६८
७ ... ... ४७ २६ ... ... ६९
८ ... ... ४९ २७ ... ... ७०
९ ... ... ५१ २८ ... ... ७१
१० ... ... ५३ २९ ... ... ७२
११ ... ... ५४ ३० ... ... ७३
१२ ... ... ५५ ३१ ... ... ७४
१३ ... ... ५६ ३२ ... ... ७५
१४ ... ... ५७ ३३ ... ... ७६
१५ ... ... ५८ ३४ ... ... ७७
१६ ... ... ५९ ३५ ... ... ७८
१७ ... ... ६० ३६ ... ... ७९
१८ ... ... ६१ ३७ ... ... ८०
१९ ... ... ६२ ३८ ... ... ८१

प्रथमोऽध्यायः १५
[ आसनस्थोत्तमप्रतिमापरिमाणम् ]
हस्तादेर्वेदहस्तान्ते षड्वृद्धिः स्यात् षडङ्गुला ।
तदूर्ध्वं दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते ।
एकाङ्गुला भवेद् वृद्धिर्यावत् पञ्चाशद्धस्तकम् ॥१३॥
प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया
हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम्
३९ ... ... ८२ ४५ ... ... ८८
४० ... ... ८३ ४६ ... ... ८९
४१ ... ... ८४ ४७ ... ... ९०
४२ ... ... ८५ ४८ ... ... ९१
४३ ... ... ८६ ४९ ... ... ९२
४४ ... ... ८७ ५० ... ... ९३
१३। इदानीमासनस्थमूर्त्तीनां परिमाणमुच्यते । षडङ्गुला आसनस्था मूर्त्तिः हस्तादे-
रेकहस्ताद् वेदहस्तान्ते चतुर्हस्तपर्यन्तप्रासादे षड्वृद्धिः षट् षट् वृद्धैर्यस्याः प्रतिमायास्तादृशी
स्यात् । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्ते अर्थात् एकहस्तप्रासादे मूर्त्तिः
षडङ्गुला, द्विहस्तप्रासादे द्वादशाङ्गुला, त्रिहस्ते अष्टादशाङ्गुला, चतुर्हस्ते चतुर्विंशत्यङ्गुला
भवेत् । तदूर्ध्वं पञ्चहस्तप्रासादमारभ्य दशहस्तान्ता त्र्यङ्गुला वृद्धिरिष्यते । तथा हि—पञ्चहस्त-
प्रासादे सप्तविंशत्यङ्गुला मूर्त्तिः, षड्ढस्तप्रासादे त्रिंशदङ्गुला, सप्तहस्ते त्रयस्त्रिंशदङ्गुला, अष्टहस्ते
षट्त्रिंशदङ्गुला, नवहस्ते ऊनचत्वारिंशदङ्गुला, दशहस्ते द्विचत्वारिंशदङ्गुला मूर्त्तिर्भवेदित्यर्थः ।
ततः पञ्चाशद्धस्तकं यावत् एकादशहस्तादिपञ्चाशद्धस्तान्तमित्यर्थः, एकाङ्गुला प्रतिहस्ते
एकैकाङ्गुला वृद्धिर्भवेत् । तेन एकादशहस्तप्रासादे त्रिचत्वारिंशदङ्गुला मूर्त्तिः, द्वादशहस्ते
चतुश्चत्वारिंशदङ्गुला मूर्त्तिः, एवंक्रमेण वृद्ध्या पञ्चाशद्धस्तप्रासादे द्व्यशीत्यङ्गुला मूर्त्तिर्भवेदित्यर्थः ।
इत्यासनस्था द्वितीयाः प्रतिमाः पञ्चाशत्संख्याकाः ।
प्रासादपरिमाणेन आसनस्थप्रतिमापरिमाणम् ।
प्रासादस्य प्रतिमाया प्रासादस्य प्रतिमाया
हस्तमानम् अङ्गुलिमानम् हस्तमानम् अङ्गुलिमानम्
१ ... ... ६ ५ ... ... २७
२ ... ... १२ ६ ... ... ३०
३ ... ... १८ ७ ... ... ३३
४ ... ... २४ ८ ... ... ३६

१६ देवतामूर्त्तिप्रकरणम्
[ आसनस्थमध्यमाधमप्रतिमापरिमाणम् ]
विंशत्येकाधिका ज्येष्ठा विंशत्योना कनीयसी ।
ऊर्द्धार्चा प्रथमा प्रोक्ता आसनस्था द्वितीयका ॥१४॥
९ ... ... ३९ ३० ... ... ६२
१० ... ... ४२ ३१ ... ... ६३
११ ... ... ४३ ३२ ... ... ६४
१२ ... ... ४४ ३३ ... ... ६५
१३ ... ... ४५ ३४ ... ... ६६
१४ ... ... ४६ ३५ ... ... ६७
१५ ... ... ४७ ३६ ... ... ६८
१६ ... ... ४८ ३७ ... ... ६९
१७ ... ... ४९ ३८ ... ... ७०
१८ ... ... ५० ३९ ... ... ७१
१९ ... ... ५१ ४० ... ... ७२
२० ... ... ५२ ४१ ... ... ७३
२१ ... ... ५३ ४२ ... ... ७४
२२ ... ... ५४ ४३ ... ... ७५
२३ ... ... ५५ ४४ ... ... ७६
२४ ... ... ५६ ४५ ... ... ७७
२५ ... ... ५७ ४६ ... ... ७८
२६ ... ... ५८ ४७ ... ... ७९
२७ ... ... ५९ ४८ ... ... ८०
२८ ... ... ६० ४९ ... ... ८१
२९ ... ... ६१ ५० ... ...(प्रतिमासङ्ख्या:) ८२
१४। विंशत्येकेति। विंशत्येकत एकविंशत्यङ्गुलाद् अधिका द्वाविंशत्यङ्गुलादिपरिमाणा
प्रतिमा ज्येष्ठा। विंशत्योना विंशत्याङ्गुलेन हीना कनीयसी प्रतिमा भवतीत्यर्थः। एवञ्च
कण्ठतोऽनुक्तमप्यत्र मध्यमप्रतिमापरिमाणं पारिशेष्यादुन्नेयम्; तथा हि द्वाविंशत्याद्यङ्गुलपरिमाणा
ज्येष्ठा, विंशत्योना कनीयसी, विंशैकविंशत्यङ्गुला च मध्यमेति पर्यवसितोऽर्थः। अयञ्च प्रासाद-
मानेन प्रतिमापरिमाणनिर्णयप्रकारो ग्रन्थकृदुपज्ञमेव नान्यत्र शिल्पशास्त्रे उपलभ्यते ।

प्रथमोऽध्यायः १७
[ द्वारमानेन ज्येष्ठप्रतिमापरिमाणम् ]
द्वारोच्छ्रयोऽष्टधा कार्यो भागमेकं परित्यजेत् ।
सप्तभागं त्रिधा कृत्वा द्विभागा प्रतिमा भवेत् ॥१५॥
१५। पूर्वं प्रासादमानेन प्रतिमामानमभिहितम्, इदानीं प्रासादद्वारमानेनापि तद्वक्तुं
प्रथमं ज्येष्ठप्रतिमापरिमाणमाह—द्वारोच्छ्रय इति । आदौ द्वारस्यौन्नत्यम् अष्टधा विभज्यैकमंशं
परित्यज्यावशिष्टान् सप्तांशान् त्रिधा विभज्य द्विभागेन प्रतिमाः कुर्यात् । एकांशेन च पीठिकेत्यनुक्त-
मप्यत्रोह्यम् । तथा च बृहत्संहितायाम्—
देवागारद्वारस्याष्टांशोनस्य यस्तृतीयांशः।
तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ॥ इति (अः ५७, ३ श्लो०)
द्वारमानाष्टभागोना प्रतिमा स्यात् सपिण्डिका ।
द्वौ भागौ प्रतिमा तत्र तृतीयांशश्च पिण्डिका ॥ (अः ५५, १६ श्लो०)
इति च । अष्टांशोनस्येति कृताष्टभागस्य द्वारमानस्याष्टमभागेन हीनस्येत्यर्थः । द्वारप्रमाणमाह
तत्रैव प्रासादलक्षणमधिकृत्य—
यो विस्तारो भवेद् यस्य द्विगुणा तत्समुन्नतिः ।
उच्छ्रायाद् यस्तृतीयांशस्तेन तुल्या कटिः स्मृता ॥
विस्ताराद्धं भवेद् गर्भो भित्तयोऽन्याः समन्ततः ।
गर्भपादेन विस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् ॥ (अः ५५, १-२ श्लो०)
इति । तथा च दशहस्तविस्तृते प्रासादे गर्भः पञ्चहस्तः गर्भस्य पादेन तुर्यांशेन द्वारविस्तारो भवे-
दिति सपादहस्तप्रमाणा द्वारस्य विस्तृतिः उन्नतिश्च सार्द्धद्विहस्तपरिमाणा । एवञ्च—द्वासप्ततिहस्त-
विस्तृते प्रासादे षट्त्रिंशद्धस्तमितो गर्भः, गर्भपादसममानतया च नवहस्ता द्वारस्य विस्तृतिस्तद्-
द्विगुणोऽष्टादशहस्तश्चोच्छ्रयः तस्य चाष्टधा विभक्तस्य एकमंशं षडङ्गुलाधिकहस्तद्वयं परित्यज्य
शिष्टानांमष्टादशाङ्गुलाधिकपञ्चदशहस्तानां त्रिभागीकृतानां भागद्वयपरिमिता द्वादशाङ्गुलाधिकदश-
हस्ता प्रतिमा भवेदिति निष्कर्षः । एतच्च ‘एकहस्ते तु प्रासादे मूर्त्तिरेकादशाङ्गुले’(११ श्लो०)ति
यदुक्तं ततोऽन्यादृशमेवेति मन्तव्यम्, निरुक्तद्वारमानत एकहस्तविस्तृतप्रासादे द्वारस्य षडङ्गुलत्वेन
यथोक्तभागवशात् प्रतिमाया अष्टाविंशतियवपरिमाणत्वप्रसक्तेः ।
समराङ्गणसूत्रधारे तूत्तममध्यमाधममूर्त्तीः प्रकृत्य—
(भव ? तच्च) द्वारं त्रिधा (चत्वा ? भक्त्वा) पीठं भागेन कल्पयेत् ।'
(ता ? द्वा) भ्यां (तु) प्रतिमा कार्या ज्येष्ठा (स्या ? यां) मानमीदृशम् ॥
(अः ७०, १४७ श्लो०)
इति यदुत्तमप्रतिमापरिमाणमुक्तं तत् प्रकृतग्रन्थस्य कनिष्ठप्रतिमामानानुरूपम् । तथा कनिष्ठमूर्त्ति-
परिमाणे—

१८ | देवतामूर्त्तिप्रकरणम्

[ मध्यमप्रतिमापरिमाणम् ]
द्वारं विभज्य नवधा भागमेकं परित्यजेत् ।
अष्टौ भागांस्त्रिधा कृत्वा द्विभागे प्रतिमा भवेत् ।
[ कनिष्ठप्रतिमापरिमाणम् ]
त्रिभागैर्भाजिते द्वारे द्विभागेऽर्चा प्रकीर्त्तिता ॥१६॥
इति प्रासाद्द्वारमानेन प्रतिमाप्रमाणम् ।
........हीनायां विदध्याद् द्वारमष्टधा ।
ए(व ? क) मुत्सृज्य शेषेण ****** ॥ (अः ७०, १४९ श्लो०)
इत्यपि यदुक्तं तत्तु प्रक्रान्तश्लोकानुसारोति दृश्यते । एवम् अस्माभिरुपरिष्टात् प्रदर्शयिष्यमाणं
तदुक्तमध्यमप्रतिमापरिमाणमपि वक्ष्यमाणमध्यमप्रतिमापरिमाणानुसारोति ज्ञेयम् । न चैवं
समराङ्गणसूत्रधारप्रामाण्यात् प्रकृतेऽपि ग्रन्थे वैपरीत्येन अधममध्यमोत्तमप्रतिमापरिमाणलक्षकतया
श्लोकानां परिपाटीः स्वीकृत्य तदेकवाक्यता करणीयेति वाच्यम्, बृहत्संहितायां मध्यमादिभेद-
मनादृत्य केवलमेतच्छ्लोकोक्तपरिमाणस्यैव ग्रहणेनास्यैवोत्तमत्वस्वीकारात् । मत्स्यपुराणेऽपि—
द्वारोच्छ्रयस्य यन्मानमष्टधा तत्तु कारयेत् ।
भागमेकं ततस्त्यक्त्वा परिशिष्टन्तु यद् भवेत् ॥
भागद्वयेन प्रतिमा........... । ( अ० २५८, २४-२५ श्लो० )
इति द्वारमानेनैकमेव प्रतिमापरिमाणमुक्तमिति सर्वं सुसमञ्जसम् ।
१६। मध्यमाधमप्रतिमापरिमाणमाह—द्वारमिति त्रिभागैरिति च । स्पष्टोऽर्थः । मध्यम-
प्रतिमालक्षणमाह समराङ्गणसूत्रधारे—
मध्यायां नवधा द्वारं कृ ( ते ? त्वै ) कं भागमुत्सृजेत् ।
शेषान् भागांस्त्रिधा कृत्वा पीठं भागेन कल्पयेत् ॥
अर्चातुभागाभ्याम्........... । इति । ( अ० ७०, १४८-१४९ श्लो० )
अधमप्रतिमापरिमाणमप्याह तत्रैव—‘हीनायां विदध्याद् द्वारमष्टधे’त्यादि प्रागेवोल्लिखितम् ।
द्वारप्रमाणायाः प्रतिमाया विनियोगमाह समराङ्गणसूत्रधारे—
‘यात्रार्था प्रतिमा द्वारप्रमाणेन विधीयते । इति । ( अ० ७-१४६ )
यात्रार्था उत्सवार्थं निर्मिता ।
द्वारमानेन प्रतिमापरिमाणेऽन्येऽपि विशेषाः समराङ्गणसूत्रधारतो जिज्ञासुभिर्विज्ञेया ।
प्रतिमानां मुखाद्यवयवपरिमाणादिकञ्च मत्स्यपुराण ( अ० २५८ )-बृहत्संहिता ( अ० ५७ )-
काश्यपशिल्प ( अ० ५० )-समराङ्गणसूत्रधारादिषु ( अ० ७६ ) द्रष्टव्यम् ।

प्रथमोऽध्यायः १६
[ गृहपूज्यायाः प्रतिमायाः परिमाणम् ]
आरभ्यैकाङ्गुलादूर्ध्वं पर्यन्ते द्वादशाङ्गुलम्।
गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥१७॥
[ देवगृहोचितप्रतिमापरिमाणम् ]
तदूर्ध्वान्नवहस्तान्ता पूजनीया सुरालये।
[ बहिरर्चनीयप्रतिमापरिमाणम् ]
दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥१८॥
१७। इदानीं कुत्र कीदृशी प्रतिमा पूजनीयेति वक्तुं प्रथमं गृहोचितायाः प्रतिमायाः परिमाण-
माह—आरभ्येति । एकाङ्गुलादारभ्य उच्छ्रायेण द्वादशाङ्गुलपर्यन्ता प्रतिमा गृहेषु पूज्या । स्पष्टमुक्तं
मत्स्यपुराणे—
अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ ( अ० २५८, २२ श्लो० )
इति। वितस्तिर्द्वादशाङ्गुलम्।
१८। देवालयपूज्यामाह तदूर्ध्वमिति। द्वादशाङ्गुलतोऽष्टहस्तपरिमाणं यावत् प्रतिमा सुरालये
पूजनीया। तथा च मात्स्ये—
'आषोडशा तु प्रासादे कर्तव्या नाधिका ततः' इति। ( अ० २५८.२३ )
'आषोडशा' षोडश वितस्तिपर्यन्ता अष्टहस्तपर्यन्तेति यावत्, प्रासाद इति देवालय इत्यर्थः।
एतदेकवाक्यताविधित्सयैव 'नवहस्तान्ता' इत्यस्य नव हस्ताः परिमाणं यस्याः सा नवहस्ता,
सा अन्ते यस्याः त्रयोदशाङ्गुलाद्यष्टहस्तान्तायाः प्रतिमायाः सा तथेत्यतद्गुणसंविज्ञानव्यधिकरण-
बहुव्रीहिणा तादृशोऽर्थः कष्टकल्पोऽपि युक्त इत्युत्पश्यामः।
दशहस्तादित इति। दशहस्तायाः प्रतिमाया आदिरादिभूता प्रतिमा ताम् आरभ्य नवहस्त-
प्रतिमामारभ्येत्यर्थः, न तु दशहस्तप्रतिमामारभ्येति यथाश्रुतार्थः करणीयः, पूर्वोक्तमत्स्य-
पुराणवचनेन नवहस्तायाः प्रतिमाया अपि प्रासादे पूजननिषेधात्, सम्भवति च तद्वचनेन
सहैकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्। इत्थञ्च—'दशादिकरवृद्धा च' (१९) इति वक्ष्यमाण-
वाक्येन दशहस्तप्रतिमामारभ्य पञ्चचत्वारिंशद्धस्तां यावच्चतुष्क्यां पूजनविधानादियमेकैव नवहस्ता
प्रतिमा वर्त्तते, यस्याः पूजास्थानं किमपि नोपदिष्टं ग्रन्थकृता।
इदमत्र मनस्यापतति,—प्रासादेन विनाऽर्चयेदित्यनेन सामान्यत आसां दशहस्तादिप्रतिमानां
प्रासादे पूजां निषिध्य क्व तर्हीमाः पूजनीया इत्यपेक्षायां दशादिकरवृद्धेति विशेषोऽभिहितो ग्रन्थ-
कृतेति। अत्र च पक्षे 'नवहस्तान्ता' इत्यस्य 'दशहस्तादित' इत्यस्य च यथाश्रुत एवार्थः करणीयः

२० देवतामूर्त्तिप्रकरणम्
[ तत्र विशेषः ]
दशादिकरवृद्ध्या च षट्त्रिंशत्प्रतिमाः पृथक् ।
बाणवेदकरान् यावच्चतुःषष्ट्यां(चतुष्क्यां?) पूजयेत् सुधीः॥१९॥
[ देवगृहभित्त्यादिनिर्णयः ]
चतुरस्रीकृते क्षेत्रे दशधा प्रविभाजिते ।
चतुर्भागे भवेद् भित्तिः शेषं गर्भगृहं स्मृतम् ॥२०॥
स्यादन्यथा नवहस्तप्रतिमाविषये किमपि विधानं न स्यात्तेन च ग्रन्थकृतो न्यूनता प्रसज्येत । यथा-
श्रुतार्थपरिग्रहपक्षे तु पूर्वोक्तमत्स्यपुराणवचनव्याकोपो मतान्तरवादेन प्रतिसमाधेय इति दिक् ।
१९। दशहस्तादिप्रतिमानां पूजास्थानमाह—दशादीति । दशहस्तत आरभ्य बाणवेदकरान्
पञ्चचत्वारिंशतं हस्तान् यावत् एकैककरवर्धनाजाताः पृथक् षट्त्रिंशतं प्रतिमाः चतुष्क्यां
बहिश्चतुरस्रदेशे पुष्करिण्याकारनिर्जलचतुरस्रखाते वा पूजयेदित्यर्थः । तथा च दशहस्तैकादशहस्त-
द्वादशहस्तादिक्रमेण पञ्चचत्वारिंशद्धस्तां यावद् गृहाद् बहिश्चतुरस्रप्रदेशे पूजयेत् । भवति
च दशहस्तां प्रतिमां मेरुत्वेन कल्पयतः पञ्चचत्वारिंशद्धस्ता प्रतिमा षट्त्रिंशी ।
एताश्च पञ्चचत्वारिंशद्धस्तान्ताः प्रतिमाः पूर्ववज्ज्यैष्ठ्यादिकं भजन्ते । तथा हि—निरुक्त-
प्रमाणाः प्रतिमाः ज्येष्ठाः, स्वमानस्य तृतीयभागोना मध्यमा अर्द्धोनाश्च कनिष्ठा इति । तदेतत्
सविशेषमाह समराङ्गणसूत्रधारे—
आकाशे (?) प्रतिमा ( येष्ठा ? ज्येष्ठा ) चत्वारिंशच्च पञ्च च ।
हस्तान् कार्या त्रिभागोना मध्या हीना तदर्द्धतः ॥ (अ० ७० १४५—१४६ श्लो०)
इति । इत ऊर्ध्वं प्रतिमाया विधानं नास्तीति इयमेव बृहत्तरा प्रतिमा ।
बृहत्संहितायां चतुर्हस्ताधिकप्रतिमाया एव शुभदायकत्वमुक्तम्—
सौम्या तु हस्तमात्रा वक्षदा हस्तद्वयोच्छ्रिता प्रतिमा ।
क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा या ॥ इति । ( अ० ५७, ४९ श्लो० )
अत्रादर्शं चतुःषष्ठ्यामिति प्रामादिकः पाठः, छन्दोभङ्गदोषादर्थासङ्गतेश्च । अस्ति च समानतन्त्रे
ग्रन्थकृतः कृतौ रूपमण्डने प्रायेणैतत्समानानूपूर्वीकः श्लोकः, तत्र च ‘चतुष्काम्’ इति पाठ
उपलभ्यते । छन्दःशुद्धोऽप्ययं पाठोऽपपाठ एव मन्यतेऽर्थदारिद्र्यात्, तस्मात् पूर्वदर्शितसमराङ्गण-
सूत्रधारवचनैकार्थ्यात् रूपमण्डनीयचतुष्कशब्देन साम्यबाहुल्याच्च प्राङ्गणादिसमानार्थकं ‘चतुष्क्याम्’
इति पदं शुद्धपाठत्वेन कल्पितमस्माभिरिति ज्ञेयम् ।
२०। इदानीं गर्भगृहप्रमाणेण प्रतिमापरिमाणं वक्तुमादौ गर्भगृहप्रमाणमाह—चतुरस्रीकृत
इति । अन्यथैव भित्त्यादिविधानमाह बृहत्संहितायाम्, तच्च पूर्वं प्रदर्शितम् ।

प्रथमोऽध्यायः २१
[ गर्भगृहप्रमाणेन ज्येष्ठादिप्रतिमाकथनम् ]
गर्भगृहत्रिभागेन ज्येष्ठाऽर्चा कथिता बुधैः ।
मध्यमा च दशांशेन (शोना) पञ्चांशेना (शोना) कनीयसी ॥२१॥
सप्तांशे गर्भगृहे तु द्वौ भागौ परिवर्जयेत् ।
पञ्चभागो भवेद्देवः शयनस्थः सुखावहः ॥२२॥
अष्टलोहमयी मूर्त्तिः शैलरत्नमयी तथा ।
श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥२३॥
२१ । गर्भेत्यादि । त्रिभागीकृतस्य गर्भगृहस्य भागेनैकेन कृता अर्चा ज्येष्ठा, षोडशधा
विभक्तस्य गर्भगृहस्य दशांशोना अर्थात् सार्द्धपादप्रमाणा प्रतिमा मध्यमा ; तथा पञ्चांशोना
प्रतिमा कनीयसी कनिष्ठा इत्यर्थः ।
अत्र यद्यपि ‘त्रिभागेन’ इति शुद्धपाठसमीपचर्यया ‘दशांशेन’ इत्यत्राप्यसन्दिग्धत्वेन प्रतीय-
मानः पाठः परिवृत्तिबुद्धिं विलुम्पति, तथापि ‘पञ्चांशेना’ इति विकृतपाठदर्शनात्तस्य च
प्रकृत्यनुसन्धित्सया ‘पञ्चांशोना’ इति पाठः प्रथमतः शुद्धत्वेन बुद्धिम आरोहति, ततश्च मध्यमत्वा-
दिक्रमान्यथानुपपत्त्या सर्वत्रैव ‘ऊना’ इति पाठः सम्यक्तया प्रतिभातीति स एवास्माभिरनुसृतः ।
क्रमानुपपत्तिस्तु—
अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु ।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥
इत्यादिवचनादूनप्रमाणाया एव प्रतिमाया ज्यैष्ठं प्रतीयते, प्रमाणाधिकायास्तु कानिष्ठ्यम् ।
इत्थञ्च गर्भगृहदशांशेन निर्मिता प्रतिमा प्रमाणाधिकेति तस्याः कानिष्ठ्ये प्राप्ते, पञ्चांशेन निर्मिता
तूनप्रमाणेति तस्या अपि मध्यमत्वे प्राप्ते तदुभयविपरीतं प्रमाणाधिकायाः प्रतिमाया
माध्यमिकत्वमूनप्रमाणायाश्च कानिष्ठ्यम् उपदिशन् यथाश्रुतः पाठः क्रमदुःस्थ इति हेयपक्ष एव
निक्षेप्सव्यः ।
तदेतत् सर्वं विस्पष्टमुक्तं स्वयं ग्रन्थकारेण तदीयरूपमण्डने—
तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा ।
मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी ॥ इति
२३ । अष्टलोहबिम्बानि, यथा—
सौवर्णं राजतं ताम्रं पैत्तलं कांस्यमायसम् ।
सैसकं त्र्यापुषञ्चेति लौहं बिम्बं तथाऽष्टधा ॥
बिम्बरत्नानि, यथा—
स्फटिकं पद्मरागञ्च वज्रं नीलं हिरण्मयम् ।
वैदूर्यं विद्रुमं पुष्पं रत्नबिम्बं तथाऽष्टधा ॥

३२ देवतामूर्त्तिप्रकरणम्
अतीताब्दशता या स्यान्मूर्त्तिः स्थाप्या महत्तमैः ।
खण्डिता स्फुटिताप्यर्च्य्या अन्यथा दुःखदायिका ॥२४॥
स्फटिकं सूर्य्यकान्तञ्च चन्द्रकान्तमिति त्रिधा ।
स्फटिकस्यैव भेदाः स्युः काममोक्षार्थदाः क्रमात् ॥
श्रियं कामं तथाऽऽरोग्यमृद्धिं पुत्रं जयं सुखम् ।
लभते पद्मरागादिविम्बानां क्रमशॊऽर्चनात् ॥
बिम्बवृक्षा, यथा—
चन्दनं देवदारुश्च शमीपिप्पलशिंशपाः ।
खदिरासनमातुलूङ्गमधूका बकुलस्तथा ॥
पद्मकं कर्णिकारश्च विप्रादीनां त्रयं त्रयम् ।
क्रमादारवबिम्बानां विज्ञेयास्तरवः शुभाः ॥
२४। इदानीं जीर्णोद्धारविधिं संक्षेपेण कथयिष्यन् आदौ जीर्णत्वेऽप्यपरित्याज्यां प्रति-
मामाह—अतीताब्दशतेत्यादि। महत्तमैर्महापुरुषैः स्थाप्या स्थापनयोग्या या मूर्त्तिः देवताबिम्बम्
अतीताब्दशता विगतशतवर्षा सती खण्डिता भग्ना, स्फुटिता विदीर्णापि सा अर्च्य्या पूजनीया,
अन्यथा नोचेत् पूजिता स्यात् दुःखदायिका अशुभप्रदा भवेदिति शेषः । शतस्य वर्षाणामप-
गमे यदि प्रतिमा भग्ना स्फुटिता वा स्यात्, तथापि तां पूजयेदित्युक्तमनेन ।
व्यक्तिविशेषप्रतिष्ठितानां मूर्त्तीनामत्याज्यतामाह शिवलिङ्गमधिकृत्याग्निपुराणम्—
असुरैर्मुनिभिर्गीर्वाणैस्तन्त्रविद्भिः प्रतिष्ठितम् ।
जीर्णं वाऽप्यथवा भग्नं विधिनापि न चालयेत् ॥ (अ० १०३, १९ श्लो०)
भङ्गविशेषे ग्राह्याग्राह्यत्वमुक्तं ग्रन्थकारेण तस्यैव रूपमण्डने—
अङ्गप्रत्यङ्गभग्नां तु मूर्त्तिं धीमान् विसर्जयेत् ।
नखाभरणमालास्त्रभग्नां तां न विसर्जयेत् ॥ इति ।
शुक्रनीतिसारे च
देवालये मानहीनां मूर्त्तिं भग्नां न धारयेत् ।
अग्निपुराणेऽपि सप्तषष्टितमाध्याये—
जीर्णोद्धारविधिं वक्ष्ये भूपितां स्नपयेद् गुरुः ।
अचलां विन्यसेद् गेहे अतिजीर्णां परित्यजेत् ॥ १ ॥
व्यङ्गां भग्नाञ्च शैलाद्यां न्यसेदन्याञ्च पूर्ववत् ।
संहारविधिना तन्न तत्त्वान् संहृत्य देशिकः ॥ २ ॥
सहस्त्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः ।
दार्वीं दाहयेद् वह्नौ शैलजां प्रक्षिपेज्जले ॥ ३ ॥

प्रथमोऽध्यायः २३
धातुरत्नविलेपोत्था व्यङ्गाः संस्कारयोग्याः ।
काष्ठपाषाणजा भग्नाः संस्कारार्हा न देवताः ॥२५॥
[ बहिरायतनस्थाप्या देवताः ]
भैरवः शस्यते लोके प्रत्यायतनसंस्थितः ।
न मूलायतने कार्यो भैरवस्तु भयङ्करः ।
नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥२६॥
[ अशुभप्रतिमालक्षणम् ]
नाधिकाङ्गा न हीनाङ्गाः कर्तव्या देवताः क्वचित् ।
धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ।
यानमारोप्य जीर्णाङ्गां छाद्य वस्त्रादिना नयेत् ॥ ४ ॥
वादिन्त्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।
कूपवापीतडागादेर्जीर्णोद्धारे महाफलम् ॥ ५ ॥
शिल्परत्ने च— दोषे लघुत्तरे बिम्बं नैव त्याज्यं कदाचन ।
बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥
तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते ।
वैरूप्यं जायते यस्य तत्त्याज्यं प्रायशो भवेत् ॥
अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः ।
महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि ।
तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥
२६। भैरव इत्यादि। भैरवो कालभैरवो वटुकभैरवस्त्रिपुरभैरवश्च महादेवस्य मूर्त्तिविशेषः,
प्रत्यायतनसंस्थितः वस्तुबहिर्वाटीस्थः शस्यते प्रशस्तो भवति, बहिरावास एव स्थापनीय
इत्यर्थः। मूलायतने न कार्यो न स्थापनीयः। नारसिंहो वराहो वा तथा अन्येऽपि
भयङ्करा देवता मूलायतने न कार्याः। तदुक्तं मत्स्यपुराणे समानानुपूर्व्या—
भैरवः शस्यते लोके प्रत्यायतनसंस्थितः ।
न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥
नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥ इति । (२५९अ० १४-१५ श्लो०)

२४ देवतामूर्त्तिप्रकरणम्
स्वामिनं घातयेन्नूना करालवदना तथा ।
अधिका शिल्पिनं हन्ति कृशा चैवार्थनाशिनी ॥२७॥
वक्रनासातिदुःखाय संक्षिप्ताङ्गा भयङ्करी ।
चिपिटा दुःखशोकाय आधिपत्यविनाशिनी ॥२८॥
दुःखदा हीनवक्त्रा तु पाणिपादकृशा तथा ।
हीनाङ्गा हीनजङ्घा च भ्रमोन्मादकरी नृणाम् ॥२९॥
शुष्कवक्त्रा तु राजानं कटिहीना च या भवेत् ।
पाणिपादविहीनायां जायते नरको महान् ॥३०॥
जङ्घाहीना तु या त्वर्चा शत्रु-कल्याणकारिणी ।
पुत्रमित्रविनाशाय हीना वक्षःस्थलेन या ॥३१॥
२७-३१। एते पञ्च श्लोकाः सर्वात्मना मत्स्यपुराणीय (अ० २५९, १६-२० श्लो०)-श्लोक-
पञ्चकमनुकुर्वते । यच्च क्वचित् कश्चिद् वर्णभेदोऽस्ति तन्मात्रं प्रदर्श्यते—‘आधिपत्यविनाशिनी’
(२८ श्लो०) इत्यत्र मात्स्ये ‘अनेत्रा नेत्रनाशिनी’ (१८ श्लो०) इति पाठः, एवं ‘पाणिपादविहीनायां’
(३० श्लो) इत्यत्र ‘पाणिपादविहीनो यो’ (१९ श्लो०) इति पाठः। ‘जङ्घाहीनदेवतार्चा’
(३१ श्लो०) इत्यत्र ‘जङ्घाजानुविहीना च’ (२० श्लो०) इति पाठः। समराङ्गणसूत्रधारे—
निहन्ति कारकं रौद्रा दीनरूपा च शिल्पिनम् ।
कृशा व्या (धि ? धिं) विनाशञ्च कुर्यात् कारयितुः सदा ॥
कृशोदरी तु दुर्भिक्षं विरूपा चानपत्यताम् ॥ ( अ० ७७, ७-८ श्लो० )
इत्यन्यदेव फलं तत्तदङ्गविकृतायाः प्रतिमायाः प्राह । तथा बृहत्संहितायाम्—
नृपभयमल्पङ्गतायां हीनाङ्गायामकल्पता कर्तुः ।
शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ।
मरणन्तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः ॥ ( अ, ५७, ५०-५१ )
इति । परमत्र दृष्ट्यवस्थानादिभेदेनाप्यशुभप्रतिमालक्षणमुक्तम् । यथा—
वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ।
अन्धत्वमूर्द्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ॥
( अ० ५७, ५१-५२ श्लो० ) इति ।

प्रथमोऽध्यायः २५
पीठयान-परीवारध्वंसे सति यथाक्रमम् ।
स्थानवाहनभृत्यानां नाशो भवति निश्चितम् ॥३२॥
प्रतिमा काष्ठलेपाश्मदण्डचित्रादिसंग्रहे ।
मानाधिक-परीवाररहिता नैव पूज्यते ॥३३॥
अनेत्री नेत्रनाशाय स्वल्पा स्याद् भोगवर्जिता ।
अर्थहृत् प्रतिमोत्ताना चिन्ताहेतुरधोमुखी ॥३४॥
[ शुभप्रतिमालक्षणम् ]
सम्पूर्णावयवा या स्यादायुर्लक्ष्मीप्रदा सदा ।
एवं लक्षणमासाद्य कर्तव्या देवता बुधैः ॥३५॥
[ अथाद्भुतम् ]
यानलेरुत्पातान् गर्गः प्रोवाच तानहं वक्ष्ये ।
तेषां सङ्क्षेपतोऽयं प्रकृतेरन्यत्वमुत्पातः ॥ ३६ ॥
३२ । पीठयानेत्यादि । प्रतिमायाः पीठस्य यानस्य परीवारस्य च ध्वंसे नाशे सति
कर्तुरपि यथाक्रमं स्थानवाहनभृत्यानां निश्चितं ना

३६ देवतामूर्तिप्रकरणम्
अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति ।
संसूचयन्त्यतिदिशान्तरिक्षभौमां तथोत्पातः ॥३७॥
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् ।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥ ३८ ॥
[ दिव्याद्भुतम् ]
दिव्यं ग्रहर्क्षवैकृतम्... ... ...
[ आन्तरिक्षाद्भुतम् ]
... ... ...उल्कानिर्घातपवनपरिवेशाः ।
गन्धर्वपुर(पुरपुर?)न्दरचापांसि(पादि?) यदान्तरिक्षं तत् ॥३६॥
अत्र ते वर्णयिष्यामि यदुवाच महातपाः ।
अत्रये वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥ (अ० २२९, २श्लो० )
इति । तेषाम् अद्भुतानां सङ्क्षेपः समासेन संग्रहस्तु प्रकृतेरन्यत्वं स्वभावस्यान्यथाभावः
वैपरीत्यमिति यावत् ।
तथा च बृहत्संहिताविवृतौ उत्पलभट्टधृतसमाससंहितायाम्—
यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः ।
क्षिति गगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥ इति ।
३७ । संसूचयन्तीति । सर्वाङ्गक्षतमिदं श्लोकार्द्धं कथं प्रतिक्रियेतेति पर्याकुलैरस्माभिर्मूले
संशोधनप्रयासः परित्यक्तः । परमर्थग्रहार्थं संवादिप्रमाणमुद्ध्रियते । तथा च बृहत्संहितायां
यथोक्तपूर्वार्द्धात् परम्—
‘संसूचयन्ति दिव्यान्तरिक्षभौमांस्त उत्पाताः’ ( अ० ४५, २ श्लो० ) ।
इति प्रकृतार्द्धसमार्थकः पाठः । ‘नराणाम् अपचारेण पापसञ्चयो भवति पापसञ्चयादुपसर्गा
उपद्रवाः । तथा च गर्गः—
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ इति ।
ततो दिव्यान्तरिक्षभौमा उत्पाताः तान् उपसर्गान् संसूचयन्ति ।’ इति तद्विवृतौ
उत्पलभट्टः ।
३९ । इदानीमुत्पातान् विभजन् दिव्यस्वरूपमाह—दिव्यमिति । ग्रहाणाम् आदित्या-

प्रथमोऽध्यायः २७
[ भौमाद्भुतम् ]
भौमं चरस्थिरभवं... ... ...
[ एषां शान्तिनिवर्त्तनीयत्वानिवर्त्तनीयत्वविकल्पः ]
तच्छान्तिभिराहतं शममुपैति ।
नाभसमुपैति मृदुतां शमीत न दिव्यं वदन्त्येके ॥४०॥
दीनाम् ऋक्षाणाम् अश्विन्‍यादिनक्षत्राणां यद् वैकृतम् अन्यथाभावस्तद् दिव्यम् अद्भुतमिति शेषः ।
अत्र प्रकृतोऽप्युत्पातो लिङ्गभेदाद् 'दिव्येन' न सम्बध्यते एवमुत्तरत्रापि । यद्वा वैकृतमेवात्र
विशेष्यम् , ग्रहर्क्षकृतं यद् वैकृतं तद् दिव्यमित्यर्थः ।
आन्तरिक्षमाह—उल्केत्यादि । उल्कास्वरूपमाह बृहत्संहितायाम्—
'दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः' ( अ० ३३, १ श्लो० ) इति ।
केचित् पुनर्लोकानां शुभाशुभसूचनाय लोकपालास्तान्यस्त्राण्येवोल्का इत्याहुः । तथा चोत्पल-
भट्टधृतगर्गः—
स्वास्त्राणि संसृजन्त्येते शुभाशुभनिवेदिनः ।
लोकपाला महात्मानो लोकानां ज्वलितानि तु ॥ इति ।
निर्घात इति । निर्घातमाह बृहत्संहिताविवृतौ उत्पलभट्टधृतगर्गः—
यदाऽन्तरिक्षे बलवान् मारुतो मरुताहतः ।
पतत्यधः स निर्घातो भवेदनिलसम्भवः ॥ इति ।
पवनो विकृतो वायुः । परिवेश इति । तत्स्वरूपमाह बृहत्संहितायाम्—
सम्मूर्च्छिता रवीन्द्रोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेशाः ॥ इति ।
गन्धर्वपुरम् आकाशे दृश्यमानं पुराकृति प्रसिद्धम् । इन्द्रचापम् आकाशे दृश्यमानं
धनुराकृति चिह्नम् । तथा च बृहत्संहितायाम्—
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥ इति ।
प्रकारान्तरमाह उत्पलभट्टधृतकाश्यपः—
अनन्तकुलजाता ये पन्नगाः कामरूपिणः ।
तेषां निश्वाससम्भूतमिन्द्रचापं प्रचक्षते ॥ इति ।
एते यत् तदान्तरिक्षम् अद्भुतमिति । गन्धर्वपुरन्द्रेत्यत्र एकं 'पुर'पदं लेखकप्रमादात्
पतितमिति प्रतिभाति । 'चापांसी'त्यपपाठः ।
४०। भौममुत्पातमाह—भौममिति । चरस्थिरभवमिति चरेभ्यः स्थिरेभ्यश्च वस्तुभ्यो

३८ देवतामूर्त्तिप्रकरणम्
दिव्यमपि शममुपैति प्रभूतकनान्नगोमहीदानैः ।
रुद्रायतने भूमेर्गोर्दानात् कोटिहोमाच्च ॥ ४१ ॥
भवतीति तादृशं यत् तद् भौमम् । उत्पलभट्टस्तु बृहत्संहितायाम्—'चराणां वस्तूनां स्थैर्यं
स्थिराणां चरत्वं तदुद्भवम्' इत्याह ।
भौमनाभसयोः शान्तिकर्मनिवर्त्त्यत्वमाह—तदिति । तद् भौमम् अद्भुतं शान्तिभिः शान्ति-
कर्मभिराहृतं निवारितं सत् शमं शान्तिमुपैति । नाभसम् आन्तरिक्षम् अद्भुतं शान्तिभिराहृत-
मित्येव, मृदुतां मन्दीभावम् उपैति । अत्र मृदुतामुपैतीत्यनेन भौमं यथा शाम्येन्न तथा
नाभसमित्यायाति ।
दिव्योत्पातस्य शान्तिनिवर्त्त्यत्वे विकल्पमाह—नेति । दिव्यं न शान्तिमुपैति न वा मृदुतां
यातीत्येके महर्षयो वदन्ति ।
तथा चोत्पलभट्टधृतकाश्यपः—
भौमं शान्तिहतं नाशमुपगच्छति मार्दवम् ।
नाभसं न शमं याति दिव्यमुत्पातदर्शनम् ॥ इति ।
अत्र 'शमीते'त्यपपाठः आदादिकस्य शमधातोरभावात् । शाम्यतीति पाठो बृहत्-
संहितायाम् ।
प्रसङ्गादत्र दिव्याद्यद्भुतमधिकृत्य मत्स्यपुराणे यदुक्तं तदुद्ध्रियते—
ग्रहर्क्षवैकृतं दिव्यमान्तरिक्षं निबोध मे ।
उल्कापातो दिशां दाहः परिवेषस्तथैव च ॥
गन्धर्वनगरञ्चैव वृष्टिश्च विकृता तु या ।
एवमादीनि लोकेऽस्मिन्नान्तरिक्षं विनिर्दिशेत् ॥
चरस्थिरभवो भौमो भूकम्पश्चापि भूमिजः ।
जलाशयानां वैकृत्यं भौमं तदपि कीर्त्तितम् ॥ इति ।
(अ० २२९, ६-९ श्लो० )
४१ । एवं दिव्यस्य शाम्यत्वाशाम्यत्वे विकल्प्य सम्प्रति स्वमतमाह—दिव्यमपीति ।
अत्रापिः सम्भावनायाम् इत्यहं सम्भावयामीत्यर्थः । यद्वापिः समुच्चये, प्रभूततत्तद्द्रव्यदानैर्न केवलं
भौमं नाभसञ्च शान्तिमुपैति परं दिव्यमपि शान्तिमुपैतीत्यर्थः ।
रुद्रायतन इति शिवालये । 'भूमेर्गोर्दानादि'त्यपपाठः पूर्वं गोमहीदानस्योक्तत्वात् । यद्वा
पूर्वं स्थानानियमेन प्रभूतगवादिदानव्यवस्था कृता, परतश्च स्थानविशेषे अल्पाया अपि भूमे-
रेकस्या अपि गोर्दानमभिहितमिति पूर्वार्द्धे प्रभूतपदोपादानादपरार्द्धे भूमेरिति गोरिति चैकवचनो-
पादानादवगम्यते । 'रुद्रायतने भूमौ गोदोहादि'ति पाठो बृहत्संहितासम्मतः । 'भूमौ गोदोहश्च
पात्रं विना भूमौ गोः स्तनं निष्पीड्य दुग्धोत्सर्ग' इति शब्दकल्पद्रुमः ।

प्रथमोऽध्यायः ३६
[ दैवोत्पाते राज्ञो विशेषः ]
आत्मसुतकोशवाहनपुरदारपुरोहितेषु लोके च ।
पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः ॥ ४२ ॥
[ लिङ्गादिवैकृतं तत्फलञ्च ]
अनिमित्तचलनभङ्ग-स्वेदाश्रुनिपातजल्पनाद्यानि ।
लिङ्गार्चायतनानां नाशाय नरेशदेशानाम् ॥ ४३ ॥
४२। अत्र दैवोत्पाते राज्ञः फलस्य व्यापकतामाह-आत्मति । यद्वा येऽत्र प्रकरणे
उक्तास्तेषां राजन्येव फलपाक इति स्थिते तत्सम्बन्धितया के के फलभागिनः स्युरित्यपेक्षायामाह-
आत्मति । कस्योत्पातस्य कुत्र कीदृशः फलपाके इत्युपरिष्टाद् वक्ष्यते । नृपतेरिति सर्वत्र
सम्बध्यते । तथा च नृपतेरात्मनि शरीरे सुते पुत्रे कोषे धनागारे वाहनेषु हस्त्यश्वादिषु पुरे नगरे
दारेषु भार्यासु पुरोहिते आचार्ये लोके प्रजासु चेत्यष्टधा अष्टप्रकारेण परिकल्पितं दैवमद्भुतं पाकं याति
फलं ददाति । ‘लोके जनपदे’ इत्युत्पलभट्टः (अ० ४९, ७ श्लो०) । व्यक्तमाह मत्स्यपुराणे-
राज्ञः शरीरे लोके च पुरदारे पुरोहिते ।
पाकमायाति पुत्रेषु तथा वै कोशवाहने ॥ (अ० २२९, १३ श्लो०)
अत्र दैवोत्पात एवायं राज्ञः फलविशेष उक्तः, पूर्वोक्तमत्स्यपुराणवचने तु एवंविधफलस्यौत-
पातसाधारण्यमिति विशेषः । एतेन प्राकृतजनविषय उत्पातः प्रातिस्विकफल इत्यवधेयम् ।
४३ । चरस्थिरभवमिति यत् स्थिरस्य चरधर्माक्रान्तिलक्षणं भौममद्भुतम् उत्पलभट्टव्याख्या-
स्वरसात् पूर्वमुक्तं तदेव विव्रियते-अनिमित्तेत्यादिना । अथवाऽन्यदेवेदं पूर्वोक्तेभ्य उत्पातेभ्यो
लिङ्गादि वैकृतं नामेति तदाह-अनिमित्तेत्यादिना लिङ्गं शैवम् अर्चा देवप्रतिमा आयतनं सिद्धं
देवस्थानम् एषाम् अनिमित्तं चलनादिप्रयोजकवाय्वभिघातादिकारणं विनेत्यर्थः । चलनं कम्पः,
निपातः पतनम्, जल्पनम् असम्बद्धोक्तिः । आद्यग्रहणाद् वमनं प्रसर्पणञ्चेत्युत्पलभट्टः । एतानि
नरेशस्य राज्ञः देशस्य जनपदस्य च नाशाय भवन्ति ।
यद्यपि 'द्वन्द्वात् पूर्वं परं वा यच्छ्रूयते तल्लभते प्रत्येकमभिसम्बन्धमि'ति न्यायाद् द्वन्द्वस्थ-
चलनादिसर्वपदार्थैः सहैवानिमित्तमित्यस्यान्ययो न्याय्यस्तथापि सामर्थ्याच्चलनभङ्गनिपातैरेवा-
न्वयो न त्वितरैरपि, तेषां तदन्वयेऽसामर्थ्यात्, न ह्यस्ति कारणं लिङ्गादीनां स्वेदाश्रुजल्पनेषु
किमपि, येन तद्व्यावृत्तये अनिमित्ततया तानि विशेष्येरन्नित्यवधेयम् ।

३० देवतामूर्त्तिप्रकरणम्
[ तत्र विशेषः ]
स्वदेशध्वंसस्फोटे भवेत्तथा... ... ... ।
स्थानाच्चलने भङ्गं देशस्य विनिर्दिशेत् प्राज्ञः ॥ ४४ ॥
[ अर्चावैकृतं तत्फलञ्च ]
नर्त्तनं जल्पनं हास्यमुन्मीलननिमीलने ।
देवा यत्र प्रकुर्वन्ति तत्र विद्यान्महद् भयम् ॥ ४५ ॥
रोदने नर्तने हास्ये देवतानां प्रसर्पणे ।
महद् भयं विजानीयात् षण्मासत्रि(सात्त्रि?)गुणं परम् ॥४६॥
धूमज्वालां रजो भस्म यदा मुञ्चन्ति देवताः ।
राजा तदा च म्रियते प्रसूते च धनक्षयम् ॥४७॥
४४ । 'नाशाय नरदेशानामि'त्युक्तम्, इदानीं केन कस्य नाश इति विषयविभागमाह—
स्वदेशेत्यादि। स्फोटे भङ्गे स्वदेशध्वंसो भवेत्। अत्र लेखकप्रमादाद् ग्रन्थस्य कियांश्चन
भागः पतितः।
४५। नर्त्तनमिति। उन्मीलनं नेत्रप्रसारणम्, निमीलनं नेत्रसङ्कोचः, यद्वा अङ्गानाम्
आकुञ्चनप्रसारणे।
४६। रोदन इति। षण्मासत्रिगुणमिति। शान्तौ अकृतायां षण्मासात् परं भयं त्रिगुणं
भवेदित्यर्थः, तथा च 'षण्मासात् त्रिगुण'मिति शुद्धः पाठः।
एतच्चिन्त्यम्,—एतेषामुत्पातानाम् अष्टसु मासेष्वतीतेषु फलपाकश्रवणात् कथं षट्सु
मासेष्वतीतेष्वेव भयानां त्रैगुण्यं सम्भवदुक्तिकं स्यात् । तथा च बृहत्संहितायाम्—
“मासैश्चाप्यष्टभिः सर्वेषामेव फलपाकः” । इति । (अ० ४५, १४ श्लो०)
एवञ्च इदमत्र कथञ्चित् समाधानम्—अत्र सङ्कोचवृत्त्या सर्वशब्दस्य देवतार्चाकृतोत्-
पातेतरपरत्वाभ्युपगमात् तथाविधोत्पातस्य सद्यःफलदत्वेन 'षण्मासात् त्रिगुणं परमि'ति सङ्गच्छते ।
अत्रेदं श्लोकद्वयं प्रायेण समानार्थकमिति स्थूणानिखननन्यायेन वा, पूर्वत्र भयस्य देश-
विषयकत्वाङ्गीकारादुत्तरत्र च राजविषयकत्वाङ्गीकाराद्वा कथञ्चित् पौनरुक्त्यनिरासः कर्त्तव्यः ।
४७। धूमज्वालामिति। धूमं ज्वालाञ्चेत्यर्थः। ज्वाला चाग्निशिखा। तदेतत् सर्वं
सविशेषमाह मत्स्यपुराणे—