रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 113, कुल 335 में से
संदर्भ में पढ़ें३६ देवतामूर्तिप्रकरणम्
अपचारेण नराणामुपसर्गः पापसञ्चयाद् भवति ।
संसूचयन्त्यतिदिशान्तरिक्षभौमां तथोत्पातः ॥३७॥
मनुजानामपचारादपरक्ता देवताः सृजन्त्येतान् ।
तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत ॥ ३८ ॥
[ दिव्याद्भुतम् ]
दिव्यं ग्रहर्क्षवैकृतम्... ... ...
[ आन्तरिक्षाद्भुतम् ]
... ... ...उल्कानिर्घातपवनपरिवेशाः ।
गन्धर्वपुर(पुरपुर?)न्दरचापांसि(पादि?) यदान्तरिक्षं तत् ॥३६॥
अत्र ते वर्णयिष्यामि यदुवाच महातपाः ।
अत्रये वृद्धगर्गस्तु सर्वधर्मभृतां वरः ॥ (अ० २२९, २श्लो० )
इति । तेषाम् अद्भुतानां सङ्क्षेपः समासेन संग्रहस्तु प्रकृतेरन्यत्वं स्वभावस्यान्यथाभावः
वैपरीत्यमिति यावत् ।
तथा च बृहत्संहिताविवृतौ उत्पलभट्टधृतसमाससंहितायाम्—
यः प्रकृतिविपर्यासः सर्वः संक्षेपतः स उत्पातः ।
क्षिति गगनदिव्यजातो यथोत्तरं गुरुतरो भवति ॥ इति ।
३७ । संसूचयन्तीति । सर्वाङ्गक्षतमिदं श्लोकार्द्धं कथं प्रतिक्रियेतेति पर्याकुलैरस्माभिर्मूले
संशोधनप्रयासः परित्यक्तः । परमर्थग्रहार्थं संवादिप्रमाणमुद्ध्रियते । तथा च बृहत्संहितायां
यथोक्तपूर्वार्द्धात् परम्—
‘संसूचयन्ति दिव्यान्तरिक्षभौमांस्त उत्पाताः’ ( अ० ४५, २ श्लो० ) ।
इति प्रकृतार्द्धसमार्थकः पाठः । ‘नराणाम् अपचारेण पापसञ्चयो भवति पापसञ्चयादुपसर्गा
उपद्रवाः । तथा च गर्गः—
अतिलोभादसत्याद्वा नास्तिक्याद्वाप्यधर्मतः ।
नरापचारान्नियतमुपसर्गः प्रवर्त्तते ॥ इति ।
ततो दिव्यान्तरिक्षभौमा उत्पाताः तान् उपसर्गान् संसूचयन्ति ।’ इति तद्विवृतौ
उत्पलभट्टः ।
३९ । इदानीमुत्पातान् विभजन् दिव्यस्वरूपमाह—दिव्यमिति । ग्रहाणाम् आदित्या-