रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 110, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः २३
धातुरत्नविलेपोत्था व्यङ्गाः संस्कारयोग्याः ।
काष्ठपाषाणजा भग्नाः संस्कारार्हा न देवताः ॥२५॥
[ बहिरायतनस्थाप्या देवताः ]
भैरवः शस्यते लोके प्रत्यायतनसंस्थितः ।
न मूलायतने कार्यो भैरवस्तु भयङ्करः ।
नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥२६॥
[ अशुभप्रतिमालक्षणम् ]
नाधिकाङ्गा न हीनाङ्गाः कर्तव्या देवताः क्वचित् ।
धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ ।
यानमारोप्य जीर्णाङ्गां छाद्य वस्त्रादिना नयेत् ॥ ४ ॥
वादिन्त्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत् ।
यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने ।
कूपवापीतडागादेर्जीर्णोद्धारे महाफलम् ॥ ५ ॥
शिल्परत्ने च— दोषे लघुत्तरे बिम्बं नैव त्याज्यं कदाचन ।
बाहुच्छेदे करच्छेदे पादच्छेदे तथैव च ॥
तथैव स्फुटिते भिन्ने यस्मिन्नवयवे गते ।
वैरूप्यं जायते यस्य तत्त्याज्यं प्रायशो भवेत् ॥
अङ्गुल्यादिपरिच्छेदे बन्धनं शस्यते बुधैः ।
महादोषसमायुक्ते सान्निध्यं लक्ष्यते यदि ।
तथैव बद्ध्वा संशोध्य प्रायश्चित्तं समाचरेत् ॥
२६। भैरव इत्यादि। भैरवो कालभैरवो वटुकभैरवस्त्रिपुरभैरवश्च महादेवस्य मूर्त्तिविशेषः,
प्रत्यायतनसंस्थितः वस्तुबहिर्वाटीस्थः शस्यते प्रशस्तो भवति, बहिरावास एव स्थापनीय
इत्यर्थः। मूलायतने न कार्यो न स्थापनीयः। नारसिंहो वराहो वा तथा अन्येऽपि
भयङ्करा देवता मूलायतने न कार्याः। तदुक्तं मत्स्यपुराणे समानानुपूर्व्या—
भैरवः शस्यते लोके प्रत्यायतनसंस्थितः ।
न मूलायतने कार्यो भैरवस्तु भयङ्करः ॥
नारसिंहो वराहो वा तथान्येऽपि भयङ्कराः ॥ इति । (२५९अ० १४-१५ श्लो०)