रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 106, कुल 335 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः १६
[ गृहपूज्यायाः प्रतिमायाः परिमाणम् ]
आरभ्यैकाङ्गुलादूर्ध्वं पर्यन्ते द्वादशाङ्गुलम्।
गृहेषु प्रतिमा पूज्या नाधिका शस्यते ततः ॥१७॥
[ देवगृहोचितप्रतिमापरिमाणम् ]
तदूर्ध्वान्नवहस्तान्ता पूजनीया सुरालये।
[ बहिरर्चनीयप्रतिमापरिमाणम् ]
दशहस्तादितो याऽर्चा प्रासादेन विनाऽर्चयेत् ॥१८॥
१७। इदानीं कुत्र कीदृशी प्रतिमा पूजनीयेति वक्तुं प्रथमं गृहोचितायाः प्रतिमायाः परिमाण-
माह—आरभ्येति । एकाङ्गुलादारभ्य उच्छ्रायेण द्वादशाङ्गुलपर्यन्ता प्रतिमा गृहेषु पूज्या । स्पष्टमुक्तं
मत्स्यपुराणे—
अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥ ( अ० २५८, २२ श्लो० )
इति। वितस्तिर्द्वादशाङ्गुलम्।
१८। देवालयपूज्यामाह तदूर्ध्वमिति। द्वादशाङ्गुलतोऽष्टहस्तपरिमाणं यावत् प्रतिमा सुरालये
पूजनीया। तथा च मात्स्ये—
'आषोडशा तु प्रासादे कर्तव्या नाधिका ततः' इति। ( अ० २५८.२३ )
'आषोडशा' षोडश वितस्तिपर्यन्ता अष्टहस्तपर्यन्तेति यावत्, प्रासाद इति देवालय इत्यर्थः।
एतदेकवाक्यताविधित्सयैव 'नवहस्तान्ता' इत्यस्य नव हस्ताः परिमाणं यस्याः सा नवहस्ता,
सा अन्ते यस्याः त्रयोदशाङ्गुलाद्यष्टहस्तान्तायाः प्रतिमायाः सा तथेत्यतद्गुणसंविज्ञानव्यधिकरण-
बहुव्रीहिणा तादृशोऽर्थः कष्टकल्पोऽपि युक्त इत्युत्पश्यामः।
दशहस्तादित इति। दशहस्तायाः प्रतिमाया आदिरादिभूता प्रतिमा ताम् आरभ्य नवहस्त-
प्रतिमामारभ्येत्यर्थः, न तु दशहस्तप्रतिमामारभ्येति यथाश्रुतार्थः करणीयः, पूर्वोक्तमत्स्य-
पुराणवचनेन नवहस्तायाः प्रतिमाया अपि प्रासादे पूजननिषेधात्, सम्भवति च तद्वचनेन
सहैकवाक्यत्वे वाक्यभेदस्यान्याय्यत्वात्। इत्थञ्च—'दशादिकरवृद्धा च' (१९) इति वक्ष्यमाण-
वाक्येन दशहस्तप्रतिमामारभ्य पञ्चचत्वारिंशद्धस्तां यावच्चतुष्क्यां पूजनविधानादियमेकैव नवहस्ता
प्रतिमा वर्त्तते, यस्याः पूजास्थानं किमपि नोपदिष्टं ग्रन्थकृता।
इदमत्र मनस्यापतति,—प्रासादेन विनाऽर्चयेदित्यनेन सामान्यत आसां दशहस्तादिप्रतिमानां
प्रासादे पूजां निषिध्य क्व तर्हीमाः पूजनीया इत्यपेक्षायां दशादिकरवृद्धेति विशेषोऽभिहितो ग्रन्थ-
कृतेति। अत्र च पक्षे 'नवहस्तान्ता' इत्यस्य 'दशहस्तादित' इत्यस्य च यथाश्रुत एवार्थः करणीयः