सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 108, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 108

प्रथमोऽध्यायः २१
[ गर्भगृहप्रमाणेन ज्येष्ठादिप्रतिमाकथनम् ]
गर्भगृहत्रिभागेन ज्येष्ठाऽर्चा कथिता बुधैः ।
मध्यमा च दशांशेन (शोना) पञ्चांशेना (शोना) कनीयसी ॥२१॥
सप्तांशे गर्भगृहे तु द्वौ भागौ परिवर्जयेत् ।
पञ्चभागो भवेद्देवः शयनस्थः सुखावहः ॥२२॥
अष्टलोहमयी मूर्त्तिः शैलरत्नमयी तथा ।
श्रेष्ठवृक्षमयी वाऽपि प्रवालादिमयी शुभा ॥२३॥
२१ । गर्भेत्यादि । त्रिभागीकृतस्य गर्भगृहस्य भागेनैकेन कृता अर्चा ज्येष्ठा, षोडशधा
विभक्तस्य गर्भगृहस्य दशांशोना अर्थात् सार्द्धपादप्रमाणा प्रतिमा मध्यमा ; तथा पञ्चांशोना
प्रतिमा कनीयसी कनिष्ठा इत्यर्थः ।
अत्र यद्यपि ‘त्रिभागेन’ इति शुद्धपाठसमीपचर्यया ‘दशांशेन’ इत्यत्राप्यसन्दिग्धत्वेन प्रतीय-
मानः पाठः परिवृत्तिबुद्धिं विलुम्पति, तथापि ‘पञ्चांशेना’ इति विकृतपाठदर्शनात्तस्य च
प्रकृत्यनुसन्धित्सया ‘पञ्चांशोना’ इति पाठः प्रथमतः शुद्धत्वेन बुद्धिम आरोहति, ततश्च मध्यमत्वा-
दिक्रमान्यथानुपपत्त्या सर्वत्रैव ‘ऊना’ इति पाठः सम्यक्तया प्रतिभातीति स एवास्माभिरनुसृतः ।
क्रमानुपपत्तिस्तु—
अङ्गुष्ठपर्वादारभ्य वितस्तिर्यावदेव तु ।
गृहेषु प्रतिमा कार्या नाधिका शस्यते बुधैः ॥
इत्यादिवचनादूनप्रमाणाया एव प्रतिमाया ज्यैष्ठं प्रतीयते, प्रमाणाधिकायास्तु कानिष्ठ्यम् ।
इत्थञ्च गर्भगृहदशांशेन निर्मिता प्रतिमा प्रमाणाधिकेति तस्याः कानिष्ठ्ये प्राप्ते, पञ्चांशेन निर्मिता
तूनप्रमाणेति तस्या अपि मध्यमत्वे प्राप्ते तदुभयविपरीतं प्रमाणाधिकायाः प्रतिमाया
माध्यमिकत्वमूनप्रमाणायाश्च कानिष्ठ्यम् उपदिशन् यथाश्रुतः पाठः क्रमदुःस्थ इति हेयपक्ष एव
निक्षेप्सव्यः ।
तदेतत् सर्वं विस्पष्टमुक्तं स्वयं ग्रन्थकारेण तदीयरूपमण्डने—
तृतीयांशेन गर्भस्य प्रासादे प्रतिमोत्तमा ।
मध्यमा स्वदशांशोना पञ्चांशोना कनीयसी ॥ इति
२३ । अष्टलोहबिम्बानि, यथा—
सौवर्णं राजतं ताम्रं पैत्तलं कांस्यमायसम् ।
सैसकं त्र्यापुषञ्चेति लौहं बिम्बं तथाऽष्टधा ॥
बिम्बरत्नानि, यथा—
स्फटिकं पद्मरागञ्च वज्रं नीलं हिरण्मयम् ।
वैदूर्यं विद्रुमं पुष्पं रत्नबिम्बं तथाऽष्टधा ॥