सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

६४ देवतामूर्त्तिप्रकरणम्
अक्षसूत्रं गदाखेटं दण्डञ्च विजयो भवेत् ( दधत् ? ) ।
अधोहस्तापसव्येन खड्गयुग् यज्ञभद्रकः ॥ १९ ॥
अक्षपाशाङ्कुशा(शान् ?)दण्डभयश्च (दण्डं भवश्च ?) सर्वकामदः ।
दण्डाङ्कुशपाशोत्पलनिभवः (पलं विभवः ?) सर्वशान्तिदः ॥२०॥
[ अथ द्वादश सूर्यमूर्त्तयः ]
शृणु वत्स प्रवक्ष्यामि सूर्यभेदांश्च ते जय ।
यावत्प्रकाशकः सूर्यो यावन्मूर्त्तिभिरीरितः ॥ २१ ॥
वस्तुतो द्विरुल्लेखः समुपलभ्यते । 'वास' इति पदमप्यनन्वयि । अत्र 'प्रियोद्भव' इति पाठो
रूपमण्डने ( रूप-अ० २,१९ श्लो० ) ।
२०। तदेवं वामतश्चत्वारः सप्त-धर्मक-मतोद्भव-जयनामानो ब्रह्मणः प्रतीहाराः, दक्षिणत-
श्चत्वारो विजय-यज्ञभद्रक-भव-विभवनामानश्च निर्दिष्टाः ।
२१। इदानीं द्वादश सूर्यमूर्तीराह—शृण्विति । जय इति वत्सेत्यनेनोद्दिष्टस्य सम्बोध्यस्य
नाम । यद्वा जय सर्वोत्कर्षेण वर्त्तस्वेत्यर्थः । ते प्रवक्ष्यामीत्यन्वयः ।
यावदिति समस्तवस्तुप्रकाशक इत्यर्थः । यावन्मूर्त्तिभिरीरितः कथितस्तावतीर्मूर्त्तीश्च
प्रवक्ष्यामीत्यर्थः । सर्वा एवैता मूर्त्तयश्चतुर्बाहव इति ज्ञायते धार्यद्रव्याणामाधिक्यदर्शनात् ;
तथा—
'पद्मद्वयाभयवरान् दधतं कराब्जैः' इत्यन्यत्र 'कराब्जैरि'त्यनेन दोष्णां द्व्यधिकत्वलाभाच्च ।
अत्र पूष्णो मूर्त्तिद्विभुजा केवलपद्मद्वयलाञ्छिता च, वैष्णवी मूर्त्तिरपि द्विकरा, परं तस्या दक्षिणकरे
चक्रमितरत्र पद्ममिति विशेषः । तदितरत्र सर्वांसामेव मूर्तीनां करद्वये नीरजद्वयमन्ययोश्च
यथोक्तद्रव्याणीति । अग्निपुराणेऽपि—
'वरदा द्वाब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।' ( अ० ५१,३ श्लो० ) इति ।
ससप्ताश्वे सैकचक्रे रथे सूर्यो द्विपद्मधृक् ।
मसीभाजनलेखन्यौ बिभ्रत् * * * ॥ ( अ० ५१,१ श्लो० ) ।
इत्यनेन च तन्मूर्तीनां चतुर्बाहुत्वस्य सूचितत्वात् । एतेन काश्यपशिल्पे—
द्विभुजाः पद्महस्ताश्च रक्तपद्मासने स्थिताः ।
रक्तमण्डलसंयुक्ताः करण्डमुकुटान्विताः ॥ ( अ० ४८,७९-८० श्लो० )
इति यद् द्विकरत्वं भास्करमूर्तीनामुक्तं तन्मतान्तरप्रदर्शनमिति कृत्वा सोढव्यम् ।

चतुर्थोऽध्यायः ६५
दक्षिणे पौष्करा(री ?) माला करे वामे कमण्डलुः ।
पद्माभ्यां शोभितकरौ(रा ?) सुधामा(ता ?) प्रथमा स्मृता ॥२२
शूली(लं ?) वामकरे यस्य(स्या ?) दक्षिणे सोम एव च ।
मित्रा नाम त्रिनयना कुशेशयविभूषिता ॥ २३ ॥
प्रथमे तु करे चक्रं तथा वामे च कौमुदी ।
मूर्त्तिरार्यमणी ज्ञेया सपद्मौ पाणिवल्लभौ (पल्लवौ ?) ॥२४॥
अक्षमाला करे चास्य ( यस्या ? ) वज्रं वामे प्रतिष्ठितम् ।
सा मूर्त्ती रौद्री ज्ञातव्या प्रधाना पद्मभूषिता ॥ २५ ॥
चक्रं तु दक्षिणे यस्या वामे पाशः सुशोभनः ।
सा वारुणी भवेन्मूर्त्तिः पद्मव्यग्रकरद्वया ॥ २६ ॥
कमण्डलुं द(लुर्द ?)क्षिणतोऽक्षमाला चैव वामतः ।
सा भवेत् सस्मिता सूर्यमूर्त्तिः पद्मविभूषिता ॥ २७ ॥
यस्यास्तु दक्षिणे शूलं वामहस्ते सुदर्शनम् ।
भर्ग (ग ?) मूर्त्तिः समाख्याता पद्महस्ता शुभाय वै ॥ २८ ॥
२२ । उपरिष्टाच्चतुस्त्रिंशश्लोके समुद्दिष्टानां भास्करमूर्तीनामनुक्रमेण लक्षणानि वक्तुं प्रथमा-
माह—दक्षिण इति । यस्या इत्यध्याहारः । यस्या दक्षिणे करे पौष्करी कमलग्रथिता माला,
वामे करे कमण्डलुर्वर्त्तत इत्यर्थः । इमौ च करावूर्ध्वाविति ज्ञेयम्, ऊर्ध्वक्रमेणैव धारणीयद्रव्याणां
कथनौचित्यात् । पद्माभ्यां शोभितकराविति वामदक्षिणयोरधःकरावित्यर्थः । एवमुत्तरत्रापि
ज्ञेयम् । 'पद्माभ्यां शोभितकरे'त्युचितः पाठः ।
सुधातेति । अत्र 'सुधाते'ति वा 'सुधामे'ति वा पाठो भवतु, उभयथाऽपि दोषानुषङ्गो
दुष्परिहर एव, उद्देशश्लोके 'धाते'ति पाठस्योपलब्धेः । अत्र ब्रूमः—'सुधाते'त्येव पाठो ज्यायान्,
परिगणनश्लोकस्थितधातृशब्दसाम्यात् ; छन्दोभङ्गदोषोत्सारणाय चोपपदं प्रक्षिप्तमिति ; तदेतत्
सुलभमेव प्राचीनग्रन्थकृतां कृतिष्विति ।
: २३ । दक्षिणे सोम इति, सोमः सोमरसोऽमृतं वा ।
देवता—६

६६ देवतामूर्त्तिप्रकरणम्
अथ वामकरे माला त्रिशूलं दक्षिणे करे ।
सा विश्वमूर्त्तिः सुखदा पद्मलाञ्छनलक्षिता ॥ २६ ॥
पूषाख्यस्य रवेर्मूर्त्तिर्द्विभुजा पद्मलाञ्छना ।
सर्वपापहरा ज्ञेया सर्वलक्षणलक्षिता ॥ ३० ॥
दक्षिणे तु गदा यस्या वामहस्ते सुदर्शनम् ।
पद्मव्यग्रा तु सावित्रीमूर्त्तिः सर्वार्थसाधिनी ॥ ३१ ॥
स्रुवश्च दक्षिणे हस्ते वामे होमज (लील कम् ? कज्जलम्) ।
मूर्त्तिस्त्वाष्ट्री भवेद् वत्स पद्मरुद्धकरद्वया ॥ ३२ ॥
सुदर्शना(न ?) करा सव्ये पद्महस्ता तु वामतः ।
एषा सा द्वादशी मूर्त्तिर्विष्णोरमिततेजसः ॥ ३३ ॥
धाता मित्रोऽर्यमा रुद्रो वरुणः सूर्य एव च ।
भगो विवस्वान् पूषा च सविता त्वष्टृविष्णुकौ ॥ ३४ ॥
इति द्वादश सूर्यमूर्त्तयः ।

२९ । सा

चतुर्थोऽध्यायः ६७
[ अथ सूर्यायतनम् ]
सूर्यो विनायको विष्णुश्चण्डी शम्भुस्तथैव च ।
अनुक्रमेण पूज्यन्ते फलदाः स्युः सदाऽर्चने ॥ ३५ ॥
आग्नेय(ये ?) तु कुजः स्थाप्यो गुरुर्याम्ये प्रतिष्ठितः ।
नैर्ऋत्ये राहुसंस्थानं शुक्रस्थानञ्च पश्चिमे ॥ ३६ ॥
वायव्ये केतुसंस्थानं सौम्यायां बुध एव च ।
ईशाने च शनिः स्थाप्यः × ×श्च चन्द्रमाः ॥ ३७ ॥
इति सूर्यायतनम्।
इति धातृ-सवितृ-त्वष्टृ-वरुण-सूर्य-मित्र-विष्णूनां सप्तानां साम्येन, भग-तपन-गभस्तिक-रवि-
पर्जन्यानां पञ्चानाञ्च भिन्नतया नामान्युपलभ्यन्ते ।
३५ । सूर्यस्यायतने वक्तव्ये प्रसङ्गात्तदर्चनायाः सर्वदेवार्चनमुखत्वं वक्तुं समभिव्याहृताना-
मन्येषामपि तथात्वमाह—सूर्य इति । अनुक्रमेण पूज्यन्ते चेद् एते अर्चने सर्वदेवपूजाविधौ
फलदाः स्युः, सर्वदेवपूजास्वेवाऽऽदावेते पूजनीया इत्यर्थः । तथा च स्मृतिः—
गणेशञ्च दिनेशञ्च वह्निं विष्णुं शिवं शिवाम् ।
पूजयेद्देवषट्कञ्च ततः पूजां समाचरेत् ॥ इति ।
अत्र च वह्निं निहुवानेन ग्रन्थकृता अपक्रमन् क्रमोऽपि नारक्षीति विभावनीयम् । यच्च
तन्त्रान्तरे—
आदित्यं गणनाथञ्च देवीं रुद्रं यथाक्रमम् ।
नारायणं विशुद्धाख्यमन्ते च कुलदेवताः ॥
इति प्रकृतश्लोकवदेव पञ्चदेवार्चनं विहितम्, तत्राप्यस्ति क्रमविपर्यय इति नवीनोऽयं पूजापर्यायः ।
३६-३७ । आयतने ग्रहसंस्थानमाह—आग्नेय इति । कुज-गुरु-राहु-शुक्र-केतु-बुध-शनि-
चन्द्राः क्रमेणाऽऽग्नेयत ऐन्द्रीं यावत् स्थाप्या इत्यर्थः । तथा च रूपमण्डने—
सूर्यस्याऽऽयतने स्थाप्या वह्निकोणादितः क्रमात् ।
कुजो जीवस्तमः शुक्रः केतवो ज्ञः शनिः शशी ॥ (अ० २,२५ श्लो०)
इति । तमो राहुः, ज्ञो बुधः । एवञ्च—‘ईशाने च शनिः स्थाप्यः’ इत्यनन्तरं स्खलनस्थाने—
‘प्राच्यां स्थाप्य’ इत्यक्षरचतुष्टयं त्रुटितं स्यादित्यनुमीयते ।

६८ देवतामूर्तिप्रकरणम्
[ अथ सूर्यप्रतीहाराः ]
सूर्येकदन्ताच्युतशक्तिरुद्रा विघ्नेशशक्तीश्वरविष्णुसूर्याः ।
श्रीनाथविघ्नेशभगाम्बिकेश(रः?) चण्डीशहेरम्बपतङ्गकृष्णा(ः?) ॥ ३८
श्रीकण्ठसूर्या रुद्रस्थाम्बिकाज(?) तद्दक्षिणमध्यादिदिक्षु पूज्याः ।
स्वस्थानगाः सर्वमनोरथांस्ते यान्ति विघ्नातिपरसंस्थाः(?) ॥ ३९ ॥
दण्डी च पिङ्गलश्चैव आनन्दश्चान्तकस्तथा ।
चित्रो विचित्रो ज्ञातव्यः किरणाक्षः सुलोचनः ॥ ४० ॥
सर्वे च पुरुषाकाराः कर्त्तव्याः शान्तिमिच्छता ।
चतुर्द्वारेषु च स्थाप्या दिशाञ्चैव प्रदक्षिणे ॥ ४१ ॥
सुज्ञानार्थमथः सूर्यायतनं चित्रारूढमुपस्थाप्यते—

ऐशान्यां
शनैश्चरःपू० चन्द्रः
दण्डी, पिङ्गलःआग्नेय्यां
कुजः
उ० बुधः
किरणाक्षः,
सुलोचनःसूर्यःद० गुरुः
आनन्दः,
चण्डकः
वायव्यां
केतुःप० शुक्रः
चित्रः,
विचित्रःनैर्ऋत्यां
राहुः

३८-३९ । पञ्चपादीयं पञ्चानां सूर्येकदन्ताच्युतशक्तिरुद्राणां क्रमादेकैकप्राथम्येन निर्देशमनु-
भवितुं प्रवृत्ता क्रमोत्क्रमाभ्यां सर्वत्रैकमेवार्थं प्रतिपादयतीति दृश्यते । किमत्र तात्पर्यमिति
प्रश्ने—य इमे देवमुख्यास्तेषामायतनेषु त एव विभक्तविभागेनावस्थिताः फलदायकाः स्युः, तत्रापि
यस्यायतनं तस्य प्राङ्निर्देशार्थमयमुद्यम इत्येवास्माकं प्रतिवचनविभवः ।
श्रीकण्ठेत्यादिश्लोकस्य तु दुष्करः पाठोद्धारः । प्रथमे पादे एवं ह्यर्थः सुस्थितः स्यात्—
'श्रीकण्ठसूर्येषमुखाम्बिकाजाः' इति । चतुर्थपादन्तु दुरुहमेव ।
४०-४१ । दण्ड्यादयोऽष्टौ द्वारदेवताः पूर्वादिद्वारक्रमेण द्विशः संस्थाप्याः । एवञ्च 'दिशाञ्चैव
प्रदक्षिणे' इत्यत्र 'द्विशश्चैव प्रदक्षिणात्' इति पाठः सकल्पः । तथा चैते प्राग्दक्षिण्येन द्वौ द्वौ कृत्वा

चतुर्थोऽध्यायः ६६
प्रतर्जन्यूर्ध्वकिरणं ताम्रचूडं दण्डायुधम् ।
दण्डी वामविभागे तु पिङ्गलः स्यादतः शृणु ॥ ४२ ॥
(किरणस्थाने ? किरणे तु) यदा शक्तिः किरणं ताम्रचूडके ।
तर्जनीदण्डपूर्वश्च पिङ्गलः पूर्वदक्षिणे ॥ ४३ ॥
तर्जनी द्वौ वक्त्रानां (?) दण्डेनानन्दकः स्मृतः ।
तर्जनीदण्डापसव्यं सव्यवेदान्तकाशुभाः ॥ ४४ ॥
तर्जना द्वौपमनी दण्डं दण्डान्ते चित्रका भवेत् ।
तर्जनीदण्डापसव्यं स भवेतद्विचित्रकः ॥ ४५ ॥
तर्जनी द्वौ किरणं (?) दण्डान्तकिरणोद्भवे ।
तर्जनीदण्डापसव्ये कर्त्तव्यः स सुलोचनः ॥ ४६ ॥
[ चन्द्रः ]
चन्द्रश्चित्रे विधातव्यः श्वेतः श्वेताम्बरावृतः ।
दशश्वेताश्वसंयुक्त आरूढः स्यन्दने शुभः ॥ ४७ ॥
द्विभुजो दक्षिणे पाणौ गदां बिभ्रद् यथादरम् ।
वामस्तु वरदो हस्त इति चन्द्रो निरूप्यते ॥ ४८ ॥
[ भौमः ]
धरापुत्रस्य वक्ष्यामि लक्षणं चित्रकर्मणि ।
चतुर्भुजो मेषगमश्चाङ्गारसदृशद्युतिः ॥ ४६ ॥
चतुर्द्वा रेषु संस्थाप्या इत्यर्थः । 'चतुर्द्वारेषु संस्थाप्या दिशश्चैते प्रदक्षिणम्' इति रूपमण्डने ( अ०
२, श्लो० ३०) पाठः ।
४२-४६ । पञ्चश्लोक्या तेषां दण्ड्यादीनामायुधानि पूर्वोद्दिष्टायाः प्रादक्षिण्‍येन स्थितेः
प्रकारञ्चाऽऽह—प्रतर्जन्यूर्द्ध्वकिरणमिति । पाठवैकल्यादकल्पेनाप्यस्य यथायथमर्थाविष्कारे नेदं
दुष्परिष्कार्यं यत् प्रतर्जन्यादीनि अवयवस्वरूपेण वा आयुधस्वरूपेण वा दण्ड्यादीन् प्रतीहारान्
विशिषन्तीति । तत्र पूर्वद्वारे दण्डिनो दक्षिणे पिङ्गलकः, दक्षिणद्वारे आनन्दस्य दक्षिणे चण्डकः,
पश्चिमद्वारे चित्रस्य दक्षिणे विचित्रः, उत्तरे किरणाक्षस्य दक्षिणे सुलोचन इति पूर्वोक्तप्रदक्षिण-
पदार्थः । रूपमण्डनीयपाठस्त्वेतस्माद्विशिष्यते (रूप० २ अ० २६-३० श्लो० ) ।
४९-५० । अङ्गारसदृशद्युतिरिति ज्वलदङ्गारगौरवपुरित्यर्थः, तन्त्रान्तरेऽस्य लोहितवर्णत्व-

७० देवतामूर्तिप्रकरणम्
दक्षिणं बुभ्रगं हस्तं वरदं परिकल्पयेत् ।
ऊर्ध्वं शक्तिसमायुक्तं वामौ शूलगदाधरौ ॥ ५० ॥
[ बुधः ]
सिंहारूढं बुधं वक्ष्ये कर्णिकारसमप्रभम् ।
पीतमाल्याम्बरधरं स्वर्णभूषाविभूषितम् ॥ ५१ ॥
वरदं खड्गसंयुक्तं खेटकेन समन्वितम् ।
गदया च समायुक्तं बिभ्राणं दोश्चतुष्टयम् ॥ ५२ ॥
[ बृहस्पति-शुक्रौ ]
पीतो देवगुरुर्लेख्यः शुभ्रश्च भृगुनन्दनः ।
चतुर्भिर्बाहुभिर्युक्तश्चित्रकर्मविशारदैः ॥ ५३ ॥
वरदौ साक्षसूत्रौ च कमण्डलुधरौ तथा ।
दण्डिनौ च तथा बाहू बिभ्राणौ परिकल्पयेत् ॥ ५४ ॥
[ शनिः ]
शौरितिलसम्यमासं (शौरिं तिलसमाभासं ?) गृध्रारूढं चतुर्भुजम् ।
वरदं बाणसंयुक्तं चापशूलधरं लिखेत् ॥ ५५ ॥
स्योक्तत्वात् । बुध्रगमिति, बुध्नो बुध्नमूलम् । हस्तमिति अधोहस्तम् । यद्वा बुध्रपदेनात्र
लक्षणयाऽधोदेशो ग्राह्यः, दक्षिणाधोहस्तं वरदं परिकल्पयेदित्यर्थः । 'पुस्तकं हस्तम्' इति शिल्परत्ने,
'बुद्धकं' इति 'तद्वरं' इति तत्पादटिप्पण्यां पाठान्तराणि दृश्यन्ते । (शिल्प० उ० २८।१४५ श्लो०) ।
अयं शक्तिवराभयगदाधारीति शब्दकल्पद्रुमधृतग्रहयागतत्त्ववृजातकादयः ।
५३-५४ । तुल्यबाहुत्वात्तुल्यप्रहरणत्वाच्च बृहस्पतिशुक्रौ तन्त्रेणाऽऽह—पीत इत्यादि ।
वरदावित्यादि द्विवचनन्तूभयापेक्षया, एवं 'बाहू' इत्यत्रापि । परमार्थतस्त्वनयोः प्रत्येकं चत्वारो
बाहवश्चत्वारि चाऽऽयुधानीति ज्ञातव्यम् । एवञ्च वरोऽक्षसूत्रं कमण्डलुर्दण्डश्चेति बृहस्पतेस्तान्येव च
दैत्यगुरोरप्यायुधानीति ।

चतुर्थोऽध्यायः ७१
[ राहुः ]
सिंहासनगतं राहुं करालवदनं लिखेत् ।
वरदं खड्गसंयुक्तं खेटशूलधरं लिखेत् ॥ ५६ ॥
[ केतवः ]
धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ ५७ ॥
[ ग्रहमूर्त्तौ साधारणविधिः ]
(गृ ? ग्र)हाः किरीटिनः कुर्यान् (कार्या ?) नवतालप्रमाणकाः ।
रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ ५८ ॥
इति नवग्रहाः ।
[ इन्द्रः ]
वरदं वज्राङ्कुशञ्च कमण्डलुविधृतकरम् ।
गजारूढं सहस्राक्षमिन्द्रं पूर्वदिशि स्थितम् ॥ ५६ ॥
[ अग्निः ]
वरदं शक्तिहस्तञ्च मृणालञ्च कमण्डलुम् ।
ज्वालापुञ्जनिभं रूपं (देवं ?) मेषारूढं हुताशनम् ॥ ६० ॥

५८ । अत्र

७२ देवतामूर्त्तिप्रकरणम्
[ यमः ]
लेखनीं पुस्तकं हस्ते कुक्कुटं दण्डमेव च ।
महामहिषमारूढः कृष्णाङ्गश्च यमो भवेत् ॥ ६१ ॥
[ निर्ऋतिः ]
खड्गखेटकहस्तश्च कतिका(कर्त्तृका?)वैरिमस्तकम्।
दंष्ट्राकरालास्यं कुर्याच् श्वानरूपञ्च (श्वानारूढञ्च?) नैर्ऋतम्॥६२॥
[ वरुणः ]
वरदं पाशपद्मञ्च कमण्डलुन्तथा करे ।
मकरा(नक्रा?)रूढश्च कर्त्तव्यं वरुणं पश्चिमादिशि ॥ ६३ ॥
[ वायुः ]
वरं ध्वजपताकञ्च कमण्डलुन्तथा करे ।
मृगारूढं प्रकर्त्तव्यं वायुदेवं (तलो ? मरुद्)दिशि ॥ ६४ ॥
[ कुबेरः ]
गदा-निधि-बीजपूरं कमण्डलुं करे तथा ।
गजारूढं प्रकर्त्तव्यं सौम्यायां धनदं दिशि ॥ ६५ ॥
६२ । श्वानारूढमिति श्वा रूढमित्यर्थः, अदन्तः श्वानशब्दोऽपि कुक्कुरार्थकः । अयं खरारूढ
इति कालिकापुराणम् (अ० ७९, ६१ श्लो०) । 'दंष्ट्राकरालवदनः श्वानारूढश्च राक्षसः' (रूप०
२ अ०) इति रूपमण्डने पाठः । 'शवारूढम्' इति काश्यपशिल्पे (४८।४७) पाठः । एवञ्च
यद्यपि यथाकामं 'खरारूढ' 'शवारूढ'योरन्यतमः पाठः शुद्धत्वेनोपादातुं शक्यते तथाऽपि साम्य-
बाहुल्याद् रूपमण्डनपाठसाम्याच्च बन्धनीमध्यस्थपाठ एव शुद्धत्वेन निर्णीतः ।
६३ । 'नक्रारूढः स कर्त्तव्यो वरुणः पश्चिमाथितः' (रूप० २ अ०) इति रूपमण्डने पाठः ।
यद्यपि यादस्त्वचाविशेषेण मकरो नक्रश्चेत्युभावेव वरुणस्य वाहनीभावे स्वरूपयोग्यौ तथाऽपि
छन्दोऽनुकूलत्वेनान्यत्रोपलब्धेश्च नक्र इत्येव पाठः शुद्धत्वेन कल्पितः । वरुणो हंसारूढ इति
जलाशयतत्त्वधृतहयशीर्षपञ्चरात्रम् ।
६४ । यद्यपि 'तलो' इत्यत्र 'मरुद्' इति पाठकल्पनम् एकान्ततः कल्पनैव, तथाऽप्यर्थ-
वैधुर्यादनन्यगत्या तथा पाठः कल्पितः । निपुणैः शब्दसाम्यमनुबुध्य पाठान्तरमनुसन्धातव्यम् ।

चतुर्थोऽध्यायः ७३
[ ईशानः ]
वरश्चैव त्रिशूलश्च नागेन्द्रं बीजपूरकम् ।
वृषारूढं प्रकर्त्तव्यमीशानं (मिल ? मन्त्रि)कोणके ॥ ६६ ॥
इति दश दिक्पालाः ।
यस्माद् ब्रह्मा वेदविद्याः समस्ता
आदित्याद्याः खेचरा धिष्ण्यचक्रम् ।
दिक्पालार्थं व्यक्तरूपञ्च जातं
(वन्द्ये?न्यो) विष्णुर्विश्वसृक् पाल(कस्यः ? कोऽसौ) ॥६७॥
इति दोता(ध्व?त्म)जसूत्रभृन्मण्डनविरचिते वास्तुशास्त्रे देवतामूर्त्तिप्रकरणे
रूपावतारे ब्रह्म-सूर्य-नवग्रह-दशदिक्पालाधिकार-
श्चतुर्थोऽध्यायः ॥ ४ ॥
६६ । मन्त्रिकोणके इति देवमन्त्रिणो बृहस्पतेः कोणे ईशानदिशीत्यर्थः ।
६७ । यस्माद् ब्रह्मादिव्यक्तरूपान्तं जगज्जातम् असौ विश्वसृक् पालकश्च 'विष्णुर्वन्द्य
इत्यन्वयः । खेचरा ग्रहाः, धिष्ण्यचक्रं नक्षत्रमण्डलम्, व्यक्तरूपं भूतलम् ।
देवता—१०

पञ्चमोऽध्यायः
[ वर्णविशेषेषु मूर्त्तिभेदेन विष्णोः शुभदायकत्वम् ]
नारायणः केशवश्च माधवो मधुसूदनः ।
स्थापिता मूर्त्तयो (ह्येते ? ह्येता ?) विप्राणां सुखदाः सदा ॥१॥
मधुसूदनविष्णुश्च (खाड ? खड्ग)शूलधरं लिखेत् ।
क्षत्रियाणां फलप्रदौ वैश्यानामर्चने शुभौ ॥ २ ॥
पूजिता (श्री?श्रै)धरी मूर्त्तिः शूद्राणाञ्च सुखप्रदा ।
चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ३ ॥
मेदभिल्लकिरातानां हृषीकेशः सुखावहः ।
कुम्भकारवणिग्वैश्यचाक्रिकाणां ध्वजस्य च ॥ ४ ॥
सर्वासां प्रकृतीनाञ्च पद्मनाभः सुखप्रदः ।
दामोदरः सौख्यकरो ब्रह्मचार्येकदण्डिनोः ॥ ५ ॥
हरिं हिरण्यगर्भञ्च नारसिंहमतः परम् ।
वामनञ्च वराहञ्च सर्ववर्णेषु सौख्यदम् ॥ ६ ॥
२। एतेन मधुसूदनो विष्णुश्चाविशेषेण क्षत्रियाणां वैश्यानाञ्च शुभदावित्यायाति ।
रूपमण्डने पुनरन्यथैव दृश्यते । तथाच—
मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ ।
त्रिविक्रमो वामनश्च वैश्याना(मर्चयेच्छुभा ? मर्चने शुभौ) ॥ ( अ० ३ )
इति । एष एव च पाठो युक्त इति प्रतिभाति ।
३। शूद्राणाञ्चेति चकाराद् ब्रह्मक्षत्रविशामपि सुखप्रदेत्यनुमीयते । रूपमण्डने पुनः
‘शूद्राणां सौख्यदायिनी'ति पाठः ।
४। मेदो म्लेच्छजातिविशेषः, ध्वजः शौण्डिकः । अत्र द्वितीयार्धे 'कुम्भकारवणिक्-
वैश्यचाक्रिकध्वजिनामपि' इति सुखबोध्यः पाठो रूपमण्डने । एवञ्चैतन्मते वैश्यानां मधुसूदन-
विष्णुहृषीकेशाः, रूपमण्डनमते त्रिविक्रमवामनहृषीकेशाः सुखावहा इति स्थितम् ।

पञ्चमोऽध्यायः ७५
[ अवस्थाभेदेन मूर्तीनां ग्राह्याग्राह्यत्वम् ]
अङ्गप्रत्यङ्गभग्ना या मूर्त्तिः स्थाप्या विसर्जयेत् ।
नखाभरणमालास्त्रैर्भग्नां तां न विसर्जयेत् ॥ ७ ॥
[ विष्णोश्चतुर्विंशतिमूर्त्तयः ]
केशवः (पद्मशङ्खश्च ? प-च-शं-गश्च)मधुसूदन-(च ?)शं-प-(गाः ?गः)
सङ्कर्षणो ग-शं-पा-चै (ः?) दामोदरः प-शं-ग-च (ः ?) ॥ ८ ॥
वासुदेवो ग-शं-च-पै (ः?) प्रद्युम्नश्चक्र-शं-ग-पः ।
विष्णुर्गदा-प-शं-चक्री माधवो ग-च-शङ्ख-पैः ॥ ९ ॥
अनिरुद्धश्च-गं-शं-पः पुरुषोत्तमश्च-पा-श-गैः ।
अधोक्षजः प-गा-शं-चो जनार्दनः प-चं-श-गः ॥ १० ॥
गोविन्दश्चक्र-गा-पा-(शं ? शः) त्रिविक्रमः प-गं-च-श(ः ?) ।
श्रीधरः पद्म-चं-गा-(शं ? शः) हृषीकेशो ग-चं-प-शैः ॥ ११ ॥
नृसिंहश्च-प-गं-श(अ ? ञ्च) अच्युतो ग-प-चक्र-(शम् ?शः) ।
वामनः शं-च-गं-पद्मैर्नारायणः श-पं-ग-(च ः ?) ॥ १२ ॥
पद्मनाभः श-प-चां-ग उपेन्द्रः शं-ग-दा-च-पैः ।
हरिः शं-च-ग-पः पूज्यः कृष्णः शं-ग-प-चक्रभृत् ॥ १३ ॥
इति चतुर्विंशतिमूर्त्तयः ।
७ । या स्थाप्या मूर्त्तिरङ्गप्रत्यङ्गभग्ना तामिति योजना । विशेषः प्रथमे (पृ० २२ ) द्रष्टव्यः ।
८-१३ । आत्रयोदशश्लोकमनयां षट्श्लोक्या विष्णोश्चतुर्विंशति मूर्तीः सह नाम्ना सह
चाऽऽयुधेनाभिदधानः संक्षेपबुद्धया आयुधानां पूर्ण नामानुपादाय प्रतीकरूपेणाद्याक्षरमात्रेण तान्या-
युधानि प्रतिपादयतीति रहस्यमत्र विभावनीयम् । अत्र कृतशुद्धिषु पाठेषु प्रथमान्तानामायुध-
पदानामायुधिसामानधिकरण्यम् अस्त्यर्थेऽवप्रत्ययात् । इतरेषु च विशेषणत्वात्तृतीयेति द्रष्टव्यम् ।
‘मधुसूदन’ इत्यत्रातृप्रत्ययान्तेन सह कर्मधारयः । तत्र तत्र बिन्दव आकाराश्च छन्दःपालन-
धृतव्रता अपि बहुत्राकारणकृतप्रमाण इति विषीदामः । तत्र चास्यैव ग्रन्थकर्तुर्ग्रन्थान्तरे रूपमण्डने
आसामेव चतुर्विंशतिमूर्त्तीनामुल्लेखो विकलेनाऽऽयुधनाम्ना वर्त्तते । तद्दर्शनाच्चैतानि पद्यानि
सुबोधानि स्युरिति रूपमण्डनीयपद्यान्यत्रोद्ध्रियन्ते । तथा च रूपमण्डने तृतीयाध्याये---

(ndha)
न (na)
्य (ya)
न् (n)
त (ta)
श् (ś)
च (ca)
क (ka)
ा (ā)
र (ra)
ः (ḥ)
= बन्धन्यन्तश्चकारः!
Wait, or "बन्धन्यन्तश्चकारः" = "बन्धनी-अन्तः च-कारः"!
Wait, could it be "बन्धन्यन्तश्चकारः" meaning "the editor placed it inside brackets"?
Yes: "छन्दोदोषमविगणय्यैव बन्धन्यन्तश्चकारः प्रक्षिप्तोऽस्माभिरिति ज्ञेयम् ।"
Wait, why चकारः? Does it mean the letter 'च' (च-कारः) or "made/did" (चकार)?
Wait! "बन्धन्यन्तः चकारः प्रक्षिप्तोऽस्माभिः" -> "च-कार (the word 'च') inside brackets was inserted by us"!
Wait, or "बन्धन्यन्तः चक्रः प्रक्षिप्तोऽस्माभिः"?
Wait! Look at the word in line 30:
Is it "चकारः" or "चक्रः"?
च - का - रः ! It has an ā-mātrā: चकारः!
Wait, but what was inserted in line 3?
Look at line 3:
धत्ते चक्रं ( * ?) ग

पञ्चमोऽध्यायः ७७
( प्रोक्तानामायुधानां न्यासक्रमः ]
अधरं दक्षिणे हस्तमारभ्य सृष्टि(माग्रतः ? मार्गकः) ।
चतुर्विंशतिमूर्त्तीनां सर्व(वेना ? वैवा)युधक्रमः ॥ १४ ॥
[ अथ शालग्रामशिलापरीक्षा ]
[ आकृतितो ग्राह्यशिलालक्षणम् ]
नागभोगसमा युक्ता शिला सूक्ष्मा च या भवेत् ।
पूजनीया प्रयत्नेन स्थिरा स्निग्धा च वर्त्तुला ॥ १५ ॥
भाव्यमिति, न चापि चतुर्भिस्तादृशमूर्त्त्यन्तरादर्शनात् । दृश्यन्ते हि प्रायेणालौकिकमूर्त्तौ
प्रतिपादं द्वौ द्वौ बाहू इति, यथा शिवविष्णुचतुराननादीनाम् । त्रिपादत्वे च—
'ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।'
इत्यादिस्मृतौ ज्वरासुरादीनां षट्चरणत्वम् । यद्यपि पुराणादौ श्रूयन्ते रावणादीनामतिपादा
बाहवः परं न श्रूयन्तेऽतिबाहवश्चरणाः । समबाहुत्वं द्विपदादौ दृष्टमपि न त्रिपादादौ युक्तमिति
विभावयामः । अस्त्रन्यासक्रमविधायकश्लोकदर्शनादपि चतुर्बाहुत्वमेवैषां प्रतीयते इति दिक् ।
१४ । प्रोक्तानामायुधानां विन्यासक्रममाह—अधरमित्यादि । चतुर्बाहुमूर्तीनां दक्षिणाधो-
हस्तमारभ्य सृष्टिमार्गतः स्वभावक्रमेणाऽऽयुधक्रमो ज्ञातव्य इत्यर्थः । स्वभावक्रमश्च आदौ
दक्षिणाधोहस्तस्ततो दक्षिणोर्ध्वहस्तस्ततो वामाधोहस्तोऽन्तततश्च वामोर्ध्वहस्त इति । तथा
च 'केशवः पद्मशंगश्चे'ति केशवस्य दक्षिणाधोहस्ते पद्मम्, दक्षिणोर्ध्वे चक्रम्, वामाधः शङ्खः,
[ वामोर्ध्वे गदेति ज्ञेयम्, एवं सर्वत्र ।
१५ । आ पञ्चदशश्लोकात् त्रिषष्टश्लोकं यावदष्टाचत्वारिंशता श्लोकैः शालग्रामशिलाया लक्षणं
दोषगुणौ ग्राह्याग्राह्यते परस्परभेदाश्च निरूपितानि । शास्त्रान्तरप्रसिद्धान्यमूनि वस्तूनि कचिद्वि-
कल्पशोधोद्वारेण कचिदक्षरमात्रपरिवर्त्तनेन, क्वचित् पदपरिवर्त्तनेन, कचिद् भाषापरिवर्त्तनतोऽर्थमात्रा-
दानेन चायं ग्रन्थकारो यथायथमाजहार । एते च विषयाः प्रयोगपारिजातमत्स्यसूक्तादौ स्कन्दाग्नि-
ब्रह्म-ब्रह्मवैवर्त्त-वाराहादिमहापुराणेषु चोपलभ्यन्त इति वीरमित्रोदयप्राणतोषणीशिलाचक्रार्थ-
बोधिन्यादिसंग्रहग्रन्थादिभ्यो ज्ञायते । जिज्ञासुभिस्तत्र तत्राऽऽकरे संग्रहे वा द्रष्टव्यम् । न युक्तं पुनरर्थ-
शास्त्रं व्याचिख्यासुभिर्धर्मशास्त्रविषयमवलम्ब्य विशेषेणाऽऽलोचयितुम् इति ततो विरमामः ।
नागभोगसमेति फणिफणाकृतिविशिष्टा, युक्ता सुघटिता । न पुनर्नागभोगसमायुक्तेत्यैक-
पद्यम् । 'नागभोगसमाकारे'ति रूपमण्डने, 'छत्राकारे'त्यन्यत्र च पाठः । स्थिरेति, आसने यथा
स्थिरतया वर्त्तेत तथाऽधश्चिपिटेत्यर्थः । तथाऽपि वर्त्तुला ऊर्ध्वभागे गोलाकृतिः ।

७८ देवतामूर्त्तिप्रकरणम्
[ प्रमाणतो ग्राह्यशिलालक्षणम् ]
तत्राप्यामलकीमाना सूक्ष्मा चातीव या भवेत् ।
तस्यामेव सदा कृष्णः श्रिया सह वसत्यसौ ॥ १६ ॥
यथा यथा शिला सूक्ष्मा तथा तथा महत् फलम् ।
तस्मात्तां पूजयेन्नित्यं धर्मकामार्थमुक्तये ॥ १७ ॥
[ त्याज्यशिलालक्षणम् ]
कपिला कर्बुरा भग्ना रुक्षा निद्राकुला च या ।
(रेषाकुषा? रेखाकुला)ऽस्थिरा स्थूला बहुचक्रैकचक्रका ॥ १८ ॥
बृहन्मुखी बृहच्चक्रा बद्धचक्रा च (पायुनः ? या पुनः) ।
बद्धचक्राऽथ(नामा ? वा या) स्याद् भिन्नचक्रा त्वधोमुखी ॥१९॥
दग्धा (सुरत?सुरक्ता) चापूज्या निष्षणा (पाति?पंक्ति) चक्रिका ।
पूजयेद् यः प्रमादेन दुःखमेव लभेत् सदा ॥ २० ॥
[ तत्र प्रतिप्रसवः ]
खण्डिता स्फुटिता भिन्ना पार्श्वभिन्ना विभेदिका ।
शा(लि?ल)ग्रामसमुद्भूता शिला दोषवहा न हि ॥ २१ ॥
१८ । श्लोकत्रयं प्राणतोषणीधृतस्कन्दपुराणे किञ्चिद्विकलमुपलभ्यते । तत्र यथा पाठान्तरं
तथा श्लोकमध्ये बन्धनीचिह्नान्तर्यथासम्भवं सन्निवेशितम् ।
रुक्षेति—'अचिराच्छुष्कतां याति यस्यां लिप्तन्तु चन्दनम् । सा रुक्षेति' शिलाचक्रार्थबोधिनी-
धृतप्रयोगपारिजातोक्तलक्षणेत्यर्थः । अस्थिरेति आसने स्थिरताऽवर्त्तमाना । बहुचक्रेति
प्रमाणाधिकचक्रशालिनी, यस्याः शिलाया यावन्ति चक्राणि प्रमाणतः प्राप्तानि ततोऽधिकचक्रेति
यावत् । एकचक्रकेति एकं चक्रकं यस्याः सा, यस्या एकमपि चक्रं क्षुद्रं तादृशीत्यर्थः । अन्य-
त्रैकचक्राया ग्राह्यत्वश्रवणात् ।
१९ । बद्धचक्रेत्यत्र लग्नचक्रेति पाठः पुराणे । तत्रापि नास्त्यर्थान्तरम् । बृहच्चक्रेति
चक्रान्तर्गतचक्रा,
'चक्रेणाऽऽवृतचक्रा च बृहच्चक्रा प्रकीर्त्तिता'
इति शिलाचक्रार्थबोधिनीधृतप्रयोगपारिजातस्मरणात् ।
२१ । अत्र प्राणतोषण्यां स्फुटितादिवर्जनीयशिलालक्षणमभिधाय—

त + ा = ता
ह = ह
Result in Unicode: श्वेताश्यामयोर्र्विशेषफलमाह ? NO!
It gives: श्वेताश्यामयोर्र्विशेषफलमाह (wait, why did my brain think there is a duplicate र? There isn't!).
Let's look at:
श् वे ता श्या म यो र् वि शे ष फ ल मा ह:
Unicode: \u0936\u094d\u0935\u0947\u0924\u093e\u0936\u094d\u092f\u093e\u092e\u092f\u094b\u0930\u094d\u0935\u093f\u0936\u0947\u0938\u094d...
That renders as: श्वेताश्यामयोर्र्विशेषफलमाह? NO, it renders as:
श्वेताश्यामयोर्र्विशेषफलमाह (wait, the font renders it as: यो + र् + वि = र्वि after यो).
Wait, why did the text box in thought show two र's? Ah, because of double copy-paste.
Let's see: श्वेताश्यामयोर्र

८० देवतामूर्त्तिप्रकरणम्
अथ चक्र[विशेष]लक्षणानि
[ तत्र वासुदेवः ]
द्वारदेशे समे चक्रे दृश्यते नान्त(रायिके ? रीयके) ।
वासुदेवः स विज्ञेयः शुक्लाभः स्यां(चा?)तितेजसा ॥ २६ ॥
[ सङ्कर्षणः ]
(द्वौ चक्रावेकलग्नौ ? द्वे चक्रे एकलग्ने) तु पूर्वभागस्तु पुष्क(लः?लम्) ।
सङ्कर्षणाख्यो विज्ञेयो रक्ता(भि ? भ)श्चातितेजसा ॥ २७ ॥
[ प्रद्युम्नः ]
प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च ।
सुषिरं छिद्रबहुलं दीर्घाकारन्तु यद् भवेत् ॥ २८ ॥
[ अनिरुद्धः ]
अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः ।
(रेप्यायां ? रेखाणां) त्रितयं (द्वारं ? द्वारे) पृष्ठं पद्मेन लाञ्छितम् ॥
[ एतेषां पूजाधिकारिणः ]
ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा ।
प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ ३० ॥
चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः ।
वैश्यैर्द्वावेव संपूज्यौ तथैकः शूद्रजातिभिः ॥ ३१ ॥
२६ । चक्रभेदान् विवक्षुर्वासुदेवमाह—द्वारदेश इति । नान्तरीयेके इति चक्रद्वयं परस्पर-
लग्नमित्यर्थः । अतितेजसेति विशेषणे तृतीया, अतितेज उपलक्षित इत्यर्थः ।
२७ । ‘द्वे चक्रे अग्रलग्ने तु पूर्वभागे च पुष्करम् । सङ्कर्षणाख्यो विज्ञेयो रक्ताभश्चातिशोभनः ॥’
इति प्राणतोषणी । पुष्कलमिति र-लयोरभेदात् पुष्करमिति ज्ञेयम्, पुष्करमाकाशं छिद्रमित्यर्थः ।
२९ । एता द्विचक्रा इति प्राणतोषणीतो ज्ञायते ।
३० । एवं चत्वारि चक्राणि निरूप्य प्रसङ्गात्तेषां पूजाधिकारिण आह—ब्राह्मणैरिति द्वाभ्याम् ।
३१ । अन्यत्रोऽयं श्लोकः,
शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एव हि ॥
इति स्मृत्यन्तरधृतवचनस्यापवादविधया हेमाद्रावुक्त इति वीरमित्रोदयाज् ज्ञायते । अत्र चायं
वासुदेवादिपूजाप्रकारः—

पञ्चमोऽध्यायः ८१
[ त्रिवक्रलक्ष्मीनारायणः ]
लक्ष्मीनारायणो देवस्त्रिभिश्चक्रैर्व्यवस्थितः ।
पूजनीयः प्रयत्नेन भुक्तिमुक्तिफलप्रदः ॥ ३२ ॥
[ मधुसूदनः ]
नाभिपाश्र्वे शङ्खपद्मं यस्य मुद्रा प्रदृश्यते ।
मधुसूदन आख्यातः शत्रुहा परिकीर्त्तितः ॥ ३३ ॥
[ दामोदरः ]
स्थूलो दामोदरो ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु सः ।
चक्रे तु मध्यरेखः स्यात् पूजितः सुखदः सदा ॥ ३४ ॥
[ द्विचक्रलक्ष्मीनृसिंहः ]
वामपाश्र्वस्थिते चक्रे कृष्णवर्णे सबिन्दुके ।
लक्ष्मीनृसिंहो विख्यातो भुक्तिमुक्तिफलप्रदः ॥ ३५ ॥
[ द्विचक्रपुरुषोत्तमः ]
सुवृत्तुलं तथा पीतं पृष्ठे तु सुषिरं ध्रुवम् ।
विदिक्षु दिक्षु सर्वासु मुखं यस्यैव दृश्यते ।
स देवदेवो विज्ञेयः पुराणः पुरुषोत्तमः ॥ ३६ ॥
[ एकचक्रे वर्णकृतो विशेषः ]
शुक्लो रक्तस्तथा कृष्णो द्विवर्णो बहुवर्णभाक् ।
एक (वस्त्वैक ? चक्रस्य) पञ्चैताः संज्ञाः स्युः पञ्च यथाक्रमम् ॥
ब्राह्मणैर्वासुदेवः पूज्यते इत्ययमेषामसाधारणोऽधिकारः वर्णगुरुत्वादितरवर्णसाधारणं चक्रपूजन-
मप्यविरुद्धम् । एवं नृपैः सङ्कर्षणः पूज्यते इति, अयमेषां क्षत्रियाणां ब्राह्मणसाधारणे
वैश्यशूद्रापेक्षयाऽसाधारणोऽधिकारः । ततश्च तैः सङ्कर्षणप्रद्युम्नानिरुद्धाः पूजनीयाः । प्रद्युम्नः
पूज्यते वैश्यैरित्येषां शूद्रमात्रापेक्षयाऽसाधारणो ब्राह्मणक्षत्रियसाधारणोऽधिकारः । एवञ्च वैश्यैः
प्रद्युम्नानिरुद्धौ पूजनीयौ । अनिरुद्धस्तु शूद्रकैरित्ययमेषां सर्वसाधारणोऽधिकारः । तथाच—
शूद्रैरेक एवानिरुद्धः पूजनीय इति फलितोऽर्थः ।
परं न हि वर्णहीना वर्णोत्तमानां वृत्तिमाददीरन्निति न नृपैर्वासुदेवः पूज्यः, न तु वैश्यैर्वासुदेव-
सङ्कर्षणौ, न च शूद्रेण वासुदेवसङ्कर्षणप्रद्युम्ना इति । तदेवाहोत्तरश्लोके—चत्वार इत्यादीति ।
३७-३८ । एकचक्रे विशेषमाह—शुक्ल इति । एकचक्रस्य शुक्लादयः पञ्च संज्ञाः
देवता—११

८२ देवतामूर्त्तिप्रकरणम्
[ वर्णक्रमेण तेषां नामानि ]
पुण्डरीकः प्रलम्बघ्नो रामो वैकुण्ठ एव च ।
विष्वक्सेन इति ब्रह्मन् फलञ्चास्यार्चने शृणु ।
[ यथाक्रममेतेषां फलम् ]
मोक्षं मृत्युं विवादञ्च दारिद्र्यमटनं तथा ॥ ३८ ॥
[ द्विचक्रे चक्रनिबन्धने विशेषः ]
चक्रे तु मध्यदेशे स्यात्(त्वा ? ता)माख्यामि रमे शृणु ।
परमेष्ठ्यजितक्रोधस्तथा नारायणोऽन्तकः ॥ ३६ ॥
अनन्तश्चे(दिति ? ति वि-)ज्ञेयो नानामूर्त्तिस्तु यो भवेत् ।
[ यथाक्रममेतेषां फलम् ]
राज्यं मृत्युं धनञ्चैव हानिश्च वाञ्छितार्थकम् ॥ ४० ॥
स्युरित्यन्वयः । अत्र 'संज्ञाः स्युरिति' स्यात् । यथाक्रमम् इत्यस्य परत्रान्वयः । द्विवर्ण इति
यत्तत्किञ्चिद्वर्णद्वयवानित्यर्थः, बहुवर्णभाग् इत्यत्र च द्वयधिक-यत्तत्किञ्चिद्वर्णवानिति । यथाक्रम-
मित्यस्यार्थस्तु-शुक्लः पुण्डरीकः, रक्तः प्रलम्बघ्नः, कृष्णो रामः, द्विवर्णो वैकुण्ठः, बहुवर्णभागो
विष्वक्सेन इति । एतेषामर्चनफलमाह-फलञ्चास्येति । यथाक्रममित्येव । तथाच
पुण्डरीकाक्षार्चने फलं मोक्षः । एवं प्रलम्बघ्नाद्यर्चने मृत्यादयः । 'अटनमि'त्यत्र 'अर्जनमि'ति
पुराणे पाठः ।
३९-४० । द्विचक्रे विशेषमाह-चक्रे त्विति । द्विचक्राणां चक्रे यदि मध्यदेशे स्यातां
तदा तेषां परमेष्ठ्यादिसंज्ञा भवति, फलञ्च राज्यादिकमिति वर्त्तुलार्थः । नानामूर्त्तिरित्यनन्त
इत्यस्य विशेषणम् । राज्यमित्यादिद्वितीयान्तपदानां ददातीत्यध्याहृतक्रियाऽन्वयो द्रष्टव्यः ।
अत्रेदं विवेक्तव्यम्-प्राणतोषणीधृतपद्मपुराणे 'वर्णचक्रादिभेदेन तानि नामानि मे शृणु' इत्युपक्रम्य,
'शुक्लो रक्तस्तथा पीत' इत्यादिसप्तत्रिंशश्लोकादारभ्य 'राज्यं मृत्युम्' इत्यादिश्चत्वारिंश-
श्लोकान्तो भागः क्वचित् किञ्चिदंशस्य योगविप्रयोगाभ्यामविकलो वर्त्तते । परं तत्र वर्णतश्चक्रतश्च
भिन्नतया द्विविधानामप्यमूषां शालग्रामशिलानां 'राज्यं मृत्युं विवादञ्चे'त्याद्येकमेव फलं निर्णीत-
मुपलभ्यते न तु प्रकृते इव वर्णतो भिन्नानां 'मोक्षं मृत्युं विवादञ्चे'त्यादि विविक्तं फलम् ।
विशेषतः पुनस्तत्र 'राज्यं मृत्युम्' इत्यादिद्वितीयान्तपदाना मन्वयसमाप्त्यर्थं 'ददाति पूजितो लोके
तस्मात् ज्ञात्वाऽर्चयेन्नरः' इत्यर्धमधिकं वर्त्तते । तदनयोर्वर्णभिन्नचक्रभिन्नयोः शालग्रामशिला-
वर्गयोर्युतफलताऽयुतफलता वेति स्मार्त्तधुरीणा एव समादधत्विति ।

पञ्चमोऽध्यायः ८३
[ चक्रान्तराणि ]
एक(पद्मान्तिका ? चक्रान्विता) या तु दक्षि(णार्त्त-
? णावर्त्त ) संस्थिता ।
चतुर्लाञ्छनसंयुक्ता भोगमोक्षप्रदा शुभा ॥ ४१ ॥
चक्रेण कम्बुना या च (पद्मनादि य अङ्किता ?
पद्मेन गद्याऽङ्किता ) ।
तत्र श्रीः प्रत्यहं तिष्ठेत् (सप्त ? सर्व)सम्पदमादिशेत् ।
लाञ्छनेन विना (यस्य ? या स्यात् ) प्रशस्ता तु न
सा स्मृता ॥ ४२ ॥
[ हरिः ]
चक्रं वा केवलं यत्र पद्मं वा(प्यर्थ यद् ? प्यथ वा) गदा ।
लाङ्गलं वनमाला च हरिर्लक्ष्म्या (स हि ? सह) स्थितः ॥४३
[ एतत्पूजाफलम् ]
तस्मिन् गृहे न दारिद्र्यं न शोको रोगजं भयम् ।
न चोराग्निभयं तस्य ग्रहै रोगैर्न बाध्यते ।
अन्ते मोक्षो भवेत्तस्य पूजनादेव नित्यशः ॥ ४४ ॥
[ नृसिंहः ]
विकटास्या तु विकृता नृसिंहमुखलाञ्छना ।
पाशाङ्कुशगदाचक्रा(प्ये ? ष्ये)षामङ्केन लाञ्छिता ॥ ४५ ॥
नारसिंही भवेन्मुद्रा भोगमोक्षप्रदायिका ।
दर्शनान्नश्यते पापं ब्रह्महत्यां व्यपोहति ॥ ४६ ॥
४१-४२ । या शिला एकचक्रान्विता, दक्षिणावर्त्तसंस्थिता चतुर्लाञ्छनसंयुक्ता च सा
भोगमोक्षप्रदेत्यन्वयः । चतुर्लाञ्छनेत्यस्य विवरणं चक्रेणेत्यादि ।