सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 162, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 162

पञ्चमोऽध्यायः ७५
[ अवस्थाभेदेन मूर्तीनां ग्राह्याग्राह्यत्वम् ]
अङ्गप्रत्यङ्गभग्ना या मूर्त्तिः स्थाप्या विसर्जयेत् ।
नखाभरणमालास्त्रैर्भग्नां तां न विसर्जयेत् ॥ ७ ॥
[ विष्णोश्चतुर्विंशतिमूर्त्तयः ]
केशवः (पद्मशङ्खश्च ? प-च-शं-गश्च)मधुसूदन-(च ?)शं-प-(गाः ?गः)
सङ्कर्षणो ग-शं-पा-चै (ः?) दामोदरः प-शं-ग-च (ः ?) ॥ ८ ॥
वासुदेवो ग-शं-च-पै (ः?) प्रद्युम्नश्चक्र-शं-ग-पः ।
विष्णुर्गदा-प-शं-चक्री माधवो ग-च-शङ्ख-पैः ॥ ९ ॥
अनिरुद्धश्च-गं-शं-पः पुरुषोत्तमश्च-पा-श-गैः ।
अधोक्षजः प-गा-शं-चो जनार्दनः प-चं-श-गः ॥ १० ॥
गोविन्दश्चक्र-गा-पा-(शं ? शः) त्रिविक्रमः प-गं-च-श(ः ?) ।
श्रीधरः पद्म-चं-गा-(शं ? शः) हृषीकेशो ग-चं-प-शैः ॥ ११ ॥
नृसिंहश्च-प-गं-श(अ ? ञ्च) अच्युतो ग-प-चक्र-(शम् ?शः) ।
वामनः शं-च-गं-पद्मैर्नारायणः श-पं-ग-(च ः ?) ॥ १२ ॥
पद्मनाभः श-प-चां-ग उपेन्द्रः शं-ग-दा-च-पैः ।
हरिः शं-च-ग-पः पूज्यः कृष्णः शं-ग-प-चक्रभृत् ॥ १३ ॥
इति चतुर्विंशतिमूर्त्तयः ।
७ । या स्थाप्या मूर्त्तिरङ्गप्रत्यङ्गभग्ना तामिति योजना । विशेषः प्रथमे (पृ० २२ ) द्रष्टव्यः ।
८-१३ । आत्रयोदशश्लोकमनयां षट्श्लोक्या विष्णोश्चतुर्विंशति मूर्तीः सह नाम्ना सह
चाऽऽयुधेनाभिदधानः संक्षेपबुद्धया आयुधानां पूर्ण नामानुपादाय प्रतीकरूपेणाद्याक्षरमात्रेण तान्या-
युधानि प्रतिपादयतीति रहस्यमत्र विभावनीयम् । अत्र कृतशुद्धिषु पाठेषु प्रथमान्तानामायुध-
पदानामायुधिसामानधिकरण्यम् अस्त्यर्थेऽवप्रत्ययात् । इतरेषु च विशेषणत्वात्तृतीयेति द्रष्टव्यम् ।
‘मधुसूदन’ इत्यत्रातृप्रत्ययान्तेन सह कर्मधारयः । तत्र तत्र बिन्दव आकाराश्च छन्दःपालन-
धृतव्रता अपि बहुत्राकारणकृतप्रमाण इति विषीदामः । तत्र चास्यैव ग्रन्थकर्तुर्ग्रन्थान्तरे रूपमण्डने
आसामेव चतुर्विंशतिमूर्त्तीनामुल्लेखो विकलेनाऽऽयुधनाम्ना वर्त्तते । तद्दर्शनाच्चैतानि पद्यानि
सुबोधानि स्युरिति रूपमण्डनीयपद्यान्यत्रोद्ध्रियन्ते । तथा च रूपमण्डने तृतीयाध्याये---