सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 161, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 161

पञ्चमोऽध्यायः
[ वर्णविशेषेषु मूर्त्तिभेदेन विष्णोः शुभदायकत्वम् ]
नारायणः केशवश्च माधवो मधुसूदनः ।
स्थापिता मूर्त्तयो (ह्येते ? ह्येता ?) विप्राणां सुखदाः सदा ॥१॥
मधुसूदनविष्णुश्च (खाड ? खड्ग)शूलधरं लिखेत् ।
क्षत्रियाणां फलप्रदौ वैश्यानामर्चने शुभौ ॥ २ ॥
पूजिता (श्री?श्रै)धरी मूर्त्तिः शूद्राणाञ्च सुखप्रदा ।
चर्मकृद्रजकानाञ्च नटस्य वरटस्य च ॥ ३ ॥
मेदभिल्लकिरातानां हृषीकेशः सुखावहः ।
कुम्भकारवणिग्वैश्यचाक्रिकाणां ध्वजस्य च ॥ ४ ॥
सर्वासां प्रकृतीनाञ्च पद्मनाभः सुखप्रदः ।
दामोदरः सौख्यकरो ब्रह्मचार्येकदण्डिनोः ॥ ५ ॥
हरिं हिरण्यगर्भञ्च नारसिंहमतः परम् ।
वामनञ्च वराहञ्च सर्ववर्णेषु सौख्यदम् ॥ ६ ॥
२। एतेन मधुसूदनो विष्णुश्चाविशेषेण क्षत्रियाणां वैश्यानाञ्च शुभदावित्यायाति ।
रूपमण्डने पुनरन्यथैव दृश्यते । तथाच—
मधुसूदनविष्णू च क्षत्रियाणां फलप्रदौ ।
त्रिविक्रमो वामनश्च वैश्याना(मर्चयेच्छुभा ? मर्चने शुभौ) ॥ ( अ० ३ )
इति । एष एव च पाठो युक्त इति प्रतिभाति ।
३। शूद्राणाञ्चेति चकाराद् ब्रह्मक्षत्रविशामपि सुखप्रदेत्यनुमीयते । रूपमण्डने पुनः
‘शूद्राणां सौख्यदायिनी'ति पाठः ।
४। मेदो म्लेच्छजातिविशेषः, ध्वजः शौण्डिकः । अत्र द्वितीयार्धे 'कुम्भकारवणिक्-
वैश्यचाक्रिकध्वजिनामपि' इति सुखबोध्यः पाठो रूपमण्डने । एवञ्चैतन्मते वैश्यानां मधुसूदन-
विष्णुहृषीकेशाः, रूपमण्डनमते त्रिविक्रमवामनहृषीकेशाः सुखावहा इति स्थितम् ।