रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 164, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ७७
( प्रोक्तानामायुधानां न्यासक्रमः ]
अधरं दक्षिणे हस्तमारभ्य सृष्टि(माग्रतः ? मार्गकः) ।
चतुर्विंशतिमूर्त्तीनां सर्व(वेना ? वैवा)युधक्रमः ॥ १४ ॥
[ अथ शालग्रामशिलापरीक्षा ]
[ आकृतितो ग्राह्यशिलालक्षणम् ]
नागभोगसमा युक्ता शिला सूक्ष्मा च या भवेत् ।
पूजनीया प्रयत्नेन स्थिरा स्निग्धा च वर्त्तुला ॥ १५ ॥
भाव्यमिति, न चापि चतुर्भिस्तादृशमूर्त्त्यन्तरादर्शनात् । दृश्यन्ते हि प्रायेणालौकिकमूर्त्तौ
प्रतिपादं द्वौ द्वौ बाहू इति, यथा शिवविष्णुचतुराननादीनाम् । त्रिपादत्वे च—
'ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।'
इत्यादिस्मृतौ ज्वरासुरादीनां षट्चरणत्वम् । यद्यपि पुराणादौ श्रूयन्ते रावणादीनामतिपादा
बाहवः परं न श्रूयन्तेऽतिबाहवश्चरणाः । समबाहुत्वं द्विपदादौ दृष्टमपि न त्रिपादादौ युक्तमिति
विभावयामः । अस्त्रन्यासक्रमविधायकश्लोकदर्शनादपि चतुर्बाहुत्वमेवैषां प्रतीयते इति दिक् ।
१४ । प्रोक्तानामायुधानां विन्यासक्रममाह—अधरमित्यादि । चतुर्बाहुमूर्तीनां दक्षिणाधो-
हस्तमारभ्य सृष्टिमार्गतः स्वभावक्रमेणाऽऽयुधक्रमो ज्ञातव्य इत्यर्थः । स्वभावक्रमश्च आदौ
दक्षिणाधोहस्तस्ततो दक्षिणोर्ध्वहस्तस्ततो वामाधोहस्तोऽन्तततश्च वामोर्ध्वहस्त इति । तथा
च 'केशवः पद्मशंगश्चे'ति केशवस्य दक्षिणाधोहस्ते पद्मम्, दक्षिणोर्ध्वे चक्रम्, वामाधः शङ्खः,
[ वामोर्ध्वे गदेति ज्ञेयम्, एवं सर्वत्र ।
१५ । आ पञ्चदशश्लोकात् त्रिषष्टश्लोकं यावदष्टाचत्वारिंशता श्लोकैः शालग्रामशिलाया लक्षणं
दोषगुणौ ग्राह्याग्राह्यते परस्परभेदाश्च निरूपितानि । शास्त्रान्तरप्रसिद्धान्यमूनि वस्तूनि कचिद्वि-
कल्पशोधोद्वारेण कचिदक्षरमात्रपरिवर्त्तनेन, क्वचित् पदपरिवर्त्तनेन, कचिद् भाषापरिवर्त्तनतोऽर्थमात्रा-
दानेन चायं ग्रन्थकारो यथायथमाजहार । एते च विषयाः प्रयोगपारिजातमत्स्यसूक्तादौ स्कन्दाग्नि-
ब्रह्म-ब्रह्मवैवर्त्त-वाराहादिमहापुराणेषु चोपलभ्यन्त इति वीरमित्रोदयप्राणतोषणीशिलाचक्रार्थ-
बोधिन्यादिसंग्रहग्रन्थादिभ्यो ज्ञायते । जिज्ञासुभिस्तत्र तत्राऽऽकरे संग्रहे वा द्रष्टव्यम् । न युक्तं पुनरर्थ-
शास्त्रं व्याचिख्यासुभिर्धर्मशास्त्रविषयमवलम्ब्य विशेषेणाऽऽलोचयितुम् इति ततो विरमामः ।
नागभोगसमेति फणिफणाकृतिविशिष्टा, युक्ता सुघटिता । न पुनर्नागभोगसमायुक्तेत्यैक-
पद्यम् । 'नागभोगसमाकारे'ति रूपमण्डने, 'छत्राकारे'त्यन्यत्र च पाठः । स्थिरेति, आसने यथा
स्थिरतया वर्त्तेत तथाऽधश्चिपिटेत्यर्थः । तथाऽपि वर्त्तुला ऊर्ध्वभागे गोलाकृतिः ।