रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 170, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ८३
[ चक्रान्तराणि ]
एक(पद्मान्तिका ? चक्रान्विता) या तु दक्षि(णार्त्त-
? णावर्त्त ) संस्थिता ।
चतुर्लाञ्छनसंयुक्ता भोगमोक्षप्रदा शुभा ॥ ४१ ॥
चक्रेण कम्बुना या च (पद्मनादि य अङ्किता ?
पद्मेन गद्याऽङ्किता ) ।
तत्र श्रीः प्रत्यहं तिष्ठेत् (सप्त ? सर्व)सम्पदमादिशेत् ।
लाञ्छनेन विना (यस्य ? या स्यात् ) प्रशस्ता तु न
सा स्मृता ॥ ४२ ॥
[ हरिः ]
चक्रं वा केवलं यत्र पद्मं वा(प्यर्थ यद् ? प्यथ वा) गदा ।
लाङ्गलं वनमाला च हरिर्लक्ष्म्या (स हि ? सह) स्थितः ॥४३
[ एतत्पूजाफलम् ]
तस्मिन् गृहे न दारिद्र्यं न शोको रोगजं भयम् ।
न चोराग्निभयं तस्य ग्रहै रोगैर्न बाध्यते ।
अन्ते मोक्षो भवेत्तस्य पूजनादेव नित्यशः ॥ ४४ ॥
[ नृसिंहः ]
विकटास्या तु विकृता नृसिंहमुखलाञ्छना ।
पाशाङ्कुशगदाचक्रा(प्ये ? ष्ये)षामङ्केन लाञ्छिता ॥ ४५ ॥
नारसिंही भवेन्मुद्रा भोगमोक्षप्रदायिका ।
दर्शनान्नश्यते पापं ब्रह्महत्यां व्यपोहति ॥ ४६ ॥
४१-४२ । या शिला एकचक्रान्विता, दक्षिणावर्त्तसंस्थिता चतुर्लाञ्छनसंयुक्ता च सा
भोगमोक्षप्रदेत्यन्वयः । चतुर्लाञ्छनेत्यस्य विवरणं चक्रेणेत्यादि ।