रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
DevanagariHindipublished335 पृष्ठ
पृष्ठ 158, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 158
चतुर्थोऽध्यायः ७१
[ राहुः ]
सिंहासनगतं राहुं करालवदनं लिखेत् ।
वरदं खड्गसंयुक्तं खेटशूलधरं लिखेत् ॥ ५६ ॥
[ केतवः ]
धूम्रा द्विबाहवः सर्वे वरदाश्च गदाधराः ।
गृध्रपृष्ठसमारूढा लेखनीयास्तु केतवः ॥ ५७ ॥
[ ग्रहमूर्त्तौ साधारणविधिः ]
(गृ ? ग्र)हाः किरीटिनः कुर्यान् (कार्या ?) नवतालप्रमाणकाः ।
रत्नकुण्डलकेयूरहाराभरणभूषिताः ॥ ५८ ॥
इति नवग्रहाः ।
[ इन्द्रः ]
वरदं वज्राङ्कुशञ्च कमण्डलुविधृतकरम् ।
गजारूढं सहस्राक्षमिन्द्रं पूर्वदिशि स्थितम् ॥ ५६ ॥
[ अग्निः ]
वरदं शक्तिहस्तञ्च मृणालञ्च कमण्डलुम् ।
ज्वालापुञ्जनिभं रूपं (देवं ?) मेषारूढं हुताशनम् ॥ ६० ॥
५८ । अत्र