सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 167, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 167

८० देवतामूर्त्तिप्रकरणम्
अथ चक्र[विशेष]लक्षणानि
[ तत्र वासुदेवः ]
द्वारदेशे समे चक्रे दृश्यते नान्त(रायिके ? रीयके) ।
वासुदेवः स विज्ञेयः शुक्लाभः स्यां(चा?)तितेजसा ॥ २६ ॥
[ सङ्कर्षणः ]
(द्वौ चक्रावेकलग्नौ ? द्वे चक्रे एकलग्ने) तु पूर्वभागस्तु पुष्क(लः?लम्) ।
सङ्कर्षणाख्यो विज्ञेयो रक्ता(भि ? भ)श्चातितेजसा ॥ २७ ॥
[ प्रद्युम्नः ]
प्रद्युम्नः सूक्ष्मचक्रस्तु पीतदीप्तिस्तथैव च ।
सुषिरं छिद्रबहुलं दीर्घाकारन्तु यद् भवेत् ॥ २८ ॥
[ अनिरुद्धः ]
अनिरुद्धस्तु नीलाभो वर्त्तुलश्चातिशोभनः ।
(रेप्यायां ? रेखाणां) त्रितयं (द्वारं ? द्वारे) पृष्ठं पद्मेन लाञ्छितम् ॥
[ एतेषां पूजाधिकारिणः ]
ब्राह्मणैर्वासुदेवस्तु नृपैः सङ्कर्षणस्तथा ।
प्रद्युम्नः पूज्यते वैश्यैरनिरुद्धस्तु शूद्रकैः ॥ ३० ॥
चत्वारो ब्राह्मणैः पूज्यास्त्रयो राजन्यजातिभिः ।
वैश्यैर्द्वावेव संपूज्यौ तथैकः शूद्रजातिभिः ॥ ३१ ॥
२६ । चक्रभेदान् विवक्षुर्वासुदेवमाह—द्वारदेश इति । नान्तरीयेके इति चक्रद्वयं परस्पर-
लग्नमित्यर्थः । अतितेजसेति विशेषणे तृतीया, अतितेज उपलक्षित इत्यर्थः ।
२७ । ‘द्वे चक्रे अग्रलग्ने तु पूर्वभागे च पुष्करम् । सङ्कर्षणाख्यो विज्ञेयो रक्ताभश्चातिशोभनः ॥’
इति प्राणतोषणी । पुष्कलमिति र-लयोरभेदात् पुष्करमिति ज्ञेयम्, पुष्करमाकाशं छिद्रमित्यर्थः ।
२९ । एता द्विचक्रा इति प्राणतोषणीतो ज्ञायते ।
३० । एवं चत्वारि चक्राणि निरूप्य प्रसङ्गात्तेषां पूजाधिकारिण आह—ब्राह्मणैरिति द्वाभ्याम् ।
३१ । अन्यत्रोऽयं श्लोकः,
शालग्रामाः समाः पूज्या विषमा न कदाचन । समेषु न द्वयं पूज्यं विषमेष्वेक एव हि ॥
इति स्मृत्यन्तरधृतवचनस्यापवादविधया हेमाद्रावुक्त इति वीरमित्रोदयाज् ज्ञायते । अत्र चायं
वासुदेवादिपूजाप्रकारः—