सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

प्रयान्त्येन¹ङ्गातुरमानसानां
नितम्बिनीनां जघनेषु काञ्च्यः ॥ ६ ॥
स्तनेष्विति ॥ अनङ्गेन मन्मथेनातुरं पीडितं मानसं
यासां तासां तथोक्तानां नितम्बिनीनां नितम्बवतीनां स्तनेषु
कुचेषु सितचन्दनेन धवलचन्दनद्रवेणार्द्रा हारा मुक्ताहाराः
भुजेषु बाहुषु वलयाङ्गदानि कटककेयूराणि । जघनेषु का-
ञ्च्यः सङ्गं संबन्धं प्रयान्ति प्राप्नुवन्तीत्यर्थः ॥
सपत्रलेखेषु विलासिनीनां
वक्त्रेषु हेमाम्बुरुहोपमेषु ।
र²त्नान्तरे मौक्तिकसङ्ग³रम्यः
स्वेदा⁴गमो विस्तरतामुपैति ॥ ७ ॥
सपत्रेति ॥ रत्नान्तरे रत्नानां मध्ये मौक्तिकानां मुक्ताफलानां
सङ्गेनैव रम्यो रमणीयः स्वेदागमो घर्मनिर्गमो विलासिनीनां
विलासवतीनां स्त्रीणां सपत्रलेखेषु पत्रलेखा कपोलादौ कस्तूर्या-
दिरचितावली तया सहितेषु हेमाम्बुरुहेण काञ्चनपद्मेनोपमेषु
वक्त्रेषु मुखेषु विस्तरतां विस्तारभावमुपैति प्राप्नोतीत्यर्थः ॥
उच्छ्वासयन्त्यः श्लथबन्धनानि
गात्राणि कंदर्पसमाकुलानि ।
समीपवर्ति⁵ष्वधुना प्रियेपु
समुत्सुका एव भवन्ति नार्यः ॥ ८ ॥
उच्छ्वासयन्त्य इति ॥ श्लथानि शिथिलानि बन्धनानि
१. 'निःशङ्कमनङ्गसौख्यम्'; 'निःसङ्गमनङ्गसौख्यम्'. २. 'स्तनान्तरे'.
३. 'सङ्गातः'. ४. 'स्वेदोद्गमः'. ५. 'अपि कार्मुकेषु'.
७

७० ऋतुसंहारे

कञ्चुक्यादीनां येषु तानि तथोक्तानि कंदर्पेणानङ्गेन समाकु-
लानि व्याकुलानि । ‘कंदर्पो दर्पकोऽनङ्गः’ इत्यमरः । गात्रा-
णि शरीराण्युच्छ्वासयन्त्यो नार्यः स्त्रियोऽधुना वसन्तकाले
समीपवर्तिषु निकटस्थितेषु प्रियेषु कान्तेषु समुत्सुका उत्क-
ण्ठिता एव भवन्ति जायन्त इत्यर्थः ॥
तनूनि पाण्डूनि ²समन्थराणि
मुहुर्मुहुर्जृम्भणतत्पराणि ।
अङ्गान्यनङ्गः प्रमदाजनस्य
करोति लावण्य²संसंभ्रमाणि ॥ ९ ॥
तनूनीति ॥ अनङ्गः कामः प्रमदाजनस्य स्त्रीजनस्याङ्गानि
गात्राणि तनूनि कृशानि पाण्डूनि पाण्डुवर्णानि समन्थराणि
जडीभूतानि मुहुर्मुहुर्वारंवारं जृम्भणतत्पराणि जृम्भणे प्रसि-
तानि । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । लावण्येन सौन्द-
र्येण ससंभ्रमाणि संवेगसहितानि । ‘समौ संवेगसंभ्रमौ’
इत्यमरः । करोतीत्यर्थः ॥
नेत्रेषु लो³लो ४मदिरालसेषु
गण्डेषु पाण्डुः ५कठिनः स्तनेषु ।
मध्येषु नि६म्नो जघनेषु पीनः
स्त्रीणामनङ्गो बहुधा स्थितोऽद्य ॥ १० ॥
नेत्रेष्विति ॥ स्त्रीणां युवतीनां मदिरयालसान्यालस्ययु-
क्तानि तेषु तथोक्तेषु नेत्रेषु लोचनेषु । ‘लोचनं नयनं नेत्रम्’
इत्यमरः । लोलश्चञ्चलः। गण्डेषु कपोलेषु पाण्डुः पाण्डुवर्णः।
१. ‘मदालसानि’. २. ‘रसोत्सुकानि’. ३. ‘लोलम्’; ‘अलोलः’.
४. ‘मदिरारसेषु’. ५. ‘कठिनस्तनेषु’. ६. ‘नग्नः’.

स्तनेषु कुचेषु कठिनः । मध्येषु मध्यभागेषु निम्नॊ गभीरः ।
जघनेषु पीनः पुष्ट इत्यनेन प्रकारेणानङ्गः कामोऽद्य बहुधा
बहुप्रकारेण स्थित उपस्थित इत्यर्थः ॥
अङ्गानि निद्रालसवि१भ्रमाणि
वाक्यानि किंचिन्मद२लालसानि ।
भ्रूक्षेपजिह्मानि च वीक्षितानि
चकार कामः ३प्रमदाजनानाम् ॥ ११ ॥
अङ्गानीति ॥ कामः प्रमदाजनानां कामिनीनामङ्गानि
शरीराणि निद्रयालसा विभ्रमा शृङ्गारवेषा येषु तानि तथो-
क्तानि । वाक्यानि किंचिदीषन्मदेन लालसानि चाटूनि ।
वीक्षितानि प्रेक्षणानि भ्रूक्षेपेण जिह्मानि कुटिलानि च चकार
कृतवानित्यर्थः ॥
प्रियङ्गुकालीयककुं४कुमाक्तं
५स्तनेषु गौरेषु विलासिनीभिः ।
आलिप्यते चन्दनमङ्गनाभि-
र्मदालसाभिर्मृगनाभियुक्तम् ॥ १२ ॥
प्रियङ्ग्विति ॥ विलासिनीभिर्विलासवतीभिर्मदेनालसा
आलस्ययुक्तास्ताभिस्तथोक्ताभिरङ्गनाभिः स्त्रीभिर्गौरेषु गौरव-
र्णेषु स्तनेषु कुचेषु प्रियङ्गुः श्यामा लता, कालीयकं जाय-
कम्, कुङ्कुमं केसरं च तैराक्तं युक्तं मृगनाभियुक्तं कस्तूरी-
युक्तं चन्दनमालिप्यते लाप्यत इत्यर्थः ॥
१. 'विह्वलानि'. २. 'मदिरालसानि;' 'मदसालसानि'. ३. 'प्रमदो-
त्तमानाम्.' ४. 'कुङ्कुमानि' . ५. 'स्तनाङ्गरागेषु विसर्जितानि'; 'स्तना-
ङ्गरागेषु विचर्चितानि'.

७२ ऋतुसंहारे
गुरूणि वासांसि विहाय तूर्णं
तनूनि लाक्षारसरञ्जितानि ।
सुगन्धिकालागुरुधूपितानि
धत्ते जनः काममदालसाङ्गः ॥ १३ ॥
गुरूणीति ॥ काममदेनालसमङ्गं यस्य स तथोक्तो जनो
गुरूणि वासांसि वस्त्राणि तूर्णं सत्वरं विहाय त्यक्त्वा तनूनि
सूक्ष्माणि लाक्षारसेन रञ्जितान्यारक्तानि सुगन्धिना सुरभिणा
कालागुरुणा कृष्णागुरुणा धूपितानि संजातधूपानि वासांसि
धत्ते दधातीत्यर्थः ॥
पुंस्कोकिलश्चूतरसासवेन
मत्तः प्रियां चुम्बति रागहृष्टः ।
कूजद्विरेफोऽप्ययमम्बुजस्थः
प्रियं प्रियायाः प्रकरोति चाटु ॥ १४ ॥
पुंस्कोकिलेति ॥ रागेण हृष्टो हर्षितश्चूतस्याम्रवृक्षस्य रस
एवासवस्तेन मत्तः प्रमत्तः पुंस्कोकिलः प्रियां चुम्बति । अ-
म्बुजे कमले तिष्ठति स तथोक्तः कूजन्गूञ्जन्नयं द्विरेफो भ्रम-
रोऽपि प्रियाया भ्रमर्याः प्रियमिष्टं चाटु प्रकरोतीत्यर्थः ॥
ताम्रप्रवालस्तवकावनम्रा-
श्चूतद्रुमाः पुष्पितचारुशाखाः ।
१. 'शिरांसि'. २. 'कामशरानुविद्धः'. ३. 'चूतरसेन मत्तः प्रिया-
मुखं चुम्बति सादरोऽयम्'. ४. 'गुञ्जन्'. ५. 'अधिकः प्रमत्तः'.
६. 'क्षिप्रम्'. ७. 'चाटुम्'; 'क्षिप्रम्'. ८. 'प्रवालनम्रास्तवकावतंसाः'.

षष्ठः सर्गः । ७३
कुर्वन्ति कामं¹ पवनावधूताः²
पर्युत्सुकं³ मानसमङ्गनानाम् ॥ १५ ॥
ताम्रेति ॥ ताम्राणामारक्तानां प्रवालानां पल्लवानां स्तब-
कैर्गुच्छैरवनम्रा नताः । पुष्पिताः संजातपुष्पा अत एव चारवः
सुन्दराः शाखा येषां ते तथोक्ताः । पवनेन वायुनावधूताः
कम्पिताश्चूतद्रुमा आम्रवृक्षा अङ्गनानां वनितानां मानसमन्तः-
करणं काममत्यन्तं पर्युत्सुकमुत्कण्ठितं कुर्वन्तीत्यर्थः ॥
आ मूलतो विद्रुमरागताम्रं⁴
सपल्लवाः⁵ पुष्पचयं दधानाः ।
कुर्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥ १६ ॥
आ मूलेति ॥ आ मूलतो मूलादारभ्य विद्रुमस्य प्रवा-
लस्य रागवत्ताम्रमारक्तं पुष्पचयं कुसुमसमूहं दधाना धारय-
न्तः सपल्लवाः पत्रसहिता अशोका वञ्जुलद्रुमा निरीक्ष्यमाणा
अवलोक्यमानाः सन्तो नवयौवनानां विप्रयुक्तानां तरुणीनां
चं⁶ हृदयं सशोकं कुर्वन्तीत्यर्थः ॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा
मन्दानिलाकुलितनम्रमृदुप्रवालाः ।
कुर्वन्ति कामिमनसां सहसोत्सुकत्वं
चूताभिरामकलिकाः⁷ समवेक्ष्यमाणाः ॥ १७॥
१. 'कान्ते'. २. 'पवनाभिभूताः'. ३. 'समुत्सुकम्'. ४. 'ताम्राः'.
५. 'सपल्लवम्'. ६. 'चारु'. ७. 'चूता विमुक्तकलिकाः'; 'बालातिमु-
क्तकलिकाः'.

७४ ऋतुसंहारे
मत्तेति ॥ मत्तैरुन्मत्तैर्द्विरेफैर्भ्रमरैः परिचुम्बितानि चारू-
णि सुन्दराणि पुष्पाणि यासां तास्तथोक्ताः । मन्दैरनतिप्रब-
लैरनिलैः पवनैराकुलिता आन्दोलिता नम्रा नम्रीभूता मृदवः
कोमलाश्च प्रवाला नवकिसलया यासां तास्तथोक्ताः । चूत-
स्याग्रस्याभिरामाः सुन्दराः कलिकासमवेक्ष्यमाणा अवलोक्य-
मानाः सत्यः कामिमनसां सहसाकस्मादुत्सुकत्वमौत्सुक्यं कुर्व-
न्तीत्यर्थः ॥ वसन्ततिलकावृत्तमेतत् । लक्षणं तूक्तम् ॥
१कान्तामुखद्युतिजुषामपि चोद्गतानां
शोभां परां कुरवकद्रुममञ्जरीणाम् ।
दृष्ट्वा प्रिये २सहृदयस्य भवेन्न कस्य
कंदर्पबाण३पतनव्यथितं हि चेतः ॥ १८ ॥
कान्तेति ॥ हे प्रिये, कान्तामुखस्य रमणीवदनस्य द्युतिं
कान्तिं जुषन्ते सेवन्त इति तेषां तथोक्तानाम् । अपि च
किंचोद्गतानां निर्गतानाम् । कुरवकद्रुमा अम्लानवृक्षास्तेषां
मञ्जरीणाम् । 'अम्लानस्तु महासहा । तत्र शोणे कुरबकः'
इत्यमरः । परामुत्कृष्टां शोभां दृष्ट्वावलोक्य कस्य सहृदयस्य
चेतोऽन्तःकरणं कंदर्पस्य कामस्य बाणानां शराणां पतनेन
निपातेन व्यथितं पीडितं न भवेत् । अपि तु सर्वस्यापी-
त्यर्थः । हिः पादपूरणार्थः ॥
आदीप्तवह्निसदृशैर्मरुतावधूतैः
सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
१. 'कान्तामुखद्युतिमनोहरमुद्धतानाम्'; 'कान्ताननद्युतिमुषामचि-
रोद्गतानाम्'; 'नानामुखद्युतिजुषामपि चोद्गतानाम्'. २. 'हि पथिकस्य'.
३. 'निकरैर्व्यथितम्'; 'पतनव्यथनम्'.

षष्ठः सर्गः । ७५
सद्यो वसन्तसमये हि¹ समाचितेयं
रक्तांशुका नववधूरिव भाति भूमिः ॥ १९ ॥
आदीप्तेति ॥ वसन्तसमये वसन्तकाले सर्वत्रेतस्ततः सद्यः
सत्वरमादीप्तेनाभिमुख्येन प्रज्वलितेन वह्निना सदृशैस्त-
थोक्तैः । आरक्तैरित्यर्थः । मरुता पवनेनावधूताः कम्पिता-
स्तैस्तथोक्तैः । कुसुमैः पुष्पैरावनम्रा नतास्तैस्तथोक्तैः किंशुक-
वनैः पलाशवृक्षसमुदायैः । ‘पलाशे किंशुकः पर्णी वातपोथः’
इत्यमरः ॥ समाचितेयं भूमिः पृथिवी रक्तांशुका रक्तवसना
नववधूरिव नूतनस्त्रीव भाति शोभत इत्यर्थः । हि निश्चितम् ॥
किं किंशुकैः शुकमुखच्छविभिर्न भिन्नं²
किं कर्णिकारकुसुमैर्न कृतं नु दग्धम् ।
यत्कोकिलः⁴ पुनरयं मधुरैर्वचोभि-
र्यूनां मनः सुवदनानिहितं निहन्ति ॥ २० ॥
किं किंशुकैरिति ॥ सुवदनायां रमणीयमुखायां निहितं
स्थापितं यूनां तरुणानां मनोऽन्तःकरणं शुकस्य कीरस्य मुख-
स्य वदनस्य छविरिव छविः कान्तिर्येषां तैस्तथोक्तैः किंशुकैः
पलाशकुसुमैः किं न भिन्नं न विदारितम् । कर्णिकारस्य द्रुमो-
त्पलस्य कुसुमैः पुष्पैश्च । नु निश्चयम् । किं दग्धं न कृतम् ।
यत्पुनरयं कोकिलो मधुरैर्वचोभिर्वचनैर्निहन्तीत्यर्थः ॥
१. ‘न समागतेयम्’; ‘समुपागते हि’. २. ‘दग्धम्’. ३. ‘कृतं मनो-
ज्ञम्’; ‘हृतं मनोज्ञैः’. ४. ‘कोकिलाः’. ५. ‘पुरुरवैः’, ‘पुनरमी’.
६. ‘सुवदने नियतं हरन्ति’.

७६ ऋतुसंहारे
पुंस्कोकिलैः कलवचोभिरुपात्तहर्षैः
कूजद्भिरुन्मदकलानि वेचांसि भृङ्गैः ।
लज्जान्वितं सविनयं हृदयं क्षणेन
पर्याकुलं कुलगृहेऽपि कृतं वधूनाम् ॥ २१ ॥
पुंस्कोकिलैरिति ॥ कलमव्यक्तमधुरं वचो वचनं येषां
तैस्तथोक्तैः । उपात्तः संप्राप्तो हर्षो येषां तैस्तथोक्तैः पुंस्को-
किलैः । उन्मदेनोत्कटमदेन कलान्यव्यक्तमधुराणि वचांसि
वचनानि कूजद्भिर्भृङ्गैर्भ्रमरैः । लज्जया त्रपयानन्वितं युक्तं स-
विनयं विनयसहितं वधूनां स्त्रीणां हृदयं कुलगृहेऽपि क्षणेन
क्षणमात्रेण पर्याकुलं व्याकुलं कृतमित्यर्थः ॥
आकम्पयन्कुसुमिताः सहकारशाखा
विस्तारयन्परभृतस्य वचांसि दिक्षु ।
वायुर्विवाति हृदयानि हरन्नैराणां
नीहारपातविगमात्सुँभगो वसन्ते ॥ २२ ॥
आकम्पयन्निति ॥ वसन्ते वसन्तकाले नीहारस्य हिमस्य
यः पातः पतनं तस्य विगमान्नाशात्सुभगः सुन्दरो वायुः
पवनः कुसुमिताः संजातकुसुमाः सहकारस्यातिसौरभस्याम्र-
वृक्षस्य शाखाः । ‘आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः’
इत्यमरः । आकम्पयन्सन् । दिक्षु परभृतस्य कोकिलस्य ।
‘वनप्रियः परभृतः कोकिलः पिकः’ इत्यमरः । वचांसि
वचनानि विस्तारयन् । नराणां पुंसां हृदयानि हरन्नपहर-
न्निवाति विशेषेण वहतीत्यर्थः ॥
१. ‘फलरसैः समुपात्तहर्षैः’. २. ‘विलोचनानि’; ‘वचांसि धीरम्’.
३. ‘वधूनाम्’. ४. ‘विमलः.’

षष्ठः सर्गः । ७७
कुन्दैः सविभ्रमवधूहसितावदातै-
रुद्द्योतितान्युपवनानि मनोहराणि ।
चित्तं मुनेरपि हरन्ति निवृत्तरागं
प्रागेव रागमलिनानि मनांसि यूनाम् ॥२३॥
कुन्दैरिति ॥ सविभ्रमाणि विभ्रमसहितानि यानि वधूह-
सितानि रमणीहास्यानि तानीवावदातानि धवलानि तैस्तथो-
क्तैः । 'अवदातः सितो गौरोऽवलक्षो धवलोऽर्जुनः' इत्यमरः ।
कुन्दैः कुन्दकुसुमैरुद्द्योतितानि दीप्तानि । शोभितानीति याव-
त् । मनोहराण्युपवनान्यारामाः । निवृत्तोऽनुरागो यस्मात्तत्तथो-
क्तं मुनेरपि चित्तं हरन्त्यपहरन्ति । प्रागेव मुनिचित्तापहर-
णात्प्रागेव रागेण मलिनानि यूनां मनांसि हरन्तीत्यर्थः ॥
आलम्बिहेमरसनाः स्तनसक्तहाराः
कंदर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
मासे मधौ मधुरकोकिलभृङ्गनादै-
र्नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥२४॥
आलम्बीति ॥ आलम्बिन्यो लम्बमाना हेमरसनाः सुव-
र्णमेखला यासां तास्तथोक्ताः । स्तनेषु कुचेषु सक्ताः संसक्ता
हारा यासां तास्तथोक्ताः । कंदर्पस्य मन्मथस्य दर्पेनाधिक्येन
शिथिलीकृता गात्रयष्ट्यः शरीरलता यासां तास्तथोक्ता नार्यः
स्त्रियो मधौ मासे वसन्ते नराणां हृदयं मधुरैः कोकिलाश्च
भृङ्गाश्च तेषां नादैर्विरुतैः सह प्रसभमत्यन्तं हरन्तीत्यर्थः ॥
१. 'प्रायेण रागचलितानि'; 'प्रागेव रागमखिलानि'. २. 'पुंसाम्'.
३. 'प्रालम्बि'. ४. 'रावैः'. ५. 'रामाः'.

६. षष्ठ सर्ग: वसन्त वर्णन (आम्र-मञ्जरी, कोकिल-कूजन व नव-जीवन)

७८ ऋतुसंहारे
नानामनोज्ञकुसुमद्रुमभूषितान्ता-
न्हृष्टान्यपुष्टनिनदाकुलसानुदेशान् ।
शैलेयजालपरिणद्धशिलातलौघा-
न्दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः ॥२५॥
नानेति ॥ सर्वो जनो लोको नाना नानाजातीया मनोज्ञाः
सुन्दरा ये कुसुमद्रुमाः पुष्पवृक्षास्तैर्भूषिताः शोभिता अन्ताः
प्रान्तभागा येषां तांस्तथोक्तान् । हृष्टा हर्षिता येऽन्यपुष्टाः
कोकिलास्तेषां निनदैः शब्दैराकुला व्याकुलाः सानुदेशाः
प्रस्थप्रदेशा येषां तांस्तथोक्तान् । ‘स्नुः प्रस्थः सानुरस्त्रियाम्’
इत्यमरः । शैलेयजालेन परिणद्धा व्याप्ताः शिलातलानामो-
घाः समुदाया येषां तांस्तथोक्तान्क्षितिभृतः पर्वतान्दृष्ट्वा मुदं
हर्षमेति प्राप्नोतीत्यर्थः ॥
नेत्रे निमीलयति रोदिति र्याति शोकं
घ्राणं करेण विरुणद्धि विरौति चोच्चैः ।
कान्तावियोगपरिखेदितचित्तवृत्ति-
र्दृष्ट्वाध्वगः कुसुमितान्सहकारवृक्षान् ॥२६॥
नेत्रे इति ॥ कान्ताया वियोगेन विरहेण परिखेदिता
खिन्ना चित्तवृत्तिर्यस्य स तथोक्तोऽध्वगः पथिकः कुसुमिता-
न्मञ्जरीयुतान्सहकारवृक्षानाम्रवृक्षान् । ‘आम्रश्चूतो रसालोऽसौ
सहकारोऽतिसौरभः’ इत्यमरः । दृष्ट्वावलोक्य नेत्रे लोचने
निमीलयति पिधत्ते । तद्दर्शनस्य संतापाधिक्यजनकत्वात् ।
१. ‘भूषिताग्रान्’; ‘भूषिताङ्गान्’. २. ‘संधिदेशान्’. ३. ‘तलान्तान्’;
‘गुहान्तान्’. ४. ‘समुपैति सर्वान्’. ५. ‘निमीलति; विरोदिति’.
६. ‘याति मोहम्’; ‘जातमोहान्’. ७. ‘प्राणान्’. ८. ‘नरः’.

षष्ठः सर्गः । ७९
रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात् ।
घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संता-
पाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति
शब्दं करोतीत्यर्थः ॥
समदमधुभराणां कोकिलानां च नादैः
कुसुमितसहकारैः कर्णिकारैश्च र॑म्यः ।
इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
तुदति कु॑सुममासो मन्मथोत्तेजनाय ॥२७॥
१. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.'
२७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते—
रुचिरकनककान्तीन्मुद्गतः पुष्पराशी-
न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरनिघातैर्मोहमेति प्रवासी ॥
परभृतकलगीतैर्ह्लादिभिः सद्द्वचांसि
स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।
करकिसलयकान्तिं पल्लवैर्विद्रुमाभै-
रुपहसति वसन्तः कामिनीनामिदानीम् ॥
कनककमलकान्तेराननैः पाण्डुगण्डै-
रुपरिनिहितहारैश्चन्दनाः स्तनार्नैः ।
मदजनितविलासैर्दृष्टिपातैर्मुनीन्द्रा-
न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे
नवकुरुबकपूर्णः केशपाशो मनोज्ञः ।
गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव
न भवति किमिदानीं योषितां मन्मथाय ॥

८० ऋतुसंहारे
समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः सम-
दा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः।
कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारै-
र्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे-
जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथय-
तीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥
आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
र्ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानलः परभृताँ यद्वन्दिनो लोकजि-
त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः ।
संबाधितं परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि शीधुपानं
सर्वं रसायनमिदं कुसुमायुधस्य ॥
छायां जनः समभिवाञ्छति पादपानां
नक्तं तथेच्छति पुनः किरणं सुधांशोः ।
हर्म्ये प्रयाति शयितुं सुखशीतलं च
कान्तां च गाढमुपगूहति शीतलत्वात् ॥
मलयपवनविद्धः कोकिलेनाभिरम्यः
सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः ।
विविधमधुपयूथैर्वेष्ट्यमानः समन्ता-
द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥

षष्ठः सर्गः । ८१
आम्रीति ॥ यस्याम्राम्रसंबन्धिनी मञ्जुला सुन्दरा म-
ञ्जरी वरशरा उत्कृष्टा वाणाः सदुत्तमं किंशुकं पलाशकुसुमं
धनुः । यस्यालिकुलं भ्रमरसमूहो ज्या गुणः । यस्य कल-
ङ्करहितं सितं श्वेतं छत्रं सितांशुश्चन्द्रः । यस्य मत्तेभो
मत्तगजो मलयानिलो मलयसंवन्धी पवनः । यस्य वन्दिनो
वैतालिकाः परभृतः कोकिलाः । लोकजिद्वसन्तेनान्वितो
युक्तः सोऽयं वितनुरनङ्गो वो युष्मभ्यं भद्रं कल्याणं वित-
रीतरीतु ददात्वित्यर्थः । शार्दूलविक्रीडितं वृत्तम् । तल्लक्षणं
तु वृत्तरत्नाकरे—‘सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्री-
डितम्’ इति ॥
पूजितो न जगदीश्वरो मया
नापि विश्वजननी सुसेविता ।
किंतु यत्प्रलपितं निजेच्छया
तत्र सद्गुरुकृपैव कारणम् ॥
वेदचन्द्रवसुभूमि—( १८१४ )—वत्सरे
माघसूर्यसितपञ्चमीतियौ ।
व्योमपुष्करनगै—( ७०० )—र्मिताकृतिः
पूरिता हि मणिरामशर्मणा ॥
इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया
समेतः कविश्रीकालिदासकविवराग्रणीकृतावृत्तुसंहारे महाकाव्ये
वसन्तवर्णनं नाम षष्ठः सर्गः ।

The provided image is completely blank (contains no text or content). Please provide a valid page image to transcribe.

महाकविश्रीकालिदासकृतं
शृङ्गारतिलकम् ।
बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
श्रोणीतीर्थशिला च नेत्रशफरी धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै-
र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः
प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
कंदर्पे हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥
इन्दीवरेण नयनं मुखमम्बुजेन
कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलैः स विधाय वेधा
कान्ते कथं घटितवानुपलेन चेतः ॥३॥
एको हि खञ्जनवरो नलिनीदलस्थो
दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
किं मे करिष्यति भवद्वदनारविन्दे
जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि-
त्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातपृथ्वीभुजः ।

[ २ ]
त्वद्वक्त्राम्बुजनेत्रखञ्जनयुगं पश्यन्ति ये ये जना-
स्तेते मन्मथबाणजालविकला मुग्धे किमित्यद्भुतम् ५
झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते
ग्रहणसमयवेला वर्तते शीतरश्मेः ।
तव मुखमकलङ्कं वीक्ष्य नूनं स राहु-
र्ग्रसति तव मुखेन्दुं पूर्णचन्द्रं विहाय ॥ ६ ॥
कस्तूरीवरपत्रभङ्गनिकरो भ्रष्टो न गण्डस्थले
नो लुप्तं सखि चन्दनं स्तनतटे धौतं न नेत्राञ्जनम् ।
रागो न स्खलितस्तवाधरपुटे ताम्बूलसंवर्धितः
किं रुष्टासि गजेन्द्रमत्तगमने किं वा शिशुस्ते पतिः ७
नाहं नो मम वल्लभश्च कुपितः सुप्तो न वा सुन्दरो
वृद्धो नो न च वालकः कृशांतनुर्न व्याधितो नो शठः।
मां दृष्ट्वा नवयौवनां शशिमुखीं कंदर्पबाणाहतो
मुक्तो दैत्यगुरुः प्रियेण पुरतः पश्चाद्गतो विह्वलः ८
समायाते कान्ते कथमपि च कालेन बहुना
कथाभिर्देशानां सखि रजनिरर्धं गतवती ।
ततो यावल्लीलाकलहकुपितास्मि प्रियतमे
सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥ ९ ॥
श्लाघ्यं नीरसकाष्ठताडनशतं श्लाघ्यः प्रचण्डातपः
क्लेशः श्लाघ्यतरः सुपङ्कनिचयैः श्लाघ्योऽतिदाहोऽनलैः
यत्कान्ताकुचपार्श्वबाहुलतिकाहिन्दोललीलासुखं
लब्धं कुम्भवर त्वया नहि सुखं दुःखैर्विना लभ्यते १०

[ ३ ]
किं किं वक्त्रमुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा न ते
वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्वञ्चसे ।
खिन्नाहं तव रात्रिजागरतया तामेव याहि प्रियां
निर्माल्योज्झितपुष्पदामनिकरे का षट्पदीनां रतिः॥
वाणिज्येन गतः स मे गृहपतिर्वार्त्तापि न श्रूयते
प्रातस्तज्जननी प्रसूततनया जामातृगेहं गता ।
बालाहं नवयौवना निशि कथं स्थातव्यमेकाकिनी
सायं संप्रति वर्तते पथिक हे स्थानान्तरं गम्यताम् १२
यामिन्येषा बहलजलदैर्बद्धभीमान्धकारा
निद्रां यातो मम पतिरसौ क्लेशितः कर्मदुःखैः ।
बाला चाहं खलु खलभयात्प्राप्तगाढप्रकम्पा
ग्रामश्चौरैरयमुपहतः पान्थ निद्रां जहीहि ॥ १३ ॥
क्व भ्रातश्चलितोऽसि वैद्यकगृहे किं तद्रुजां शान्तये
किं ते नास्ति सखे गृहे प्रियतमा सर्वं गदं हन्ति या ।
वातं तत्कुचकुम्भमर्दनवशात्पित्तं तु वक्रामृता-
च्छ्लेष्माणं विनिहन्ति हन्त सुरतव्यापारकेलिश्रमात्
यच्चन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते १५
चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते
माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।
आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते
हा हन्त प्रमदावियोगसमयः कल्पान्तकालायते १६

[ ४ ]
प्राणेश विज्ञप्तिरियं मदीया
तत्रैव नेया दिवसाः कियन्तः ।
संप्रत्ययोग्यस्थितिरेष देशः
करा हिमांशोरपि तापयन्ति ॥ १७ ॥
कल्याणि चन्दनरसैः परिषिच्य गात्रं
द्वित्राण्यहानि कथमप्यतिवाहयेथाः ।
अङ्के विधाय भवतीं परिरभ्य दोर्भ्यां
नेष्यामि सूर्यकिरणानपि शीतलत्वम् ॥१८॥
अन्तर्गता मदनवह्निशिखावली या
सा बाध्यते किमिह चन्दनपङ्कलेपैः ।
यत्कुम्भकारपचनोपरि पङ्कलेप-
स्तापाय केवलमसौ न च तापशान्त्यै ॥ १९ ॥
दृष्ट्वा यासां नयनसुषमामङ्ग वाराङ्गनानां
देशत्यागः परमकृतिभिः कृष्णसारैरकारि ।
तासामेय स्तनयुगजिता दस्तिनः सन्ति मत्ताः
प्रायो मूर्खाः परिभवविधौ नाभिमानं त्यजन्ति २०
गाढालिङ्गनपीडितस्तनतटं स्विद्यत्कपोलस्थलं
संदष्टाधरमुक्तसीत्कृतमभिभ्रान्तभ्रु नृत्यत्करम्।
चाटुप्रायवचोविचित्रमणितै र्भातं रुतैश्चाङ्कितं
वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम्
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
कान्तापयोधरयुगे रतिखेदखिन्नः ।

[ ५ ]
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ २२ ॥
हे रोहिणि त्वमसि रात्रिकरस्य भार्या
एनं निवारय पतिं सखि दुर्विनीतम् ।
जालान्तरेण मम वासगृहं प्रविश्य
श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ २३ ॥
अविदितसुखदुःखं निर्गुणं वस्तु किंचि-
जडमतिरिह कश्चिन्मोक्ष इत्याचचक्षे ।
मम तु मतमनङ्गस्मेरतारुण्यघूर्ण-
न्मदकलमदिराक्षीनीविमोक्षो हि मोक्षः ॥ २४ ॥
एनं पयोधरयुगं पतितं निरीक्ष्य
खेदं वृथा वहसि किं हरिणायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी
योऽत्युन्नतः प्रपततीति किमत्र चित्रम् ॥ २५ ॥
अयि मन्मथचूतमञ्जरि
श्रवणव्यायतचारुलोचने ।
अपहृत्य मनः क्व यासि त-
त्किमराजन्यकमत्र राजते ॥ २६ ॥
यदि कथमपि दैवाद्दुर्गमार्गे स्खलित्वा
विदलति तनुमध्या दीयतां नौ न दोषः ।
पृथुनिबिडकुचाभ्यां वर्त्म पश्यावुरुद्धं
कथयितुमिव नेत्रे कर्णमूले प्रयातः ॥ २७ ॥

[ ६ ]
कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
शोचामि यत्तव किमत्र विरोधमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
रुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २८ ॥
मानं मानिनि मुञ्च देवि दयिते मिथ्यावचः श्रूयते
कः कोपो निजसेवके यदि वचः सत्यं त्वया गृह्यते ।
दोर्भ्यां बन्धनमाशु दन्तदलनं पीनस्तनास्फालनं
दोषश्चेन्ममते कटाक्षविशिखैः शस्त्रैः प्रहारं कुरु ॥ २९ ॥
किं मां निरीक्षसि घटेन कटिस्थितेन
वक्रेण चारुपरिमीलितलोचनेन ।
अन्यं निरीक्ष पुरुषं तव भाग्ययोग्यं
नाहं घटाङ्कितकटिं प्रमदां भजामि ॥ ३० ॥
सत्यं ब्रवीषि मकरध्वजबाणपीड
नाहं त्वदर्पितदृशा परिचिन्तयामि ।
दासोऽद्य मे विघटितस्तव तुल्यरूपः
सोऽयं भवेन्नहि भवेदिति मे वितर्कः ॥ ३१ ॥
इति महाकविश्रीकालिदासकृतं शृङ्गारतिलकं समाप्तम् ॥