सामग्री पर जाएँ
सर्वकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 83, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 83

८० ऋतुसंहारे
समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः सम-
दा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः।
कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारै-
र्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे-
जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथय-
तीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥
आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
र्ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानलः परभृताँ यद्वन्दिनो लोकजि-
त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८
आकम्पितानि हृदयानि मनस्विनीनां
वातैः प्रफुल्लसहकारकृताधिवासैः ।
संबाधितं परभृतस्य मदाकुलस्य
श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
मत्तालियूथविरुतं निशि शीधुपानं
सर्वं रसायनमिदं कुसुमायुधस्य ॥
छायां जनः समभिवाञ्छति पादपानां
नक्तं तथेच्छति पुनः किरणं सुधांशोः ।
हर्म्ये प्रयाति शयितुं सुखशीतलं च
कान्तां च गाढमुपगूहति शीतलत्वात् ॥
मलयपवनविद्धः कोकिलेनाभिरम्यः
सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः ।
विविधमधुपयूथैर्वेष्ट्यमानः समन्ता-
द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥