ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 86, कुल 91 में से
संदर्भ में पढ़ेंमहाकविश्रीकालिदासकृतं
शृङ्गारतिलकम् ।
बाहू द्वौ च मृणालमास्यकमलं लावण्यलीलाजलं
श्रोणीतीर्थशिला च नेत्रशफरी धम्मिल्लशैवालकम् ।
कान्तायाः स्तनचक्रवाकयुगलं कंदर्पबाणानलै-
र्दग्धानामवगाहनाय विधिना रम्यं सरो निर्मितम्॥
आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः
प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः
कंदर्पे हरनेत्रदीधितिरियं प्राणेश्वरे मन्मथः ॥२॥
इन्दीवरेण नयनं मुखमम्बुजेन
कुन्देन दन्तमधरं नवपल्लवेन ।
अङ्गानि चम्पकदलैः स विधाय वेधा
कान्ते कथं घटितवानुपलेन चेतः ॥३॥
एको हि खञ्जनवरो नलिनीदलस्थो
दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
किं मे करिष्यति भवद्वदनारविन्दे
जानामि नो नयनखञ्जनयुग्ममेतत् ॥४॥
ये ये खञ्जनमेकमेव कमले पश्यन्ति दैवात्क्वचि-
त्ते सर्वे कवयो भवन्ति सुतरां प्रख्यातपृथ्वीभुजः ।