रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पञ्चदशः पटलः । ३४७
समांशभक्षणं तं तु¹ शुद्धसूतेन कारयेत् ।
भ्रमयेत् पूर्व्वयोगेन² रसेन्द्रं खोटतां³ नयेत् ॥ १७३ ॥
भवेत् संकलिकायोगात् वेधो दशगुणोत्तरः⁴ ॥ १७४ ॥
पलाशबीजनिर्यासं कोकिलोक्षत्तवारुणि⁵ ।
शूलिनीरससंयुक्तं⁶ पेषयेत् सैन्धवान्वितम् ॥ १७५ ॥
पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ॥ १७६ ॥
मूषायां निगलो देवि लेपितः शिवशासनात्⁷ ।
रसस्य परिणामाद्य महदग्निस्थितो⁸ भवेत् ॥ १७७ ॥
अभ्रकस्य तु पत्रेषु वज्रार्कक्षीरसिञ्चना⁹ ।
ताप्येन लोहकिट्टेन¹⁰ सिकतामृन्मयेन च ॥ १७८ ॥
(1) B and K have समांश भक्षण ततु. D has समांसं भक्ष्यान्तं तु. (2)
भ्रमें तमप्रयोगेन, a variant in D. (3) रसेन षोडतां is an incorrect
reading in D. My reads erroneously रसेन्द्रो खोटतां. (4) B reads
दशगुणोत्तरं, which is incorrect. (5) कोकिलीत्तरवारुणी, a variant
in D. (6) शूलीरसेन संयुक्त, a variant in D. (7) B reads
सौवसासन. K reads विश्वसासनात्. Both the texts are incorrect. This
hemistich and the next one are not found in D and My. (8) B
has परीणामाद्या माहदग्निस्थिती. K reads महादग्निस्थितो. Both the texts are
incorrect. The text adopted above is also gram. inc. , महाग्निस्थितो is.
the proper term, which mars the metre. (9) D reads पचिणा
instead of सिञ्चना. K reads वज्रका and My reads वज्रांक instead of वज्रार्क
(10) B reads तापैन D reads ताप्येन लोहकठिन, which seems to be.
incorrect.
३४८ रसार्णवे
एभिस्तु निगलैर्बद्धः¹ पारदोऽयो² महारसः ।
नातिक्रामति मर्यादां वेलामिव महोदधिः³ ॥ १७९ ॥
तैलार्कक्षीरवाराही⁴-लाङ्गल्या⁵ निगलोत्तमः ।
काकविट् ब्रह्मबीजानि लाङ्गली निगलो वरः ॥ १८० ॥
वाकुची ब्रह्मबीजानि⁶ कर्कटाक्षीणि सुन्दरि ।
सामुद्रं साम्बरं⁷ चैव लवणं निगलोत्तमः ॥ १८१ ॥
क्षुद्रार्कसंभवं क्षीरं ब्रह्मबीजानि⁸ कोकिला ।
करकस्य तु बीजानि लोष्टाष्टांशेन मर्दयेत् ॥ १८२ ॥
निगलोऽन्यस्तु योजिङ्गा-मूलानि क्षीरजोऽपरः ।
वाकुची ब्रह्मबीजानि⁹ क्षुद्रार्कक्षीरसम्भवम्¹⁰ ।
ज्वालिनी काकविष्ठा च¹¹ प्रशस्तो निगलोत्तमः ॥ १८३ ॥
लवणं टङ्कणं क्षारं शिला तालकगन्धकम्¹² ।
तथाऽम्लवेतसं ताप्यं¹³ हिङ्गुलं समभागिकम् ।
क्षुद्रार्कपयसा युक्तं पेषयेन्निगलोत्तमम्¹⁴ ॥ १८४ ॥
(1) निगलैबधः is the incorrect reading in D. (2) D reads
पारदोऽयं. (3) D reads महोदधेः, which is gram. inc. (4) D
and K have वाराहि. My has ताडारि. (5) B and My read लाङ्गल्या.
(6) B reads काकची ब्रह्मबीजानि. The portion from कर्कटाक्षीणि upto ब्रह्म-
बीजानि is wanting in D. (7) My reads सैम्भवं. (8) K reads
शश्वरीजानि. (9) B has वाकुचित्रं ब्रह्मबीजानि. (10) D has सम्भवेः,
which is not proper. (11) D reads तु. K reads ज्वालिचि, which
is incorrect. (12) B reads तारकगन्धकं. (13) D has an absurd
variant ताम्रान् प्रवैत समाप्य.. तिक्ताम्ले वेतसं ताप्यं, a variant in My. (14)
D reads निगलोत्तमः.
१८५ ॥ Visual Line 4:द्वितीयं⁴ गोलकं वक्ष्ये पिष्टिकासम्भ⁵मुत्तमम् ॥ १८६ ॥ Visual Line 5:द्विपदौरजमूत्राणि सैन्धवाभ्रं च गुग्गुलुः⁶ । Visual Line 6:पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा ॥ १८७ ॥ Visual Line 7:तुषकर्षाग्निना भूमौ⁷ मृदुस्वेदं तु कारयेत् । Visual Line 8:अहोरात्रं त्रिरात्रं वा⁸ पूर्व्ववत् खोटतां⁹ नयेत् ॥ १८८ ॥ Visual Line 9:वाकुची ब्रह्मबीजानि¹⁰ गगनं विमलं मक्षिम्¹¹ । Visual Line 10:सौवर्चलं¹² सैन्धवञ्च टङ्कणं गुग्गुलुं तथा¹³ ॥ १८९ ॥ Visual Line 11:द्विपदौरजसा मूत्रं¹⁴ सुश्लक्ष्णं तच्च¹⁵ मर्दयेत् । Visual Line 12:पिष्टीं संवेष्ट्य¹⁶ कल्केन पूर्व्ववत् खोटतां¹⁷ नयेत् ॥ १९० ॥ (Divider rule) Visual Line 13:(1) परिवेष्टयेद्देवा, an incomplete charana in
३५० रसार्णवे
विषबीजं¹ ब्रह्मबीजं बीजानि कनकस्य च ।
मूलानि यवचिञ्चायाः² लाङ्गली चेन्द्रवारुणी ॥ १८१ ॥
कोकिलाक्षंस्नुहीक्षीरं³ सैन्धवाभ्रकगुग्गुलु ।
पिष्टीं संवेष्ट्य⁴ कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८२ ॥
लाङ्गली ब्रह्मबीजानि विष्ठा काकस्य गुग्गुलुः ।
श्वेताश्कमारमूलानि मूलं कनकवारुणी ॥ १८३ ॥
तैलं सैन्धवसंयुक्तं मर्दयेत्तद्विचक्षणः ।
पिष्टीं संवेष्ट्य कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८४ ॥
वाकुची ब्रह्मबीजानि जीरकद्वयगुग्गुलु ।
सैन्धवाभ्रं कुलीरास्थि टङ्कणं ज्वलिनीरसः⁵ ॥ १८५ ॥
पिष्टीं संवेष्ट्य कल्केन मृदा तु पुमरुष्टधा ।
तुष⁶कर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ १८६ ॥
अहोरात्रं त्रिरात्रं वा⁷ रसेन्द्रं खोटतां⁸ नयेत् ।
दशसंकलिकायोगात्⁹ शब्दवेधी महारसः¹⁰ ॥ १८७ ॥
(1) B reads वीषबीजं. D reads व्याघ्रीबीज. (2) D reads यव
चिंचाया. K reads मुखानि यवचिंचाया. Both are incorrect. (3)
K has कोकिलाक्षस्नुहीक्षीरं, which is incorrect. My has बुद्धिचीर. (4)
पञ्चदशः पटलः । ३५१
शङ्करस्य द्विभागन्तु पारदस्य त्रयं¹ तथा ।
पिष्टिकां कारयेत्तेन तप्तखल्ले तु काञ्जिके² ॥ १६८ ॥
पूर्व्ववन्निगलोपेतं³ खोटं कृत्वा तु वेधयेत् ।
दशसंकलिकायोगात्⁴ शब्दवेधी⁵ महारसः ॥ १६६ ॥
बद्धसूतकराजेन्द्र शिलागन्धकमाक्षिकैः ।
कान्तपाषाणचूर्णेन भूलताभिः समन्वितः ॥ २०० ॥
ध्मातो मूषागतश्चैव⁶ रसोऽयं⁷ सुरवन्दिते ।
रसांश्चोपरसान् लोहान्⁸ रत्नानि च मणींस्तथा⁹ ।
प्रकाश्यमूषागर्भे च¹⁰ ग्रसते वडवानलः¹¹ ॥ २०१ ॥
माक्षिकं दरदञ्चैव गन्धकं च मनःशिला¹² ।
(1) पारदत्रितयं is the reading in D. (2) तदा खल्ले तु काञ्जिकम्,
a variant in D. (3) पूर्व्वनिगलोपेतं, an incomplete variant in D.
(4) दशमण्डलिकायोगात्, a variant in M. (5) D and My read शत-
वेधी. The ślokas 198th and 199th are not found in B and K. (6)
B has मूषागते चैव. D has मूषागतो नैव. M has ध्माते मूषागतेनैव. My has
मूषागतेनैव. All the texts seem to be incorrect. (7) B reads
दृढोऽयं. (8) K reads चैव. (9) D reads रत्नमणींस्तथा. K
and My read मणींस्तथा. M reads मणींस्तथा. (10) प्रकाश्यमूषया गर्भे,
a variant in B. प्रकाश्यमूषाया गर्भो, a variant in D. प्रकाश्यमुखगर्भे च, a
variant in K. प्रकाश्यमृषामध्यगतो, a variant in M. प्रकाश्यमूषाया गर्भे, a vari-
ant in My. All the texts are more or less incorrect. (11) ग्रसते
चतुरङ्गुलोन्नतः, a variant in D, which is senseless. My reads वडवानिलः.
(12) D has समं शिलाम्, which is incorrect.
३५२ रसार्णवे
राजावर्त्तं प्रवालं च कङ्कुष्ठं तुत्थकं¹ तथा ॥ २०२ ॥
पीतरक्तगवेर्भाथ्यं कङ्गुणी²तैलमिश्रितम् ।
खोटं इष्टिकया पक्वं³ द्रुतं हि नलिके क्षिपेत्⁴ ॥ २०३ ॥
इच्छां तु सिकतां⁵ दत्त्वा त्रिरात्रमपि धामयेत्⁶ ॥ २०४ ॥
क्षारक्षालेन तत् स्विन्नं⁷ दोलायां घृतमेव च⁸ ।
एवं संरञ्जितः⁹ सूतः शरीरधनकृद्¹⁰भवेत् ॥ २०५ ॥
उद्घाटः परमः¹¹ प्रोक्तः सर्व्वकर्म्महितः परः¹² ।
द्रवौ पतङ्गी¹³ दुर्द्भावी दुर्म्भेली नैव जायते ।
वर्णान्यत्वञ्च कुरुते¹⁴ स्फोटयेद्वरवर्णिनि¹⁵ ॥ २०६ ॥
(1) D reads कुष्ठं तुथकं, which seems to be incorrect. (2) B
reads कंगुणि. M reads कुङ्गुणी. My reads कंगुणी. (3) M has भिष्टी-
कषापक्वं, which seems to be incorrect. (4) द्रुतं हि नलिकां पचेत्,
a variant in B. द्रुतं हि नलिकं क्षिपेत्, a variant in D. द्रुतं हि नलिका क्षिपेत्,
a variant in K. द्रुतं ही नालिकां पचेत्, a variant in M. द्रुतं हि नलिकां
पचेत्, a variant in My. (5) D reads सिक्रातां, which is incorrect.
M reads आच्छां तु सिकतां. (6) D and K read धारयेत्. (7) D
reads तस्विन्नं, which seems to be incorrect. (8) B reads डोलायां.
M and My read डोलायां द्रुतमेव च. (9) B reads सुरञ्जितः. K
reads संरचितः. M reads स गदितः. My reads सलब्धितः. (10)
B reads शरीरदृढकृद्. (11) M reads उत्खोटः. My reads उद्घाटः
पंचमः. (12) B and K read परं. (13) M reads घिवौ पतङ्गी.
(14) D reads वर्ण्यं लचं प्रकुरुते, which appears to be incorrect. (15)
स्फटयेद्वरवर्चिनी, a variant in B. D reads वरवर्धिनी, which is incorrect.
K has स्फोटवद्वरवर्विनि. My has खोटयेद्वरवर्चिनि.
पञ्चदशः पटलः । ३५३
बन्धमेवं¹ द्रुतं कृत्वा कुरुते वज्रजारणम्² ।
तसमाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥ २०७ ॥
इति श्रीपार्व्वतीपरमेश्वरसंवादे³
रसार्णवे रससंहितायां
वज्रबन्धो नाम⁴
पञ्चदशः पटलः ॥ १५ ॥
(1) B reads बद्धमेवं. D and My read बद्धमेव. M reads बन्धमेतत्,
which is grammatically incorrect. (2) कुरु वज्राणि जारणं, a variant
in K. कूरि वस्त्राणि जारणम्, an incorrect variant in M. My reads कुरु
वज्राधिजारणं. (3) B, M and My want this line. (4) D, M
and My have पिष्टिसन्धानं नाम. K has पिष्टिसत्त्वमहारसोपरसलोहवधो नाम
45
िकां."
Line :
"दोलायन्त्रे¹⁵ सुरेशाति स्वेदयेद्दिवसत्रयम्।"
Wait, look at "सुरेशाति" vs "सुरेशानि":
Look at the third/fourth letters:
सु - रे - शा - नि
Wait! Is it 'नि'?
Look at 'नि': न with short i: नि!
Wait, but is it 'सुरेशानि' (sureśāni) = vocative for Parvati (सुरेशानी / सुरेशाने / सुरेशानि)?
Yes, Shiva is speaking to Devi: "सुरेशानि" (O Sureshāni / ruler of gods)!
Wait, let's look at the letter:
'शा' or 'श'?
It has 'श' and 'ा' (aa): शा. Then 'नि'.
"सुरेशानि"!
Yes, Shiva addresses Parvati as "सुरेशानि"! That makes perfect sense.
Line :
"अनेन क्रमयोगेण मृतः सूतो¹⁶ भवेद्द्रुतः¹⁷ ॥ ५ ॥"
Now let's check the footnotes:
Line :
(1) M has देव्युवाच. (2) B reads शुद्धस्य. (3) D reads
Line :
रसस्रजस्य, which is incorrect. (4) B reads erroneously द्रावणमोश्वरि.
Line :
(5) B and D
षोडशः पटलः । ३५५
चार्द्रकं मूलकं शुण्ठी लसुनं हिङ्गु माक्षिकम् ।
त्रिक्षारं पञ्चलवणं कांची कासीसगन्धकम्¹ ।
अम्लवर्ग²समायुक्तं गोलकं कारयेत् प्रिये ॥ ६ ॥
तस्य मध्यगता पिष्टी³ दोलायां स्वेदनेन तु⁴ ।
द्रवते नात्र सन्देहो द्रुतं जारयते रसम्⁵ ॥ ७ ॥
बद्धं महारसं⁶ देवि द्रावयेत् पादयोगतः ।
द्रुतपादे ततो देयं⁷ द्रावयित्वा पुनर्द्रवेत्⁸ ॥ ८ ॥
एवं बद्धं द्रुतं कृत्वा समद्वित्रिगुणादिकम्⁹ ।
तस्मिन् द्रुते जारणा च¹⁰ कर्त्तव्या कर्मवेदिभिः ॥ ६ ॥
कुकुटीकन्दमार्जारी¹¹ उच्चटापोखरी तथा¹² ।
(1) कांचिकोशीसगन्धकम्, a variant in D. कांचीकोशीसगन्धक, a variant
in K. काचीमांसीसगन्धकम्, a variant in M. (2) B and My read
चाग्लवर्ग. M reads वम्लवर्ग. (3) तस्य मध्यगतं पिष्ट, a variant in D.
तस्य मध्ये गतां पिष्टिं, a variant in K. My has an incomplete charana—
तस्य ता पिष्टि. (4) D reads दोलायम्ब स्वेदयेन्न तु, which is incorrect.
डोलायां खादनेन तु, a variant in M, which is partly correct. My reads
डोलायां. (5) D reads रसे. M reads रसं:. Both are incorrect.
(6) D reads महारसे, which is incorrect. We do not find the 8th, 9th
and 10th ślokas in My. (7) द्रुत पादसतो देयः, a variant in D. द्रुत-
पारदरोधाय, a variant in M. (8) M reads पुनर्दमेत्, which is incor-
rect. (9) K reads समं द्विविगुणादिकम्. M reads सप्तद्विविगुणाधिकम्.
(10) M reads चारणा च. (11) कर्कटीकन्दमार्जाय, a variant in D.
कुकुटीकन्द्यार्त्ताव, a variant in K. (12) सर्पाय मामरी तथा. a variant in D.
खपाय माप्तरो तथा, a variant in K.
३५६ रसार्णवे
क्षीरकञ्चुकया युक्तं¹ खेदितं च द्रुतं² रसम् ॥ १० ॥
द्रुतं दोलादिसंभिन्नं³ कुक्कुटाद्यै⁴र्दिनत्रयम् ।
आर्द्रकाद्यैर्द्रुतञ्चैव⁵ तत्सूतं स्वेदतां⁶ व्रजेत् ॥ ११ ॥
वज्रं⁷ द्रुतं यथा⁸ सूतं जारयेत्⁹ सुरवन्दिते ।
ईश्वरस्तस्य¹⁰ विज्ञेयो देवदेवो¹¹ जगद्गुरुः¹² ॥ १२ ॥
विधाय खोटं यत्किञ्चित्¹³ मृतकोत्थापिते रसे¹⁴ ।
षड्गुणं हेम जार्यं तु सारयेत् सारणात्रयम्¹⁵ ॥ १३ ॥
क्रोशांशेन¹⁶ तु तेनैव मुखवेधं¹⁷ प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥ १४ ॥
पुनस्तत्तु¹⁸ रसेन्द्रस्य वज्ररत्नानि जारयेत्¹⁹ ।
(1) क्षीर कञ्चुकया युक्त, a variant in D. (2) सेवितं च द्रुतरसः, a
variant in D. M reads मृत. (3) D has दोलःसंसित कर्क. K has
दोलादिसंमित--, an incomplete charana. M and My read दोलादिसंभिन्नं.
(4) B reads कक्रमाद्या. D reads कर्कटाद्यै. K reads कर्कटाद्यै. (5)
B and K read आर्द्रकादि. D reads आर्द्रकादि धृते चैव, which seems to be
incorrect. This charana and the next nine ones are not found in My.
(6) B and M read स्वच्छतां. D and K read खेदतां. (7) B and
M read वज्र (8) K reads यदा. (9) D reads पारदः, which
seems to be incorrect (10) M reads ईश्वरस्तं तु. (11) M
reads देवदेव्या. (12) D reads erroneously देवदेवात्र भवद्गुरुम्.
(13) D reads त पङ्क्ति, which is incorrect. (14) मृतकोत्थापितो रसः,
a variant in M. (15) B reads सारणात्रये. (16) D has वधा-
शेन, which is senseless. (17) D reads शुल्वं वन्धं. (18) B has
पुनस्तन्तु D has पुनस्त. K has पुनस्तस्य. (19) D reads कारयेत्.'
षोडशः पटलः । ३५७
प्रकाशमूषागर्भे च दृढाग्नौ जरते क्षणात्¹ ॥ १५ ॥
उन्नटा²मीननयना सर्पाक्षी³रक्तचित्रकैः ।
एतैः रत्नं द्रवेत्याशु⁴ नीलमणिक्यमौक्तिकम्⁵ ॥ १६ ॥
विष्णुकान्ता च चक्राङ्गा⁶ कुमारी गविचिञ्चिका⁷ ।
वज्राणि पद्मरागाश्च⁸ राजावर्त्तादिसन्यकम्⁹ ।
ओषधीनां द्रवं दत्वा तप्ते¹⁰ सूते विनिक्षिपेत् ॥ १७ ॥
पश्चाद्रत्नानि देयानि द्रवन्ति सलिलं यथा ॥ १८ ॥
दोलायां¹¹ खेदयेद्देवि विडयोगेन¹² जारयेत् ।
प्रकाशमूषागर्भे च दृढाग्नौ जारयेत् क्षणात् ॥ १८ ॥
शङ्खेनैवार्कदुग्धेन¹³ पुटेन शतवावितम् ।
तत्तोजं¹⁴ क्षारसंयुक्तमम्लवर्गेण¹⁵ भावयेत्¹⁶ ॥ २० ॥
(1) D and K read जायते क्रमात्. (2) D reads उन्नसे, which is
incorrect. (3) D has साप्यांजी, which is unintelligible. K has
सर्पाक्षि. (4) एते रत्नप्रवन्त्यांसु, an incorrect variant in D. M reads
द्रुवन्त्याशु, which is incorrect. (5) तिलमाणिक्यमौक्तिकं, a variant in K,
which is not correct. (6) D reads चक्राङ्गा. M reads चक्राङ्गी. (7)
D has पञ्चचिंचिका. (8) D and K read पद्मराग च. (9) K
reads सःस्ककां, which is incorrect. (10) D reads तथा. K reads
ततः. (11) D reads दोलायन्त्रे, which destroys the metre. (12)
D reads वीरयोगेन, which is incorrect. (13) K reads शनेवार्कदुग्धेन,
which destroys the metre. (14) B reads तडिङ्. D reads तडिज्ञ.
M reads तत्पिच्छौ. (15) B and M read क्षारलयवर्गै. (16) B
and M read भावितम्.
३५८ रसार्णवे
विड्हिङ्गुलसंयुक्त¹-राजावर्त्तप्रवालकैः² ।
गन्धकः शिलया युक्तः³ खोटानां जारणे हितः⁴ ॥ २१ ॥
मूषालेपादिसंयोगात्⁵ वह्नहेम्नो हि जारणम्⁶ ।
तत्क्षेपाज्जायते देवि⁷ विड्यॊगेन जारणम्⁸ ॥ २२ ॥
पश्चाद्धेम प्रदातव्यं षट्त्रिंशांशद्रवेण च⁹ ॥ २३ ॥
ततो वै सूतराजस्य जायते रश्मिमण्डलम्¹⁰ ।
तिर्यगूर्ध्वमधोव्यापि¹¹तेजःपुञ्जेन पूरितम् ॥ २४ ॥
इत्थं शुद्धो भवेत् सूतः¹² चिन्तामणिरिव¹³ स्वयम् ।
सदेवैः पूज्यते सिद्धैः¹⁴ द्वितीय इव शङ्करः¹⁵ ॥ २५ ॥
(1) विड़्हिङ्गुलसंयुक्तं, a variant in M. (2) राजावर्त्तं प्रवालकैः, a variant in D. राजावर्त्त प्रवालकम्, a variant in M. (3)
षोडशः पटलः । ३५८
लोकानुग्रहकर्त्ता च भुक्तिमुक्तिप्रदायकः ।
जारयेच्च महानीलं तत्त्वसंख्याक्रमेण¹ तु ॥ २६ ॥
भ्रमते दक्षिणावर्त्तस्तदासौ खेचरो रसः² ।
वेधयेत् सर्व्वलोहानि भारसंख्यानि³ पार्व्वति ॥ २७ ॥
एवं जीर्णस्य सूतस्य शृणु कापालिरञ्जनम् ॥ २८ ॥⁴
शुल्वपत्रपलैकं तु⁵ पलार्द्धं⁶ गन्धकस्य च ।
टङ्कणं कर्षमेकं तु कर्षैकां रसकज्जलीम्⁷ ॥ २९ ॥
माक्षिकं⁸ कर्षमेकं तु सर्व्वमेकत्र कारयेत्⁹ ।
अन्धमूषागतं ध्मातं खोटो¹⁰ भवति तत्क्षणात् ॥ ३० ॥
तं खोटं सूक्ष्मचूर्णन्तु चणकाम्लेन¹¹ मर्दयेत् ।
आरण्य¹²गोमयेनैव पुटान्¹³ दद्याच्चतुर्दश ॥ ३१ ॥
इन्द्रगोपकसंकाशं जायते नात्र संशयः ॥ ३२ ॥
तच्चूर्णं मधुना युक्तं शुद्धतारं तु रञ्जयेत् ।
(१) D reads ततः संख्याक्रमेण. (२) तदासौ खेचरगो रसः, a variant
in B. सूदासङ्गो खेचरो रसः, a variant in M, which is incorrect. (३)
M reads क्षारसंख्यानि, which is incorrect. (४) After this hemistich
we find in B अतः परं प्रवक्ष्यामि शृणु कापालिरंधनं ; in D अतः पर कजापालनी ;
in K अतः परं कपालिनि. (५) D has शुल्यपवकपौकं तु, which is incor-
rect. K has शुल्यपत्रं पलैकं तु. (६) B reads पलैकं. (७) कर्षैकं
रसकज्जलीं, a variant in B. कर्षैकं रसकज्जलं, a variant in D. कर्षैका रस-
कज्जली, a variant in M. (८) B reads माचीकं. (९) M reads
मर्दयेत्. (१०) M reads खोट्टी. (११) B and K read दद्युम्नाम्लेन.
M reads विङ्गाम्लेन. (१२) D reads चरण्य. (१३) B, K and
M read पुटं.
३६० रसार्णवे
रञ्जयेत् त्रीणि वाराणि¹ शोभनं हेम जायते² ॥ ३३ ॥
एष कापालिको योगः सर्व्वलोहानि रञ्जयेत् ।
रञ्जयेद्वङ्गसूतं च³ वज्रवञ्च⁴ रञ्जयेत् ॥ ३४ ॥
आरचूर्णपलैकं वा⁵ मृतनागपलं तु वा⁶ ।
वङ्गाभ्रकपलैकं वा⁷ तीक्ष्णचूर्णपलं तु वा⁸ ॥ ३५ ॥
त्रिशूल्खं नागवङ्गौ वा⁹ एकैकांशसमन्वितम्¹⁰ ।
त्रिशूल्खं गैरिकैकैक¹¹मथवा तीक्ष्णमाक्षिकम् ॥ ३६ ॥
अथवा तीक्ष्णभागौ द्वौ त्रयो घोषा नवोरगाः¹² ।
ताम्रस्य नव भागाः स्युरारभागचतुष्टयम्¹³ ॥ ३७ ॥
अथवा देवदेवेशि माक्षिकस्य पलद्वयम् ।
मयूरग्रीवतुत्थैकं¹⁴ मृतनागपलं तथा ॥ ३८ ॥
(1) त्रीणि वाराणि is grammatically incorrect. This hemistich and
the next one are not found in D (2) K reads जायन्ते, which is not
correct. (3) M reads रजयदेवङ्गसूननेन. (4) D and M read
वज्रवङ्गं च. (5) D reads च. भारचूर्णं पलैकञ्च, a variant in K. M
reads तु. (6) मृतनागं पलं तु च, a variant in D. K reads च. (7)
D reads तु. वंगाभ्रकं पलैक च, a variant in K. (8) B reads च वा.
D reads तीक्ष्णचूर्णं ये तु वा, which is incorrect. तीक्ष्णचूर्णं पलं तु वा, a variant
in K. (9) M has नागवङ्ग वा. (10) D reads समन्वितः. K
reads एकैकं तु समन्वितं. (11) विशूल्कं गैरकं चैव, a variant in D. त्रिशुल्खं
गैरिकैकं वा, a variant in M. (12) D reads त्रयो दोषा. M reads
नवोरसाः. Both are incorrect. (13) D has तारभागचतुष्टयम्. K
has सारभागचतुष्टयं. (14) K reads मयूरुग्रीवं तत्थैव, which is incorrect.
This hemistich and the next two are not found in M.
षोडशः पटलः । ३६१
अथवा वङ्गनागांशमेकैकं सुरवन्दिते¹ ।
तीक्ष्णद्वयं त्रिशुल्बं च हेमताप्यचतुष्टयम्² ॥ ३९ ॥
यद्वा³ विमलवैक्रान्तवङ्गनागानि रीतिका⁴ ।
सशुल्बाप्यथवा⁵ हेम विमलं च भुजङ्गमः ॥ ४० ॥
एषामन्यतमं देवि पूर्व्वकल्पसमन्वितम् ।
अन्धमूषागतं⁶ स्नातं खोटो⁷ भवति तत्क्षणात् ॥ ४१ ॥
पुटयेत् पूर्व्वयोगेन रञ्जयेत् पूर्व्वयोगतः ॥ ४२ ॥
नागशुल्बं⁸ तथा तीक्ष्णं कापालिकम⁹मुत्तमम् ।
तेनैव रञ्जयेत्तारं सप्तवारं पुनः पुनः ॥ ४३ ॥
तेनैव रञ्जयेद्धेम सप्तवारं पुनः पुनः ।
पक्वबीजमिदं¹⁰ श्रेष्ठं सर्व्वकन्द्रेषु¹¹ योजयेत् ॥ ४४ ॥
वङ्कतीक्ष्णं कपाली च¹² शुक्लं तारं तु रञ्जयेत्¹³ ।
रञ्जयेत् सर्व्वलोहानि यावत् कुङ्कुमसंनिभम् ॥ ४५ ॥
(1) D reads सुरसुन्दरि. (2) This charana and the next two
are not found in K. (3) B reads तारं. (4) विमलवैक्रान्तं
वङ्गनागामृतीत्यका:, a variant in D. (5) B reads सप्तशुल्बायवा. M reads
सप्तश्राव्यथवा. (6) D and K read अंधमूखागतं, which is not correct.
(7) M reads खोटौ. (8) B reads नागं शुल्यं. (9) K reads
erroneously कायाल्नम. M reads कापालीक्रम. (10) M reads सत्वबौज-
मिदं. (11) B and K read सर्व्वकर्मणि. D reads सर्व्वकर्म्माणि. (12)
वंगतीच्णकपाली तु, a variant in B. वङ्गं तीक्ष्णं कपालिं च, a variant in D.
वंकं तीक्ष्णाभ्रकं वाली तु, a variant in M. (13) D has शुक्लतारं तु योजयेत्.
M reads शुक्लतारं तु रञ्जयेत्.
46
३६२ रसार्णवे
वैक्रान्तं नागकापाली¹ शुद्धतारं तु रञ्जयेत्² ।
रञ्जयेत् सह हेमा तु³ भवेत्⁴ कुङ्कुमसंविभम् ॥ ४६ ॥
रक्ततैल⁵निषिक्तं तु लोह⁶संक्रान्तिनाशनम् ।
आरकापालिचूर्णन्तु शुद्धतारं तु रञ्जयेत्⁷ ॥ ४७ ॥
विमलेन च नागेन⁸ कापाली परमेश्वरि ।
रञ्जयेत् सर्व्वलोहानि तारं हेम विशेषतः ॥ ४८ ॥
रञ्जयेत् त्रीणि वाराणि⁹ जायते हेम शोभनम् ।
तेनैव रञ्जयेद्धेम¹⁰ सप्तवारं पुनः पुनः ॥ ४९ ॥
लवणोद¹¹निषिक्तन्तु लोहसंक्रान्तिनाशनम् ।
वङ्गनागं¹² तथा कान्तं शुल्बं तीक्ष्णं च माक्षिकम्¹³ ॥५०॥
रविनागं कपाली तु¹⁴ शुद्धतारन्तु रञ्जयेत् ।
रञ्जयेत् त्रीणि वाराणि¹⁵ तारारिष्टं तु जायते ।
तेनैव रञ्जयेद्धेम¹⁶ सप्तवाराणि¹⁷ पार्व्वति ॥ ५१ ॥
(1) This hemistich and the next one are not found in B. D reads
नागकापालिं. M reads नागकापालं. (2) D has योजयेत्, which seems
to be incorrect. (3) M reads सितद्धेमन्तु. (4) K reads यावत्.
(5) D has रक्ततैले. (6) D reads लोहं. (7) This hemistich
is not found in D and M. (8) विमूलेन च नागेन, an incorrect
variant in D. (9) This is grammatically incorrect, yet found
in all the texts. (10) तथा वेधकरोद्दिम, an incorrect variant in B.
(11) B reads लवणांडु. (12) B reads वंगं नागं. (13) लाख्वी
तीक्ष्णगाक्षिकम्, a variant in D. (14) रवि नागकपालिं च, a variant in D.
(15) This is grammatically incorrect. (16) B reads जायते हेम.
(17) This is grammatically incorrect.
षोडशः पटलः । ३६३
रक्तवर्गेणसिक्तं च लोहसंक्रान्तिनाशनम् ।
वङ्गनागं¹ तथा शुल्खं कापाली² सुरवन्दिते ॥ ५२ ॥
गुड़ेन नीलकाचेन³ तुत्याम्ललवणेन च ।
विषपित्ताङ्ग⁴पिष्टेन हन्यात् संक्रान्तिकालिकाम् ॥ ५३ ॥
गैरिकं गन्धकं सूतं तिलतैलेन पेषयेत् ।⁵
लेपयेत्तारपत्राणि दत्त्वा शुल्वकपालिकाम् ॥ ५४ ॥
जर्ध्वाधस्त्वन्धमूषायां⁶ शुभ्रं⁷ हेमदलं भवेत् ॥ ५५ ॥
भागैकं हरितालस्य भागैकं गैरिकस्य च⁸ ।
माक्षिक⁹कल्कभागैकं चत्वारो गोलकस्य च ।
अन्धमूषागतं ध्मातं हेम रञ्जयति क्षणात् ॥ ५६ ॥
अनेन क्रमयोगेण चतुर्वारं तु रञ्जयेत् ।
पक्वबीजमिदं श्रेष्ठं बालार्कसदृशप्रभम् ॥ ५७ ॥
तेन वर्णद्वयोत्कर्षः षोडशांशेन जायते ॥ ५८ ॥
रक्ततैले निषिक्तं च लोहसंक्रान्तिनाशनम् ।
(1) D and K read वङ्गं नाग. (2) D reads कपाखि, which is incorrect.
(3) गुडेन पीतकाचेव, a variant in B. गुह्येन तिलकाचेन, a variant in K. विडि च गये यडकाचेन, an incorrect variant in M.
(4) B reads विषसिद्धार्य. This hemistich and the next one are not found in D.
(5) Here ends the MS. M. in the middle part of the 16th Patala.
(6) जर्ध्वाधषांधमूषायां, a variant in B. D and K read मूखायां, which is incorrect.
(7) K reads उम, which is incorrect. (8) B has an incomplete charana—भा गैरिकस्य च. (9) B and K read माक्षिकं.
३६४ रसाणवे
रसकस्य तु कापालो¹ चन्द्रार्कं तु शतांशतः² ।
पद्ममूषागतं ध्मातं शोभनं हेम जायते ॥ ५६ ॥
शुद्धनागपलैकं तु कर्षैकं द्रुतसूतकम्³ ।
सारयेत् सारणायन्त्रे खोटो भवति सूतकः ॥ ६० ॥
खोटस्य पलमेकं तु माक्षिकस्य पलं तथा ।
एकीकृत्वाय संमर्द्य कनकस्य रसेन च ।
पाचयेन्मृन्मये पात्रे⁴ भवेत् कुङ्कुमसंनिभम्⁵ ॥ ६१ ॥
पूर्व्वकल्केन संयुक्तं खोटं कुर्य्यात् पूर्व्वतः⁶ ।
एतत् कापालिकायोगात्⁷ चूर्णंमम्लेन⁸ मर्द्दयेत् ॥ ६२ ॥
पुटयेत् पूर्व्वयोगेन रञ्जयेत् पूर्व्वयोगतः ॥ ६३ ॥
येन केन⁹ रसं बद्ध्वा हेमगन्धाग्निलोरगैः ।
क्रमेण वेष्टितं ध्मातं शतवाराणि¹⁰ वेधयेत् ॥ ६४ ॥
पादौ¹¹ तु बद्धसूतं च वङ्गं¹² तारं मनःशिला ।
क्रमेण वेष्टयेत् ध्मातं शतवेधो न संशयः ॥ ६५ ॥
(1) B reads कपाली. K reads कापालि. (2) D reads शतांशयोः.
K reads शतांशतः. (3) This charana and the next one are not found
in K. (4) B reads भांडे. (5) भवेत कंकसंनिभ, a variant
in B. (6) B reads पूर्ववत्. (7) एतत् कापालिकं चूर्णं, a variant
in B. D reads कपालिकायोगात्. (8) B reads मज्जनाम्लेन. (9) K
reads तोगकेन, which is an error of the scribe. (10) B reads हम-
वाराणि. D reads शतं वाराणि. (11) This hemistich and the next
two are not found in D. K reads घादी, which is incorrect. (12)
K reads वह, which is incorrect.
षोडशः पटलः । ३६५
अनेन कुरुते तारं कनकेन तु काञ्चनम् ॥ ६६ ॥
सूतो मृतो हन्ति समेन वङ्गं¹
तेनैव हन्याद्² द्विगुणं च तारम्³ ।
तारं चतुःषष्टिरविं करोति
हेमापि तद्वत् फणिहेमयोगात्⁴ ॥ ६७ ॥
मृतरसपलमेकं⁵ पञ्चनागं च दद्यात्
कनकपलविमिश्रं⁶ ध्रातसूतावशेषम्⁷ ।
पुनरपि शतवारान्नेवमेव⁸ क्रमेण
भवति च⁹ रसराजः कोटिवेधी क्रमेण ॥ ६८ ॥
मृतसूतपलैकं तु¹⁰ द्वे पले¹¹ दरदस्य च ।
चतुःपलं गन्धकस्य कङ्कुष्ठस्य¹² पलत्रयम् ।
शिलायाः पञ्चकं चैव गोपित्तेन तु मर्दयेत् ॥ ६९ ॥
(1) D has an absurd charana—आद्यो चतुर्थे सूतेन मृतं हेति समेन तं वङ्गं.
(2) B reads
३६६ रसार्णवे
पलैकनागपत्राणि¹ तेन कल्केन² लेपयेत् ।
मारयेत् पुटयोगेन नागोऽयं म्रियते³ क्षणात् ॥ ७० ॥
वटिकां कारयेत्पश्चात् षष्टिं त्रीणि शतानि च ।
एकैकां वटिकां पश्चाद्गोपित्तेन तु मर्द्दयेत् ॥ ७१ ॥
अनेन क्रमयोगेण शतं दद्यात् पुटानि च⁴ ।
नागोऽयं जायते देवि सिन्दूरारुणसन्निभः⁵ ॥ ७२ ॥
शतांशेन च तेनैव⁶ तारे वेधं⁷ प्रदापयेत् ।
तत्तारं जायते देवि देवाभरणमुत्तमम्⁸ ॥ ७३ ॥
मृतनागपलैकं तु⁹ हेमपत्रं तु तत्समम् ।
मारयेत् पुटयोगेन म्रियते हेम¹⁰ तत्क्षणात् ॥ ७४ ॥
तद्भस्मनागैकयुतं¹¹ हेमपत्रं तु तत्समम् ।
मारयेत् पुटयोगेन म्रियते हेम तत्क्षणात् ॥ ७५ ॥
अनेन क्रमयोगेण त्रीणि वाराणि¹² कारयेत् ।
सहस्रांशेन तेनैव तारे वेधं¹³ प्रदापयेत् ॥ ७६ ॥
(1) This hemistich and the next one are put in B after the 71st
śloka. पलैकां नागपत्राणि, a variant in K. (2) D has तिलकल्केन.
(3) D reads म्रयते, which is grammatically incorrect. (4) शतं दद्यात्
पुटं प्रिये, a variant in B. (5) B reads सप्रभः. K reads संप्रभः. (6)
D reads तैलेन. (7) D reads तारवेधं. (8) B reads देवाभरण-
भूषणं. This hemistich is not found in D. (9) मृतनागं पलैकन्तु, a
variant in D. (10) D reads देवि, which is not accurate. K reads
श्रीयते, which is incorrect. (11) तद्भस्मभागैकयुतं, a variant in B.
D and K read युक्तं. (12) This is grammatically incorrect. (13)
D reads तारवेध.