रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 383, कुल 558 में से
संदर्भ में पढ़ें३६० रसार्णवे
रञ्जयेत् त्रीणि वाराणि¹ शोभनं हेम जायते² ॥ ३३ ॥
एष कापालिको योगः सर्व्वलोहानि रञ्जयेत् ।
रञ्जयेद्वङ्गसूतं च³ वज्रवञ्च⁴ रञ्जयेत् ॥ ३४ ॥
आरचूर्णपलैकं वा⁵ मृतनागपलं तु वा⁶ ।
वङ्गाभ्रकपलैकं वा⁷ तीक्ष्णचूर्णपलं तु वा⁸ ॥ ३५ ॥
त्रिशूल्खं नागवङ्गौ वा⁹ एकैकांशसमन्वितम्¹⁰ ।
त्रिशूल्खं गैरिकैकैक¹¹मथवा तीक्ष्णमाक्षिकम् ॥ ३६ ॥
अथवा तीक्ष्णभागौ द्वौ त्रयो घोषा नवोरगाः¹² ।
ताम्रस्य नव भागाः स्युरारभागचतुष्टयम्¹³ ॥ ३७ ॥
अथवा देवदेवेशि माक्षिकस्य पलद्वयम् ।
मयूरग्रीवतुत्थैकं¹⁴ मृतनागपलं तथा ॥ ३८ ॥
(1) त्रीणि वाराणि is grammatically incorrect. This hemistich and
the next one are not found in D (2) K reads जायन्ते, which is not
correct. (3) M reads रजयदेवङ्गसूननेन. (4) D and M read
वज्रवङ्गं च. (5) D reads च. भारचूर्णं पलैकञ्च, a variant in K. M
reads तु. (6) मृतनागं पलं तु च, a variant in D. K reads च. (7)
D reads तु. वंगाभ्रकं पलैक च, a variant in K. (8) B reads च वा.
D reads तीक्ष्णचूर्णं ये तु वा, which is incorrect. तीक्ष्णचूर्णं पलं तु वा, a variant
in K. (9) M has नागवङ्ग वा. (10) D reads समन्वितः. K
reads एकैकं तु समन्वितं. (11) विशूल्कं गैरकं चैव, a variant in D. त्रिशुल्खं
गैरिकैकं वा, a variant in M. (12) D reads त्रयो दोषा. M reads
नवोरसाः. Both are incorrect. (13) D has तारभागचतुष्टयम्. K
has सारभागचतुष्टयं. (14) K reads मयूरुग्रीवं तत्थैव, which is incorrect.
This hemistich and the next two are not found in M.