रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
DevanagariHindipublished558 पृष्ठ
पृष्ठ 373, कुल 558 में से
संदर्भ में पढ़ेंपृष्ठ 373३५० रसार्णवे
३५० रसार्णवे
विषबीजं¹ ब्रह्मबीजं बीजानि कनकस्य च ।
मूलानि यवचिञ्चायाः² लाङ्गली चेन्द्रवारुणी ॥ १८१ ॥
कोकिलाक्षंस्नुहीक्षीरं³ सैन्धवाभ्रकगुग्गुलु ।
पिष्टीं संवेष्ट्य⁴ कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८२ ॥
लाङ्गली ब्रह्मबीजानि विष्ठा काकस्य गुग्गुलुः ।
श्वेताश्कमारमूलानि मूलं कनकवारुणी ॥ १८३ ॥
तैलं सैन्धवसंयुक्तं मर्दयेत्तद्विचक्षणः ।
पिष्टीं संवेष्ट्य कल्केन पूर्व्ववत् खोटतां नयेत् ॥ १८४ ॥
वाकुची ब्रह्मबीजानि जीरकद्वयगुग्गुलु ।
सैन्धवाभ्रं कुलीरास्थि टङ्कणं ज्वलिनीरसः⁵ ॥ १८५ ॥
पिष्टीं संवेष्ट्य कल्केन मृदा तु पुमरुष्टधा ।
तुष⁶कर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ॥ १८६ ॥
अहोरात्रं त्रिरात्रं वा⁷ रसेन्द्रं खोटतां⁸ नयेत् ।
दशसंकलिकायोगात्⁹ शब्दवेधी महारसः¹⁰ ॥ १८७ ॥
(1) B reads वीषबीजं. D reads व्याघ्रीबीज. (2) D reads यव
चिंचाया. K reads मुखानि यवचिंचाया. Both are incorrect. (3)
K has कोकिलाक्षस्नुहीक्षीरं, which is incorrect. My has बुद्धिचीर. (4)