रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 387, कुल 558 में से
संदर्भ में पढ़ें३६४ रसाणवे
रसकस्य तु कापालो¹ चन्द्रार्कं तु शतांशतः² ।
पद्ममूषागतं ध्मातं शोभनं हेम जायते ॥ ५६ ॥
शुद्धनागपलैकं तु कर्षैकं द्रुतसूतकम्³ ।
सारयेत् सारणायन्त्रे खोटो भवति सूतकः ॥ ६० ॥
खोटस्य पलमेकं तु माक्षिकस्य पलं तथा ।
एकीकृत्वाय संमर्द्य कनकस्य रसेन च ।
पाचयेन्मृन्मये पात्रे⁴ भवेत् कुङ्कुमसंनिभम्⁵ ॥ ६१ ॥
पूर्व्वकल्केन संयुक्तं खोटं कुर्य्यात् पूर्व्वतः⁶ ।
एतत् कापालिकायोगात्⁷ चूर्णंमम्लेन⁸ मर्द्दयेत् ॥ ६२ ॥
पुटयेत् पूर्व्वयोगेन रञ्जयेत् पूर्व्वयोगतः ॥ ६३ ॥
येन केन⁹ रसं बद्ध्वा हेमगन्धाग्निलोरगैः ।
क्रमेण वेष्टितं ध्मातं शतवाराणि¹⁰ वेधयेत् ॥ ६४ ॥
पादौ¹¹ तु बद्धसूतं च वङ्गं¹² तारं मनःशिला ।
क्रमेण वेष्टयेत् ध्मातं शतवेधो न संशयः ॥ ६५ ॥
(1) B reads कपाली. K reads कापालि. (2) D reads शतांशयोः.
K reads शतांशतः. (3) This charana and the next one are not found
in K. (4) B reads भांडे. (5) भवेत कंकसंनिभ, a variant
in B. (6) B reads पूर्ववत्. (7) एतत् कापालिकं चूर्णं, a variant
in B. D reads कपालिकायोगात्. (8) B reads मज्जनाम्लेन. (9) K
reads तोगकेन, which is an error of the scribe. (10) B reads हम-
वाराणि. D reads शतं वाराणि. (11) This hemistich and the next
two are not found in D. K reads घादी, which is incorrect. (12)
K reads वह, which is incorrect.