रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 384, कुल 558 में से
संदर्भ में पढ़ेंषोडशः पटलः । ३६१
अथवा वङ्गनागांशमेकैकं सुरवन्दिते¹ ।
तीक्ष्णद्वयं त्रिशुल्बं च हेमताप्यचतुष्टयम्² ॥ ३९ ॥
यद्वा³ विमलवैक्रान्तवङ्गनागानि रीतिका⁴ ।
सशुल्बाप्यथवा⁵ हेम विमलं च भुजङ्गमः ॥ ४० ॥
एषामन्यतमं देवि पूर्व्वकल्पसमन्वितम् ।
अन्धमूषागतं⁶ स्नातं खोटो⁷ भवति तत्क्षणात् ॥ ४१ ॥
पुटयेत् पूर्व्वयोगेन रञ्जयेत् पूर्व्वयोगतः ॥ ४२ ॥
नागशुल्बं⁸ तथा तीक्ष्णं कापालिकम⁹मुत्तमम् ।
तेनैव रञ्जयेत्तारं सप्तवारं पुनः पुनः ॥ ४३ ॥
तेनैव रञ्जयेद्धेम सप्तवारं पुनः पुनः ।
पक्वबीजमिदं¹⁰ श्रेष्ठं सर्व्वकन्द्रेषु¹¹ योजयेत् ॥ ४४ ॥
वङ्कतीक्ष्णं कपाली च¹² शुक्लं तारं तु रञ्जयेत्¹³ ।
रञ्जयेत् सर्व्वलोहानि यावत् कुङ्कुमसंनिभम् ॥ ४५ ॥
(1) D reads सुरसुन्दरि. (2) This charana and the next two
are not found in K. (3) B reads तारं. (4) विमलवैक्रान्तं
वङ्गनागामृतीत्यका:, a variant in D. (5) B reads सप्तशुल्बायवा. M reads
सप्तश्राव्यथवा. (6) D and K read अंधमूखागतं, which is not correct.
(7) M reads खोटौ. (8) B reads नागं शुल्यं. (9) K reads
erroneously कायाल्नम. M reads कापालीक्रम. (10) M reads सत्वबौज-
मिदं. (11) B and K read सर्व्वकर्मणि. D reads सर्व्वकर्म्माणि. (12)
वंगतीच्णकपाली तु, a variant in B. वङ्गं तीक्ष्णं कपालिं च, a variant in D.
वंकं तीक्ष्णाभ्रकं वाली तु, a variant in M. (13) D has शुक्लतारं तु योजयेत्.
M reads शुक्लतारं तु रञ्जयेत्.
46