पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
८३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
इतरे गुणाः फलसाम्यापेक्षयोपसंहर्तव्याः ॥ १४ ॥
-: ☼ :-
८. अधिकरणम् ॥
( १ ) उपसंहारानुपसंहारप्रमाणमाह—
सू—ॐ ॥ आध्यानाय प्रयोजनाभावात् ॥ ॐ ॥ १५ ॥
आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ।
फलसाम्यमपेक्ष्येत्यर्थः । यद्वा—फलस्योपासनसाम्यमपेक्ष्येत्यर्थः । न
च भविष्यत्फलानिर्णयः, गुरूपदेशेन तन्निर्णयोपपत्तेरिति भावः । अ
नेन सूत्रे निर्णयोपपत्तेरिति शेषः । तस्य फलनिर्णयोपपत्तेः योग्यता
निर्णयोपपत्तेरिति द्वेधार्थ उक्तो भवति ॥ ७ ॥
॥ इति इतराधिकरणम् ॥
-: ☼ :-
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे सर्वगुणोपसंहारानुपसंहारयोः कर्तव्यत्वे प्रमा
णमुच्यते । मानाभावान्नोषसंहारानुपसंहारौ कर्तव्यौ इति प्राप्तं सि
द्धान्तयन्नधिकरणतात्पर्यमाह—उपसंहारेति ॥ सर्वगुणोपसंहारानुप
संहारयोः कर्तव्यत्वे प्रमाणमाह अस्मिन्नधिकरणे सूत्रकृदित्यर्थः । अ
नुपसंहारशब्दः तत्त्वप्रदीपरीत्याऽल्पगुणोपसंहारपरः । तत्र प्रथममुप
संहारप्रमाणप्रदर्शनार्थं सूत्रं पठति—आध्यानायेति । अत्र प्रियशिर
स्त्वादीत्यतो हिशब्दमनुवर्त्य सर्वविद्यासु सर्वे गुणा उच्यन्तेऽत इति
चोपस्कृत्य आध्यानायेति हेत्वंशं व्याचष्टे—आध्यानार्थं हीति । अत्र
तत्त्वप्रदीपे आदद्या धिया ध्यानार्थं हि सर्वे गुणा उच्यन्त इत्याद्योऽर्थ उ-
क्तः । अस्यार्थः—धिया अशेषान् गुणानादद्योपसंहृत्येति । स एव टी
कायामशेषेत्यादिना विवृतः । तथा च 'हि' यस्मात् 'आध्यानार्थं'
अशेषगुणोपसंहारपूर्वकध्यानार्थं सर्वविद्यासु सर्वे गुणा उच्यन्ते इत्य
र्थः । अस्य तस्मात् सर्वविद्यातो गुणोपसंहारः कार्य इति उपसंहार
सूत्रोक्तसाध्येनान्वयः । सर्वविद्यानां भगवद्गुणभिधायकत्वं च सर्वा
सां भगवत्संबन्धित्वात् सिद्धमिति न तदसिद्धिरिति भावः । गुणाभिधा
नस्य ध्यानार्थत्वं कुत इत्यतः तत्र हेतुत्वेन प्रयोजनाभावादित्यंशं व्या
चष्टे—प्रयोजनान्तरेति । ध्यानं विनाऽन्यस्य प्रयोजनस्याभावादित्य
र्थः । ध्यानलक्षणप्रयोजनसत्त्वादसिद्धिवारणाय—अन्तरेति । विप्रकी
[ अधि - ८. सू - १५. ] दीपिकासहितम्. ८३५
( २ ) ज्ञानार्थमथ ध्यानार्थं गुणानां समुदीरणा ।
ज्ञातव्याश्चैव ध्यातव्या गुणास्सर्वेऽप्यतो हरेः ॥
नान्यत्प्रयोजनं ज्ञानाद्ध्यानात्कर्मकृतेरपि ।
श्रवणाच्चाथ पाठाद्वा विद्याभिः किञ्चिदिष्यते ॥
इति परमसंहितायाम् ॥
( ३ ) गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः ॥
नान्यत्प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥
( ४ ) ज्ञानध्यानसमायोगाद्गुणानां सर्वशः फलम् ।
र्णगुणोपसंहारफलं तु मोक्षानन्दातिशय इति टीकायामुक्तम् ॥
( २ ) गुणाभिधानस्य ध्यानार्थत्वे स्मृतिं चाह—ज्ञानार्थमिति ॥
अथशब्दः कर्मणां चेत्यर्थान्तरे । तस्या इति शेषः । तथा च यतः ‘त
स्याः' उदीरणायाः विद्याभिर्गुणाद्युक्तेः विद्याभिधेयानां हरेर्गुणानां प
रोक्षज्ञानात् ध्यानात् हरेः कर्मकरणात् शब्दग्रहणरूपाच्छ्रवणात् शब्दा
भ्यासरूपात्पाठात् अन्यत् किञ्चित्प्रयोजनं 'नेष्यते' नोपेयते, अतो
‘विद्याभिः' ब्रह्मकर्मोभयविद्याभिर्गुणानां कर्मणां च ‘समुदीरणा'
अभिधानं ज्ञानार्थं तद्द्वारा ध्यानार्थमेव भवेत् । उपलक्षणमेतत् । कर्म
करणार्थं चेत्यपि द्रष्टव्यम् । यतः सोदीरणा ध्यानाद्यर्थमेव, न प्रयोज
नान्तराय, अतस्तस्याः प्रयोजनवत्त्वाय सर्वेऽपि हरेर्गुणाः ज्ञातव्या
ध्यातव्याश्चैवेत्यर्थः । कर्माणि च कर्तव्यान्येवेत्यपि द्रष्टव्यम् । तथा च
अनया स्मृत्या गुणाभिधानमाध्यानायैव भवति, सप्रयोजनस्य सतः
प्रयोजनान्तराभावादिति सूत्रकृदुक्तानुमानं ज्ञापितं भवतीति ध्येयम् ।
‘इति परमसंहितायां' तदाख्यग्रन्थे सूत्रकृदुक्तं कथितमिति शेषः ॥
( ३ ) ननु तथाऽपि प्रयोजनान्तराभावादिति हेतुरसिद्धः । स्मृतौ श्र
वणपाठयोरपि गुणाभिधानप्रयोजनत्वेनोक्तत्वादित्यत आह— गुणा
इति ॥ यतो गुणानां ‘कथने' कथनात् ज्ञानध्यानाभ्यामन्यत् मुख्यं
प्रयोजनं न भवेदेव, अतस्तस्य तत्प्रयोजनवत्त्वाय सर्वे हरेर्गुणा ज्ञात
व्या ध्यातव्याश्चेत्यर्थः । तथा च श्रवणादेः परोक्षज्ञानध्यानार्थत्वेन त
त्साधनत्वान्न तद्गुणाभिधानस्य मुख्यं प्रयोजनमिति हेतुत्वेनाभिमत
स्य मुख्यप्रयोजनान्तराभावस्य नासिद्धिरिति भावः ॥
( ४ ) ननु तथाऽपि ध्यानान्यस्य परोक्षज्ञानस्य गुणाभिधानप्रयो
जनत्वात्प्रयोजनान्तराभावादित्यसिद्धमित्यत आह—ज्ञानेति ॥ ‘सर्व
८३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् ॥
इति बृहत्तन्त्रे ॥ १५ ॥
(५) सू—ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥
'आत्मेत्येवोपासीत' (बृ. ३-४-७.) इत्यनुपसंहारे प्र
माणम् ॥ १६ ॥
शः 'सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' ज्ञानध्यानयोरुपयोग्यु
पयोग्यभावेन संमेलनान्मुख्यं फलमपरोक्षज्ञानादिकं भवेत्, नान्येन
परोक्षज्ञानमात्रेणेत्यर्थः । तथा च ध्यानपूर्वभाविज्ञानमपि ध्यानोपयो
गितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भा
वः । यद्यपि श्रवणादेस्तत्त्वनिश्चयद्वारा जनलोकादिफलकस्य गुणा
भिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तरा
भावहेतोरसिद्धिरेव । तथाऽपि मोक्षाख्यमहाफलसाधनापरोक्षज्ञानसा
धनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्यं प्रयोजनमिति
ज्ञानमेव प्रयोजनं वाच्यम् । तथा च श्रवणादेरपरोक्षज्ञानसाधनतत्त्व
ज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासि
द्धिरिति भावः । इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः।
अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव
लिङ्गतया प्रमाणमित्युक्तं भवति ॥
(५) एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थ
यत्सूत्रं पठित्वा व्याचष्टे—आत्मशब्दाच्चेति॥ चोऽप्यर्थः । तथा च 'आ
त्मशब्दात्' तद्घटितश्रुतेः अनुपसंहारोऽपि सिद्धयतीति सूत्रार्थमभि
प्रेत्य श्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—आत्मेति । इति वाक्यमिति
शेषः । अनुपसंहार इति । उपासनाक्षिताल्पगुणोपसंहारे प्रमाणमित्य
र्थः । अन्यथा गुणान्तरव्यावृत्तिपूर्वकं आत्मत्वोपासनस्यैवात्र विधा
नादसङ्गतेः । न च अवधारणस्य 'अन्यथात्वम्' इति सूत्रे अयोगव्य
वच्छेदकत्वस्योक्तत्वात् कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वा
च्यम् । उपसंहारानुपसंहारवद्ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोग
व्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधि
कारिभेदेनाविरोधात् ॥ ८ ॥
॥ इति आख्यानाधिकरणम् ॥
[अधि - ९. सू - १७.] दीपिकासहितम्. ८३७
९. अधिकरणम् ॥
(१) सू- ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ ॐ ॥ १७ ॥
न च 'आनन्दादयः प्रधानस्य' इत्युक्तिविरोधः । य-
तः 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-१.) 'विज्ञानमान-
न्दं ब्रह्म' (बृ. ५-९-२८.) इतिवदेवात्मशब्दगृहीतिः ।
'अत्र ह्येते सर्व एकीभवन्ति' (बृ. ३-४-७.) इत्युत्तरात् ।
(२) आनन्दानुभवत्वाच्च निर्दोषत्वाच्च भण्यते ।
९. अधिकरणम् ॥
(१) अत्राधिकरणे उपासनायामानन्दादिचतुर्गुणनियमः समर्थ्य-
ते । 'आत्मेत्येवोपासीत' इति सावधारणश्रुतेरात्मत्वमेव सर्वोपास्यं
न त्वानन्दादयोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति - आ-
त्मेति ॥ अत्रात्मपदं शब्दपरमित्याशयेन आत्मगृहीतिरित्युक्तहेतोरपे-
क्षितं साध्यमध्याहृत्य दर्शयति - न चेति । इत्युक्तीत्यावर्तते । तथा
च 'आनन्दादयः प्रधानस्य' इत्युक्तेः 'आत्मेत्येवोपासीत' इति सा-
वधारणोक्तिविरोधो नैवेत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन इतरवदि-
ति दृष्टान्तविवरणपूर्वकमात्मगृहीतिरित्येतद्योजयति - यत इति ।
'सत्यं ज्ञानम्' इति तैत्तिरीये 'विज्ञानमानन्दं ब्रह्म' इति बृहदारण्य-
के । इतिवदिति । इत्यादिवाक्येषु यथा अनेकेषां सत्यत्वज्ञानानन्दादी-
नां ग्रहणम्, तथा आत्मशब्देनापि सत्यज्ञानानन्दादीनां 'गृहीतिः' ग्र-
हणं भवेत् । 'आनन्दानुभवत्वाच्च' इति वचनादात्मशब्दस्यापि सत्य-
ज्ञानानन्दादिग्राहकत्वात् । यथोक्तं तत्त्वप्रदीपे - यथेतरेषु विज्ञानमा-
नन्दं ब्रह्मेत्यादिषु वचनेषु नैकगुणगृहीतिः तद्वदितरयुक्तत्वेनैवात्मश-
ब्दगृहीतिरानन्दादयो गुणा आत्मशब्देन विवक्षिता इत्यर्थ इति । कुतो
ऽयमात्मशब्दः सत्त्वानन्दाद्यभिधायको, न स्वामित्वमात्रस्येत्याशङ्क्यो-
त्तरत्वेनोत्तरादित्यंशं व्याचष्टे - अत्रेति । उत्तरादिति । बृहदारण्यके
'आत्मा' इति विधेरुत्तरत्र श्रुताद्वाक्यादित्यर्थः । व्याख्यातमेतत्सर्वंवे-
दान्तनये ॥
(२) आत्मशब्दो न स्वामित्वमात्रं वक्ति, किन्तु सत्त्वानन्दादीन-
पीत्युक्तार्थे स्मृतिं चाह - आनन्देति ॥ ईश्वरो वेदवादिभिर्न केवलं
स्वामित्वादात्मेति भण्यते, किन्तु 'आनन्दरूपत्वात्' अनुभवरूपत्वा-
च्च निर्दोषत्वात् नित्यत्वाच्च 'भण्यते' उच्यत इत्यर्थः । निर्दोषत्वाद्वि
८३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
नित्यत्वाच्च तथाऽऽत्मेति वेदवादिभिरीश्वरः ॥ इति
बृहत्तन्त्रे ॥ १७ ॥
——
१०. अधिकरणम् ॥
( १ ) सू- ॐ ॥ अन्वयादिति चेत्स्यादवधारणात् ॥ ॐ ॥ १८ ॥
सर्वगुणानामन्वय आत्मशब्दे भवति । ' आप्तव्याप्तेरा
त्मत्वाद्'त्यनेन सत्त्वमात्मशब्दार्थ इति सूचितम् । चशब्दः समुच्चये ।
बृहत्तन्त्रे उक्तमिति शेषः ॥ ९ ॥
॥ इति आत्मगृहीत्यधिकरणम् ॥
——
१०. अधिकरणम् ॥
( १ ) अत्राधिकरणे आत्मशब्दस्य पूर्वोक्तमनुपसंहारमानत्वमाक्षि
प्य समाधीयते । पूर्वपक्षस्य सूत्र एवोक्तत्वात्तदुपन्यस्य पूर्वपक्षांशं
तावद्व्याचष्टे - अन्वयादिति ॥ अत्रेत्थं योजना - नात्मशब्दस्यानुपसं
हारमानत्वं युक्तम्, तदुक्तगुणानां सर्वोपास्यत्वाभावात् । कुतः ? श्रु
तचतुर्गुणोपासनस्य पुंसः विभ्रमकरत्वेन निश्चायकत्वाभावात् । सोऽ
पि कुतो ? यत आत्मशब्दे सर्वगुणानां वाच्यतयाऽन्वयो भवति अत
आत्मशब्दस्य सर्वगुणाभिधायकत्वमिति यावत् । तदपि कुतः ? आ
प्तव्याप्तेरिति वचनादिति । वचनार्थस्तु - आप्ता प्राप्ता व्याप्तिर्देशकाल
गुणापरिच्छेदो यं स तथोक्तस्तस्येति हेतुगर्भं विशेषणम् । ' पर
मस्य' परमात्मनः । सप्तम्यर्थे षष्ठी । 'आत्मशब्दः' आत्मेति शब्दः
'इति वचनात्' इत्यन्वयवचनात् । सत्यमेवमिति पदद्वयाध्याहारेण
स्यादवधारणादिति सिद्धान्तांशं व्याचष्टे - सत्यमिति । अर्थाङ्गीकारे
सत्यमितिशब्दः । तथा च यत् परेण सर्वगुणाभिधायकत्वमात्मश
ब्दस्योक्तं तदङ्गीक्रियते । यदात्मशब्दोक्तस्य सर्वोपास्यत्वाभावोऽनुप
संहारामानत्वं च तन्नाङ्गीक्रियत इति भावः । कथं परेणोक्तमभ्युप
गम्यत इत्यत आह - स्यादिति । चोऽवधारणे । यत्परेणात्मशब्दस्य
सर्वगुणाभिधायकत्वमुक्तम् । 'तदेवं' तथा स्यादेव । कुतः ? यतः
'आप्तव्याप्तेः' इति प्रमाणमत्र स्यात् । तथा च प्रमितत्वात्परोक्ताङ्गी
कारो न दोषायेति भावः । ननु श्रुतचतुर्गुणोपासनस्य पुंसो विभ्रमक
[ अधि - १०. - सू - १८. ] दीपिकासहितम्. ८३९
त्मशब्दः परमस्य प्रयुज्यते' इति वचनादिति चेत्स
त्यम्, स्याच्चैवम् ।
( २ ) 'आत्मेत्येव' (बृ. ३-४-७.) इत्यवधारणात् । अन्यथा
रत्वात्कथमात्मशब्दोक्तगुणानां सर्वोपास्यत्वमित्यतो प्याह - स्याच्चैव-
मिति । ब्रह्मादीन् प्रत्येव, नान्यान् प्रतीति शेषः । तथा च यद्यात्मश-
ब्दस्य सर्वगुणाभिधायकत्वमङ्गीकृतम् 'तदेवं' तथा स्यादेव, किन्तु
ब्रह्मादीन् प्रत्येव, नाल्पाननुपसंहर्तृन् प्रति, तान् प्रति तु अल्पगुणाभि-
धायकः स्यात् । कुतः ? 'अन्वयात्' तथाऽनुभवात् । अतो विघ्नमक-
रत्वाभावात् तदुपासने सर्वेषां' स्यात् ' युक्तमित्यर्थः ॥
( २ ) ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान् ज्ञापयतीति कुतः, अ-
न्यान प्रतीव तान्प्रत्यल्पगुणाभिधायकः किं न स्यादित्याशङ्कोत्तरत्वे-
नावधारणादित्यंशं व्याचष्टे - आत्मेति ॥ अन्ययोगव्यवच्छेदकावधा-
रणयुक्तत्वादित्यर्थः । अवधारणेऽपि किमायातमित्यत आह - अन्यथे-
ति । आत्मशब्दस्यान्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्व इ-
त्यर्थः । सर्वोपसंहारेति । 'गुणैस्सर्वैरूपास्योऽसौ' इत्यादिसर्वोपसंहा-
रपूर्वकोप,सनवचनविरोधादित्यर्थः । अयं भावः - यद्ययमात्मशब्दोऽ-
न्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकः, तर्हि अवधारणमप्य-
न्यान् प्रतीव तान् प्रत्यन्ययोगव्यवच्छेदकमेव स्यात् । न चेष्टापत्तिः ।
तथा सति आत्मशब्दोक्तस्यैवोपास्यत्वप्राप्त्या सर्वोपसंहारवचन-
विरोधः स्यात् । अतोऽसौ ब्रह्मादीन् प्रति सर्वगुणाभिधायक
इति । यद्यपि तत्त्वप्रदीपे सत्यमिति वाक्यं नानुपसंहार एव प्र-
माणं, किन्तु सर्वोपसंहारेऽपि प्रमाणं स्यादेव, कुतः ? 'आत्मे-
त्येव' इति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । 'अन्यथा' एवमर्थानङ्गी-
कारे सर्वोपसंहारवचनविरोधादित्यामेति वाक्यस्यानुपसंहारमात्रमा-
नत्वाङ्गीकारपरतया सत्यमिति भाष्यं व्याख्यातम् । तथाऽपि टी-
काकृत् तदङ्गीकृत्यावधारणादित्यंशं तद्भाष्यं च प्रकारान्तरेणापि व्या-
ख्यातवानिति ध्येयम् । अनेन - 'अन्वयात्' 'आप्तव्याप्तेः' इत्यन्वय-
वचनात् आत्मशब्दे सर्वेषां गुणानां अन्वयात् वाच्यतया सम्बन्धात्
तस्य तदभिधायकत्वात् अत एव श्रुतचतुर्गुणोपासनस्य पुंसः विघ्न-
मकरत्वात् अत एव तदुक्तगुणानां सर्वोपास्यत्वाभावात् न तस्यानुप-
संहारमात्रत्वं युक्तमिति चेत् सत्यं, यतः तथा स्यादेव यत्परेणात्मश-
२४० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३.]
सर्वोपसंहारवचनविरोधात् ॥ १८ ॥
―――※―――
११. अधिकरणम् ॥
( १ ) सू-ॐ ॥ कार्याख्यानादपूर्वम् ॥ १९ ॥
'अलौकिकास्तस्य गुणा ह्युपास्या अलौकिकं मुक्ति
ब्दस्य सर्वगुणाभिधायकत्वमुक्तं तत् तथा स्यादेव ब्रह्मादीन् प्रति ।
कुतः ? अस्य वाक्यस्य 'अवधारणात्' अयोगव्यवच्छेदकावधारण
युक्तत्वात्, नान्यान् अल्पान् प्रति । कुतः ? अन्ययोगव्यवच्छेदकावधा
रणात् । अतो विभ्रमकत्वाभावात् नौकानुपपत्तिरिति सूत्रार्थ उक्तो
भवति । तत्त्वप्रदीपरीत्या तु—यत्त आत्मेत्यस्य अनुपसंहारमात्रेणान-
र्थक्यमुक्तं तत्सत्यं युक्तमेव । कुतः ? तस्य सर्वोपसंहारेऽपि मानत्वात् ।
तत्कुतः ? अवधारणात् 'आत्मेत्येव' इति सर्वगुणपूर्ण इत्येवेत्ययोग
व्यवच्छेदकावधारणादिति सूत्रखण्डार्थः ॥ १० ॥
॥ इति अन्वयाधिकरणम् ॥
―――※―――
११. अधिकरणम् ॥
( १ ) अत्राधिकरणेऽलौकिकगुणानामेवोपसंहार्यत्वं समर्थ्यते ।
लौकिका एव गुणा उपसंहृत्य ध्यातव्या नालौकिकास्तेषां पूर्वमननु
भूतत्वेन ध्यानकालेऽप्रतीतेरिति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति—
कार्येति ॥ मुक्तिकार्यत्वाख्यानात् ध्यानकार्यभूताया मुक्तेरलौकिक
त्वाख्यानादिति हेतुवाक्यार्थमभिप्रेत्य तत्सूचितां श्रुतिं दर्शयति—
अलौकिका इति । अलौकिका एवेत्यर्थः । 'तस्य' हरेः । कुत इत्यतो
हेतुमाह—अलौकिकमिति । 'अस्य' उपासनस्य 'मुक्तिकार्ये' का
र्यभूता मुक्तिः 'अलौकिकं' अलौकिकी । कार्यानुसार्युपासनस्यैव क
र्तव्यत्वनियमादिति हेतुसूचको हिशब्दः । इति कार्याख्यानादिति ।
इति श्रुतौ कार्यस्य मोक्षस्यालौकिकत्वोक्तेः ध्यानकार्यत्वोक्तेश्चेत्यर्थः ।
अनेन सूत्रे कार्याख्यानादिति मध्यमपदलोपी समासः, आ ख्यानादि
त्याङ्प्रश्लेषो वा । आङोऽर्थस्तु सम्यक्त्वमलौकिकत्वपर्यवसितं, का
र्यपदं भावप्रधानमावर्तनीयं चेति सूचितम् । अपूर्वमिति प्रतिज्ञाभाग
मन्वयेतिपदाकर्षणेन श्रुत्यनुसाराद्वचनविपरिणामेन चोपास्या इति
पदाध्याहारेण व्याचष्टे—अन्यत्रेति । ब्रह्मणोऽन्यत्र लोके इत्यर्थः । 'म
कार्ये 'शेतेऽस्य' इति कार्याख्यानादन्यत्र अदृष्टा एव
गुणा उपास्याः ॥ १९ ॥
१२. अधिकरणम् ॥
( १ ) सू— ॐ ॥ समान एवं चाभेदात् ॥ ॐ ॥ २० ॥
दृष्टाः ' अप्रतीता अलौकिका इति यावत् । गुणा ब्रह्मणः 'उपास्याः'
ध्यातव्या इत्यर्थः । एवेत्यनेनापूर्वपदं सावधारणमिति सूचितम् । य-
द्यप्यपूर्वशब्दः तद्व्याख्यानरूपोऽदृष्टशब्दश्च यागादिक्रियाजन्ये पुण्ये
रूढः । तथाऽपि श्रुतौ यौगिकालौकिकपदप्रयोगात्तत्समानार्थकस्यापू-
र्वपदस्यादृष्टपदस्य च योगवृत्तिरेवाश्रयणीयेति भावेन असावाश्रिता ।
न चालौकिकगुणाप्रतीतेः शक्तिग्रहानुपपत्तिः । अभिमान्यधिकरण-
सुत्रोक्तरीत्या इन्द्रादौ यस्सहस्राक्षः स इन्द्रः यः पाशहस्तः स वरु-
णः इत्याद्युपदेशवदत्रापि साक्षात्कृतभगवद्रूपाणां योगिनां योऽनुकूल-
वेदनीयो गुणः स आनन्दः यत् सर्वविषयं तत् ज्ञानमित्याद्युपदेशोप-
पत्तेः । उपदेशेन च गुणप्रतीतिसम्भवाच्छक्तिग्रहोपपत्तेश्च ॥ ११ ॥
॥ इति कार्याधिकरणम् ॥
१२. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्य स्वसदृशफलप्रदत्वसिद्धयर्थं ब्र-
ह्माणीब्रह्मणोरुपासनस्य समविषमत्वं समर्थ्यते । तत्र ब्रह्माणीब्रह्मणोः
सत्यलोकादिस्थानैक्यस्य आनन्दादिगुणतारतम्यस्य च सद्भावेन फ-
लस्य समविषमत्वेऽप्युपासनस्य न तथात्वं युक्तं, विरोधादतो नोपास-
नसदृशं फलमिति प्राप्ते सिद्धान्तहेत्वभिधानाय प्रवृत्तं सूत्रं पठति—
समान इति ॥ त्रिविक्रमत्वादिक्रियाणां लोकदृष्टक्रियाविलक्षणत्वेना-
त्याश्चर्यत्वात् कथं तदुपासनं ब्रह्माणी हास्यतीत्याशङ्काप्रदर्शनाय—ए-
वं चेत्युक्तम् । तत्रैवंशब्देन पूर्वसूत्रोक्तं परामृश्यते । चोऽप्यर्थ इत्या-
शयेनैवं चेत्येतद्व्याचष्टे—अपूर्वत्वेऽपीति । अन्यत्रादृष्टत्वेऽपीत्यर्थः ।
त्रिविक्रमत्वादिक्रियाणामित्येतत् आदावन्वीयते । यद्यपितथापीत्यर्थेऽ-
पिः । सूत्रे समाने चेत्यपि चशब्दान्वयः । स चावधारणार्थः । विष-
यसप्तमी चेयमित्यभिप्रेत्य प्रदर्शितशङ्कापरिहारकं समाने चेत्येतद्व्या-
चष्टे—समानानामेवेति । साधारणानां नित्यविक्रान्तिनित्यरमणादि
१०६
८४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
अपूर्वत्त्वेऽपि समानानामेवोपसंहारः । न तु त्रिविक्र-
मत्त्वादीनां कादाचित्कानां पृथक्त्वेन नित्यविक्रान्त्य-
दिष्वन्तर्भावात् ॥ २० ॥
( २ ) सू—ॐ ॥ सम्बन्धादेवमन्यत्रापि ॥ ॐ ॥ २१ ॥
रूपाणां योग्यानामेव क्रियाणामित्यर्थः । उपसंहार इति सूत्रेऽनुवृत्तं
पदम् । उपसंहृत्योपासनमित्यर्थः । एवशब्दव्यावृत्तिं दर्शयति--न
त्विति । तुशब्दो योग्यत्वविशेषद्योतकः । त्रिविक्रमत्वेति । अत्र त्रित्व-
स्यान्वयः पादद्वारा विन्यासेषु, त्रिविक्रमरूपस्य पादत्रययुक्तत्वात् ।
त्रयो विक्रमा यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्रित्वसङ्ख्योपेतपा-
दविक्षेपरूपक्रियादीनामित्यर्थः। आदिशब्देन रिङ्गणरमणभक्षणसंहर-
णादिक्रिया गृह्यन्ते । कादाचित्कानामिति । कदाचिदभिव्यक्तानामि-
त्यर्थः । ननु त्रिविक्रमत्वादीनामप्यन्तर्भावेन कदाचिद्विशेषरूपेण
च उपास्यत्वान्निषेधायोग इत्यत आह—पृथक्त्वेनेति । सदेत्यपि प्राग-
ध्याहार्यम् । तथा च सर्वदा त्रिविक्रमत्वादिविशेषाकारेणोपसंहार
इत्यर्थः । ननु त्रिविक्रमत्वादिक्रियाणां सदा पृथक्त्वेनानुपासने सर्व-
था तन्निषेधादनुपासनमेव प्राप्नोति प्रकारान्तरेणोपासनानुक्तेरि-
त्याशङ्कानिरासाय—अभेदादित्युक्तं सूत्रे, तद्व्याचष्टे—नित्येति । किं-
त्वर्थकस्तुशब्द आदौ संयोज्यः । तेन सौत्रचशब्दस्तुशब्दार्थकत्याऽ-
पि व्याख्यातः । त्रिविक्रमत्वादीनामित्यत्राप्यन्वीयते । विक्रान्तिः क्रि-
या । आदिपदेन पूर्वोक्तमुच्यते । अन्तर्भावादिति । अन्तर्भाव्य उपसं-
हारः । नित्यमनन्तरूपेषु अनन्तक्रियास्सन्तीत्युपास्तौ त्रिविक्रमत्वा-
दीनामपि सामान्यत उपास्यासु नित्यविक्रान्त्यादिरूपक्रियासु अन्त-
र्भूतत्वादिति भावः। सूत्रस्य ब्रह्माणीब्रह्मणोः फलवत् उपासनमपि स-
मविषममेवेति उपस्कृतसाध्येनान्वयः ॥
( २ ) ननु न विरिञ्चस्यापि सदा त्रिविक्रमत्वादिविशेषक्रियोपसं-
हारो युज्यते, तासामनित्यत्वेन ध्यानकालेऽभावादित्याशङ्कां परिहर-
त्सूत्रं पठति—सम्बन्धादिति ॥ अत्र सम्बन्धादिति हेतूक्त्या तत्सा-
ध्यं नित्यत्वमपि सूचितमिति भावेन सम्बन्धन्तरप्रदर्शनपूर्वकं सम्ब-
न्धादित्येतद्व्याचष्टे—परमात्मेति । सम्बन्धस्तादात्म्यं परमात्माभिन्न-
त्वेनेत्यर्थः । त्रिविक्रमत्वादीनामिति वर्तते । सूत्रे ऐक्यादित्यनुक्त्वा
सम्बन्धादित्युक्तिः ऐक्येऽपि विशेषबलात्तत्सम्बन्धित्वव्यवहारो न
[ अधि - १३. सू - २२. ] दीपिकासहितम्. ८४३
परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व
प्युपसंहार्यत्वं युज्यते ।
( २ ) गुणास्त्रैविक्रमाद्यास्तु संहर्तव्या न संशयः ।
विरिञ्चस्यैव नान्येषां स हि सर्वगुणाधिकः ॥
इति बृहत्तन्त्रे ॥ २१ ॥
-:-※-:-
१३. अधिकरणम् ॥
( १ ) सू—ॐ ॥ न वा विशेषात् ॥ ॐ ॥ २२ ॥
विरुद्ध इति सूचनायेति ज्ञापयितुं सम्बन्धित्वेनेत्युक्तम् । ‘नित्यत्वात्’
शक्त्यात्मना नित्यत्वात् । एवमन्यत्रेत्यस्य नित्यव्यक्तवदेव ततोऽन्यत्र
कादाचित्कव्यक्तिषु त्रिविक्रमत्वादिवित्यर्थ इत्याशयेनाह—त्रिविक्र-
मत्वादिष्विति । त्रिविक्रमादिष्वितिपाठे भावप्रधानो निर्देशः । विषय-
सप्तमीयम् । न केवलं नित्यव्यक्तिषु किन्त्वन्यत्रापीति समुच्चयेऽपिश-
ब्दः । एवमित्यस्यार्थमाह—उपसंहार्यत्वमिति । युज्यते इति । हिरण्य-
गर्भेण सदेति शेषः ॥
( २ ) अत्रार्थे स्मृतिं चाह—गुणा इति ॥ ‘त्रैविक्रमाद्याः’ त्रिविक्रम-
मस्यायं त्रैविक्रमः त्रिविक्रमत्वादिक्रियात्मकधर्मा इत्यर्थः । आद्यश-
ब्देन हननभक्षणादिकमुच्यते । तुरवधारणे, भिन्नक्रमः । पृथक्त्वेनेति
विशेषद्योतको वा । ‘संहर्तव्याः’ उपसंहर्तव्याः ‘अन्येषाम्’ वाग्वादी-
नाम् । अत्र युक्तिमाह—स हीति । ‘सः’ विरिञ्चः । हिशब्दो हेतौ ।
सर्वैति । सर्वेभ्योऽधिकारिभ्यो गुणैरधिक इत्यर्थः । बृहत्तन्त्रे कथित
मिति शेषः ॥ १२ ॥
॥ इति समानाधिकरणम् ॥
—*—
१३. अधिकरणम् ॥
( १ ) अत्राधिकरणे आत्मशब्दोक्तगुणोपासनस्य सर्वैः कर्तव्यत्वं
समर्थ्यते । आत्मशब्दस्य सर्वगुणाभिधायकत्वेन विभ्रमकरत्वात् आ-
त्मशब्देन अस्यैतावन्त एवोच्यन्त इति प्रातिस्विकनियमाभावेनोपास-
नाऽसम्भवाच्च न तदुक्तगुणाः सर्वोपास्या इति प्राप्ते सिद्धान्तयितुं सू-
त्रं पठति--न वेति । अत्र युक्तमेव सर्वेषामात्मशब्दोक्तगुणोपासनमि-
ति साध्यमध्याहार्यमित्याशयेन तत्र हेतुत्वेन न वेत्यंशं व्याचष्टे--न
८४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
न वाऽऽत्मशब्देन सर्वगुणगृहीतिः अधिकारिविशेषात् ॥२२॥
( २ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ २३ ॥
'सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न
चैव' इति भाल्लवेयश्रुतिः ॥ २३ ॥
—::—
१४. अधिकरणम् ॥
( १ ) सू—ॐ ॥ सम्भृतिद्युव्याप्त्यपि चातः ॥ ॐ ॥ २४ ॥
वेति । वाशब्दो व्यवस्थितविकल्पे । आत्मशब्देनेत्यनेन सूत्रे आत्मगृ-
हीतिरिति पदानुवृत्तिस्सूचिता । तथा च आत्मपदेन सर्वेषां गुणानां
शुभधर्माणां गृहीतिरभिधानं न वा सर्वान् प्रति, किन्तु ब्रह्मादीन् प्र-
त्येवेत्यर्थः । अस्य यत इति शेषेणाध्याहृतसाध्येनान्वयः । कुतो नेत्य-
तस्तत्र हेतुत्वेन विशेषादित्यंशं व्याचष्टे—अधिकारिति । आत्मशब्द-
स्य अधिकारिसामर्थ्यविशेषमपेक्ष्य तत्तद्योग्यगुणाभिधायकत्वादित्यर्थः ॥
( २ ) विशेषादिति युक्तिसिद्धार्थं श्रुत्याऽपि समर्थयत्सूत्रं पठित्वा
तां श्रुतिमुदाहरति —दर्शयति चेति ॥ न वेत्युक्तमर्थं श्रुतिरपि दर्शय-
तीत्यर्थः । न केवलं युक्तिरिति चार्थः । बह्वर्थकोऽप्यात्मशब्दः 'ब्रह्मा-
दीनां' ब्रह्मब्रह्माण्यादीन् प्रति 'सर्वान्' स्वयोग्यान् बहून् 'गुणान्'
भगवद्धर्मान् 'ब्रवीति' ध्यानकाले युगपत्प्रकाशयतीत्यर्थः । 'इतरेषां'
देवगन्धर्वाणां मनुष्योत्तमानां च न बहुगुणान्, किन्त्वल्पानित्यर्थः ।
यथोक्तं तत्त्वप्रदीपे— सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मणः, ब्रह्म-
ण्यादीनां शतं शतमूनान् क्रमादिति, न्यूनत्वायौग्यतायाः । अवरेषा-
मल्पगुणानेवेति। अनेन यस्य यावन्तो गुणा आत्मशब्देन युगपत्प्रतीय-
न्ते तेन तावन्तो ध्यातव्या इति हेतोः व्युत्पत्तिवशेनार्त्मशब्देन जाता
प्रतीतिः न ध्यानोपयोगिनीत्युक्तं भवति ॥ १३ ॥
॥ इति नवाधिकरणम् ॥
——
१४. अधिकरणम् ॥
( १ ) अत्राधिकरणे सम्भृत्यादिगुणस्य सर्वोपास्यत्वं नेत्युच्यते ।
मोक्षे स्वाधमभरणस्य प्रकाशव्याप्तेश्च सर्वापेक्षितत्वात् फलानुसारेण
सम्भृतिद्युव्यापी सर्वोपास्ये इति प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्य व्या-
सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्ये
षाम् । अत एव योग्यताविशेषात् ।
(२) देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः ।
चष्टे-सम्भृतीति ॥ अत्रापिशब्दो नञ्समाकर्षकः । उपसंहर्तव्ये इति
शेष इत्याशयेन सम्भृतिद्युव्याप्त्यपीति साध्यांशमनूद्य तत्तात्पर्यमाह-
सम्भृतीति । द्यावापृथिव्योर्भरणं सम्भृतिः, द्युत्या महाप्रकाशेन व्याप्तिः
द्युव्याप्तिः कर्तरि षष्ठ्यौ। तथा च 'उक्षा स द्यावापृथिवी बिभर्ति' (ऋ.
१०-३१-७.) 'एष हि सर्वेषु लोकेषु भाति' (छा.४-१५-४.) इत्यादौ प्रतीतेः स
म्भरणप्रकाशव्याप्ती देवादिभ्योऽन्यैर्मनुष्योत्तमैः 'नोपसंहर्तव्ये' उपसं
हृत्योपास्ये न, किन्तु देवादीनामेवोपसंहृत्योपास्ये इत्यर्थः । सूत्रे सम्भृ
तिद्युव्याप्ती इति द्विवचनान्तं पदम्, अप्रगृह्यत्वं तुछान्दसमिति ज्ञापना
यसम्भृतिद्युव्याप्ती अपीति प्रकृतिभावेन निर्देशः । अपिशब्दलब्धार्थो-
नान्येषामिति । तत्त्वप्रदीपे तु 'भृतिव्याप्त्यादयो गुणाः' इति प्रमाणानु
सारेण सूत्रे द्विवचनमविवक्षित्वा सम्भृतिद्युव्याप्त्यादयोऽपि गुणा दे
वानामुपसंहर्तव्याः, नानन्दादय एव । एवमपिशब्दात् वीर्यैश्वर्यादयो
ऽपि ग्राह्याः । द्वित्वमात्रव्यावृत्त्यर्थं किलाप्रगृह्य असूत्रयत इत्यपेस्समु
च्चयार्थत्वमुक्तम् । अनेन सूत्रे समाहारद्वन्द्व इति केषां चित्पक्षो निर
स्तः । सूत्रे अतश्चेत्यन्वयः चशब्द एवार्थ इत्याशयेन हेत्वंशं व्याचष्टे-
अत एवेति । देवादीनामेव तदुपास्तियोग्यता, नान्येषामित्यधिकारि
योग्यतायां विशेषसद्भावादेवेत्यर्थः । योग्यतैवोपास्तिनियमप्रयोजि
का न फलापेक्षेति द्योतयितुमेवशब्दः । न च प्रकाशाद्युपास्त्यभावे मु
क्तौ सर्वेषां स्वस्वयोग्यप्रकाशः स्वावरभरणं च कथं लभ्यत इति वा
च्यम् । स्वस्वयोग्यगुणयुक्तभगवद्रूपविषयस्मृतिरूपप्रतीतिविषयत्वे
न तदविनाभूततत्प्रकाशादिनैव प्रकाशभरणयोः प्राप्त्युपपत्तेः । यथो
क्तं न्यायविवरणे-गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते इति । अ
त एव 'उद्यद्भास्वत्समाभासः' 'युक्ताः प्रदीपवर्णाश्च' 'हरितोपला
भम्' 'हरिन्मणिनिभम्' 'ब्रह्मवायुशिवाहीशविधैः शक्रादिकैरपि ।
सेव्यमानः' 'विधिशर्वपूर्वगीर्वाणविज्ञानदम्' 'अजेशसमितिं प्रति
बोधयन्तम्' इति स्वस्वयोग्यतानुसारेण किञ्चित्प्रकाशविषयकतया
ब्रह्माद्यवरदेवताभरणविषयतया च सर्वेऽपि ध्यानं कुर्वन्ति ॥
(२) ननु सम्भृत्यादिगुणोपास्तिर्देवानामेव योग्येति कुतः, अन्ये
८४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
आनन्दाद्यास्तु सर्वेषामन्यथाऽनर्थकृद्भवेत् ॥ इति ब्र
ह्मतर्के ॥ २४ ॥
१५. अधिकरणम् ॥
( १) यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानां इतरा
ऽन्येषामिति चेत्,
( २) न—
सू—ॐ ॥ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ॐ ॥ २५ ॥
षामयोग्यतायामप्युपासने को विरोधः, फलसिद्धेरविशेषादित्यत आ-
ह—देवादीनामिति ॥ तुरवधारणं । देवादीनामेवेत्यन्वेति । भृतिः स-
म्भृतिः । व्याप्तिर्द्युव्याप्तिः । आदिपदाद्धीर्यादयोऽपि गृह्यन्ते । वेधादय
इति केचित् । 'सर्वेषां' सम्पूर्णमोक्षयोग्यानां देवादिमनुष्योत्तमा-
न्तानां 'अन्यथा' अयोग्योपासने तदुपासनं उपासकस्थानर्थकृद्भवे-
[ अधि - १५. सू - २५ ] दीपिकासहितम्. ८४७
पुरुषसूक्तोक्तविद्यायामपि केषां चिद्गुणानामनाम्नानात् ।
(३) सर्वतः पौरुषे सूक्ते गुणा विष्णोरुदीरिताः ।
तत्रापि नैव सर्वेऽपि तस्मात्कार्योपसंहृतिः ॥
इति ब्रह्मतर्के ॥ २५ ॥
हेतोश्च सिद्धत्वात्, तथाऽपि कुतस्सर्वत उपसंहारः कर्तव्य इत्यतोऽ
नाम्नानादित्यनेनैव एकस्यां विद्यायां सर्वगुणानामनुक्तत्वादिति हेतु
साधकहेतोरपि सिद्धत्वात्, सोऽपि कुतः सिद्ध इत्यतः कैमुत्येन त
त्साधनपरतया समग्रसूत्रं व्याचष्टे—पुरुषेति । अपिर्भिन्नक्रमः । तथा
च अपि सर्वविद्योत्तमायामपि 'पुरुषविद्यायां पुरुषसूक्तोक्तविद्यायां'
पुरुषसूक्तमित्युक्तविद्यायां स्वापेक्षितगुणानां मध्ये केषां चिदेव आ
म्नानात् पाठात् 'इतरेषां' तदन्येषां 'अनाम्नानात्' सुतरां विद्यान्त
रे सर्वेषामनाम्नानस्य सिद्धत्वादत एवैकस्यां विद्यायां सर्वेषां 'अना
म्नानात्' अनुक्तेस्सिद्धत्वादित्यर्थः । अनेन केषां चिदाम्नानात् इतरे
षाम् अनाम्नानाच्चेत्यपि समुच्चयः चशब्दार्थ इत्युक्तं भवति ॥
(३) भवेदुपसंहारस्य कर्तव्यता, यदि स्यात् पुरुषसूक्तस्य सर्व
विद्योत्तमत्वं, तत्रापि केषां चिद्गुणानामनुक्तत्वं च । तदेव कुत इत्यत
आह—सर्वत इति ॥ 'पौरुषे सूक्ते' परमपुरुषप्रतिपादके पुरुषसूक्ते
'सर्वतः' सर्वत्र आदावन्ते च मध्ये चेत्यर्थः । 'सर्वतः' सर्वे गुणा इ
ति वा । 'सर्वतः' सर्वविद्यातः आधिक्येनेति शेष इति वा । 'तत्रापि'
पुरुषसूक्तेऽपि स्वापेक्षिताः सर्वेऽपि गुणा नोदीरिता इत्यन्वयः । मानु
षापेक्षितज्ञानानन्दादिगुणानामकथनादिति भावः । तस्मादिति । एक
स्यामपि स्वापेक्षितसर्वगुणावचनात् सर्वतः उपसंहृतिः कार्येत्यर्थः ।
ब्रह्मतर्के सूत्रकृदुक्तमुक्तं इत्यध्याहारेणान्वयः । सूत्रे सर्वेषामनाम्नाना
दित्यनुक्त्वा इतरेषामनाम्नानादित्युक्त्या च एकस्यामेव विद्यायां सर्व
गुणानुक्तेः अस्तु चतुर्मुखस्य सर्वविद्यातो गुणोपसंहारः, अन्येषां म
हदल्पगुणाभिधायकविद्याभिरेवोपास्तिसम्भवात् उपसंहारो व्यर्थ
इति चोद्यं निरस्तं भवति । सङ्ख्यासाम्यसम्भवेऽपि एकस्यामेव स्वा
पेक्षितगुणोक्तिनियमाभावात् ॥ १५ ॥
॥ इति पुरुषाधिकरणम् ॥
-*-
८४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
१६. अधिकरणम् ॥
( १ ) सू- ॐ ॥ वेधाद्यर्थभेदात् ॥ ॐ ॥ २६ ॥
भिन्धि विद्ध्य शृणीहीति फलभेदेन सर्वशः ।
यत्यादीनां तेष्वयोगान्नाधिकारैकता भवेत् ॥
अयोग्योपासनादीयुरनर्थं चार्थनाशनम् ।
१६. अधिकरणम् ॥
( १ ) अत्राधिकरणे भेदनादिगुणानां सर्वोपास्यत्वं निरस्यते । स-
र्वसज्जनापेक्षितदुष्टजननिग्रहफलकत्वेन वेधादीनां सर्वोपास्यत्वान्न च-
तुर्गुणोपासनानियम इति प्राप्तं सिद्धान्तयत्सूत्रं पठति—वेधादीति ॥
अत्र वेधाद्यर्थभेदादित्येकं पदम् । वेधादीति भिन्नं चावर्तते । नेत्य-
स्ति । तथा च ‘वेधादि’ रक्षोघ्नसूक्तं
‘ताभिर्विध्य हृदये यातुधानान् ....
अग्ने त्वचं यातुधानस्य भिन्धि ....
प्रपर्वाणि जातवेदःशृणीहि’ ( ऋ. १० - ८७ - ४, ५. ) इत्या-
दिनोक्तं दुर्जनवेधनभेदनहिंसनादिकं न सर्वोपास्यं, कुतः ? यतो न
यत्याद्युपास्ये, तदपि कुतः ? ‘वेधाद्यर्थभेदात्’ वेधाद्यर्थस्य तद्विषय-
कोपासनफलस्य हिंसनस्य यत्यादियोग्यफलात् भेदात् विलक्षण-
त्वात् । अयोग्यफलस्य चानर्थकफलसाधनत्वादिति सूत्रार्थमभिप्रे-
त्यात्र स्मृतिं चाह—भिन्धीति ॥ ‘शृणीहि’ जहि । इतिशब्दानन्तरमु-
पासनेष्विति शेषः । तथा चेत्थं योजना—हे भगवन् दुष्टान् भिन्धि
विद्ध्य शृणीहीत्येवंरूपेषूपासनेषु ‘सर्वशः’ सर्वेषां ‘नाधिकारैकता’
नाधिकारसाम्यं भवेत् । एतदुपासनं सर्वाधिकारिसमं न भवेदिति
यावत् । कुतः ? यत्यादीनां ‘तेषु’ उपासनेषु ‘अयोगात्’ अयोग्यत्वा-
त् । तदपि कस्मात् ? ‘फलभेदेन’ फलभेदात् एतदुपासनफलानां य-
त्यादियोग्यफलाद्विलक्षणत्वात् । नन्वयोग्यत्वेऽपि कुतो यत्यादीनां वे-
धाद्युपासनाभाव इत्यत आह—अयोग्येति । यतोऽयोग्योपासनादनर्थ-
मर्थनाशनं च ‘ईयुः’ प्राप्नुयुरत इति । बृहत्तन्त्रे इति । सूत्रकारोक्तः
कथित इति शेषः । इदं त्ववधेयम् । यत्यादीनां ध्यानात्प्राक्प्राणायाम-
करणकाले पापपुरुषशोषणदहनादिकमस्ति, न तु ध्यानकाले । तदा
[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८४९
इति बृहत्तन्त्रे ॥ २६ ॥
:----:
१७. अधिकरणम् ॥
( १ ) मुक्तस्योपासना कर्तव्या न वेति ।
तु ते स्वयोग्यगुणानेव ध्यायन्ति न तु भेदनादिकमिति ॥ २६ ॥
॥ इति वेधाधिकरणम् ॥
---
१७. अधिकरणम् ॥
( १ ) अत्राधिकरणे उपासनस्य मुक्तावप्यनुवृत्तिः समर्थ्यते । तत्र वि-
षयसंशयौ दर्शयति-मुक्तस्येति ॥ प्रकृतोपासनं विषयः । मुक्तेन क्रिय-
ते न वेति सन्देह इत्यर्थः । प्राप्तफलत्वं 'जक्षन् क्रीडन्' (छां.८-१२-३.) इ-
तिक्रियान्तरश्रुतिश्च सन्देहबीजमिति भावः । एवं मुक्तस्योपासना न क-
र्तव्येत्यनेन मुक्तेनोपासना क्रियत इति पूर्वपक्षस्य तथा मुक्तस्योपास-
ना कर्तव्या न वेति समग्रवाक्ये कर्तव्या विहिता नेति विकल्पपरतया
व्याख्यायमाने नोभावपि कल्पौ युक्तौ विहितस्य वा अविहितस्य वा
कर्मणः फलावश्यंभावात्फलप्राप्तिप्रसङ्गात्, तथा चापूर्णताप्रसक्तिः ।
न चेष्टापत्तिः, मुक्तस्य अपूर्णतारूपामुक्त्तस्य तदयोगात् । किञ्चाद्ये मु-
क्तस्य विधिवद्धत्वेन मुक्तेस्संसारसमानधर्मत्वापत्तिः । द्वितीये मुक्त-
स्याविधिबद्धत्वादेव करणानुपपत्तिरिति मुक्तस्येत्यस्मिन् व्याख्यां-
यमाने च अनेन पूर्वपक्षयुक्तेश्च सूचनं कृतं भवति । सिद्धान्तदूषणयु-
क्तेरेव पूर्वपक्षसाधनत्वादिति ज्ञातव्यम् । तत्त्वप्रदीपे तु मुक्तस्योपास-
ना न कर्तव्येत्यंशमेकपूर्वपक्षपरतया व्याख्याय तत्पूर्वपक्षे विध्यभावान्प्र-
योजनाभावाच्चेति हेतुमभिधाय मोक्षार्थं ह्युपासनं तत्पर्यन्तं च विधेय-
म्, अतः कुतो मुक्तस्योपासनाप्राप्तिरिति तमुपपाद्य कर्तव्येत्यपरः प-
क्षः । मुक्तस्यापि परतन्त्रत्वात् । तदा विशेषभोगापेक्षयोपास्तिसम्भ-
वादित्यत आहेति कर्तव्यंत्यंशः पूर्वपक्षान्तरपरतया व्याख्यातः । तत्रा-
द्यः पूर्वपक्षः तद्धेतुश्च टीकोक्तः । द्वितीयस्तु तन्मात्रोक्तः । तत्पक्षे न क-
र्तव्येति पूर्वपक्षनिरासो 'हानौ तूपायनशब्दशेषत्वात्' इत्यनेन सूचि-
तोऽभ्युपगमेन कृतः । कर्तव्येति द्वितीयपूर्वपक्षनिरासस्तु 'कुशाच्छन्द'
इत्यनेन सूचितो विधिवद्धत्वान्न क्रियते, किन्तु स्वेच्छयेत्यंशेऽङ्गी-
१०५
८५० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
( २ ) अतो ब्रवीति ।
सू-ॐ ॥ हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगा
नवत्तदुक्तम् ॥ ॐ ॥ २७ ॥
नियतस्वाध्यायानन्तरं स्वेच्छयाकुशाग्रहणस्तुत्यु
पगानवदेव मोक्षे उपासनादि ।
( ३ ) 'ब्रह्मविदाप्नोति परम्' ( तै.३-१०.) इति मोक्षवाक्य
रेण कृतः । तस्मात्संसारोपाधिकमेवोपासनं न स्वाभाविकमिति त
त्साधनाय भक्तिर्व्यर्थेति भावः ॥
( २ ) अथ सिद्धान्तयत्सूत्रमवतारयति—अत इति ॥ सूत्रे मुक्त
स्योपासना विहिता न वेति विकल्पितपक्षद्वये आ संसारहानेः विहित
त्वात्प्रयोजनाय क्रियते । तद्धानौ मोक्षे तु स्वेच्छयेति तत्त्वप्रदीपदिशा
'हानौ तु' इत्यनेन आद्यपक्षोक्तदोषनिरासात् । द्वितीयपक्षोक्तदोषप
रिहाराय 'कुशाच्छन्द' इत्याद्युक्तम् । तत्र कुशपदं तद्ग्रहणपरम् । आ
च्छन्दपदं च बुद्ध्या विवेकेन कुशग्रहणे तच्छब्दार्थोपासनादौ चान्वी
यत इति भावेनार्थक्रमेण व्याख्याति—स्वेच्छयेति । स्वेच्छया कुशा
ग्रहणपूर्वकत्वं स्तुत्युपगानयोः कदेत्याकांक्षायां तयोर्ग्यं कालमाह—
नियतेति । स्वाध्यायो वेदाध्ययनं स्वकाले विधिनियतब्रह्मयज्ञानन्तर
मित्यर्थः । कुशस्य आग्रहणं सम्यग्ग्रहणं, स्तुतिः यजुरादिमन्त्रः, उप
गानं साम । आच्छन्देन कुशग्रहणेन सहिते तत्पूर्वके च ते स्तुत्युप
गाने च ते तथोक्ते, ताभ्यां तदध्ययनं लक्ष्यते । तत्त्वप्रदीपे उपगानं
साम्ना, स्तुतिस्तदन्यैर्यजुरादिभिरित्युक्तत्वेऽपि टीकायां स्तुत्युपगान
पदाभ्यां तत्करणे एव गृहीते तयोरेवाध्ययनकर्मत्वात् । अत्र ब्रह्मयज्ञ
रूपमन्त्राध्ययनकाल एव कुशाग्रहणं विहितम् । ब्रह्मयज्ञानन्तरभावि
मन्त्राध्ययने तु कुशाग्रहणं स्वेच्छयैवेति विवेकः । एवेत्यनेन एवार्थ
कतुशब्दो भिन्नक्रमेणात्र सम्बध्यत इत्याह । तत्त्वप्रदीपे तु तुशब्दो
विशेषार्थक इत्याशयेन बन्धहानौ त्वित्यन्वयो दर्शितः । हानावित्यस्य
विविधबन्धहानावित्यर्थमभिप्रेत्य तद्विशेष्यस्यागामिसूत्रादाकृष्टस्य 'सा
म्पराय' इत्यस्यार्थमाह—मोक्ष इति । आदिपदेन यजनादिकर्मपरिग्र
हः । उपासनादीत्यनन्तरं अस्तीति क्रियत इति वा शेषः । तेनाप्येवा
र्थकतुशब्दस्यान्वयः ॥
( ३ ) ननु मोक्षे उपासनमस्ति चेत्तत्कुतः स्वेच्छयैवेत्यङ्गीकार्यं,
[ अधि - १७. सू - २७. ] दीपिकासहितम्. ८५१
शेषत्वादितरेषाम्, तच्चोक्तम्। ‘एतत्साम गायन्नास्ते’
( तै. ३-१०. ) इत्यादि ।
(४) ब्रह्मतर्के च ।
मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः ।
विधित एव किं न स्यादित्याशङ्कापरिहारायोक्तं सूत्रे—उपायनेति ॥
तत्रायनेन ज्ञानेन उप ब्रह्मसमीपे अयनं गमनं तस्य शब्दः उपायनश-
ब्दो मोक्षस्य ज्ञानसाध्यताबोधकं वाक्यमिति भावेन तमंशं व्याचष्टे-
ब्रह्मेति । इति मोक्षेति । इत्येवंरूपं यन्मोक्षस्य ज्ञानसाध्यताभिधायकं
वाक्यं तच्छेषत्वात् तदर्थत्वात् तद्वाक्यविहितापरोक्षज्ञानसाधनविधा-
यकत्वादित्यर्थः । ‘पुरुषविद्यायाम्’ इत्यतोऽस्य सम्बन्धिपदमनुवर्त-
नीयमित्याह—इतरेषामिति । ‘श्रोतव्यो मन्तव्यः’ ( बृ.४-४-५. ) ‘त-
द्विजिज्ञासस्व’ ( तै. ३ - १०.) इत्याद्युपासनविधीनामित्यर्थः । केचि-
त्तु—इदमध्याहृतमित्याहुः । तत्त्वप्रदीपदिशा उपासनाशब्दशेषत्वादि-
ति सूत्रपाठे उपासनाशब्दानां उपासनाविधीनां शब्दशेषत्वात् मोक्ष-
वाक्यशेषत्वादित्यर्थः । अस्मिन् पक्षे उपासनेति व्यस्तं पदं समस्तं
च । तत्र व्यस्तपदस्य कर्मोपलक्षकस्यार्थो भाष्यकृता उपासनादीत्य-
नेन दर्शितः, न तु पृथक्तच्छब्दव्याख्यानं, न वा भावबोधरीत्याऽयं शे-
षः । इतरेषामित्येतदपि श्रुतपदार्थकथनं, नानुवृत्तमिति ध्येयम् । भवे-
दियं चिन्ता, यदि मुक्तस्योपासनमेव स्यात्, तदेव कुत इत्यतस्सूत्रे
तदुक्तमित्युक्तं, तद्व्याचष्टे—तच्चेति । अनेन सूत्रे तुशब्दार्थोऽपि ।
स च तदित्यनेनापि सम्बध्यते । तथा च यदुपासनं श्रुतावुक्तं यत्त-
स्य स्वेच्छायत्तत्वं तच्च ब्रह्मतर्के उक्तं चेति सूत्रांशयोजना दर्शिता भ-
वति । श्रुतिं पठति—एतदिति । आदिपदात् ‘ऋचां त्वः पोषमास्ते’
(ऋ.१०-७१-११.) इत्यादि गृह्यते । इत्यादीति । इत्यादावित्यर्थः। ‘एतत्’
वक्ष्यमाणं ‘हावु’ (तै.३-१०-५.) इत्यादि साम गायन्नास्ते मुक्तचतुर्मुख
इति तैत्तिरीयश्रुत्यर्थः । ‘त्वः’ कश्चिद्ब्रह्मा ‘पुपुष्वान्’ पुष्टस्सन् ऋचां ‘पो-
षं’पुष्टिमुच्चारणं कुर्वन्नास्ते । ‘त्वः’ अन्यस्तु ब्रह्मा शक्वरीषु ऋक्षु गायत्रं
साम गायति । त्वस्तु ब्रह्मा ‘जातविद्यां’ पौरुषेयविद्यां वदति । त्व-
स्तु ब्रह्मा ‘यज्ञस्य’ विष्णोः ‘मात्रां’ उ अंशमेव ‘विमिमीते’ ध्यायती-
ति ऋङ्मन्त्रार्थः ॥
(४) न केवलं श्रुतौ, किन्तु ब्रह्मतर्के चोपासनमुक्तमिति चशब्दा
८५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
नियमानन्तरं विप्राः कुशाग्रैरप्यधीयते ॥ इति ॥
( ५ ) कृष्णो मुक्तैरिज्यते वीतमोहैः ॥ इति च भारते ॥ २७ ॥
( ६ ) सू—ॐ ॥ साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ ॐ ॥ २८ ॥
स्वेच्छयैत्यङ्गीकर्तव्यं मुक्तस्य तीर्णत्वात् । 'तीर्णा हि
र्थः । 'नियमानन्तरं' नियतस्वाध्यायानन्तरं 'विप्राः' द्विजन्मानः ।
यथेति शेषः । कुशाग्रैरित्याद्यशब्दात् प्राङ्मुखत्वादि गृह्यत इति त-
त्त्वप्रदीपोक्तिः । इति ब्रह्मतर्के इत्यन्वयः ॥
( ५ ) किञ्च मुक्तानां यजनाद्यप्यस्ति, किमुतोपासनमिति भावेन
चार्थकतुशब्दात्कर्मापि क्रियत इत्युक्तं सूत्रे । तद्विवृतं आदिपदेन भा-
ष्यकृता । तत्रार्थे प्रमाणमाह—कृष्ण इति ॥ व्याख्यातमिदमंशाधिक-
रणे । भारते उक्तमित्यन्वयः । अनेन—अस्त्येव 'हानौ' बन्धहानिरू-
पायां मुक्तौ तदुपासनादि । न च विधिवद्धत्वेन संसारसमानधर्मत्वं मु-
क्तेः, यतः तत्रोपासनादि विधिं विना 'छन्देन तु' स्वेच्छयैवाङ्गीकृत-
म् । कुतो ? यतो मुक्तिर्बन्धहानिर्विधिवन्ध्यहानिरूपा अतः । न चावि-
हितत्वान्न तत्करणानुपपत्तिः, अदर्शनादिति वाच्यम् । कुशाच्छन्द-
स्तुत्युपगानवदुपपत्तेः । यथा द्विजन्मनां स्वकाले विधिनियतस्वाध्या-
यानन्तरमपि संस्कारवशात्स्वेच्छया कुशाग्रहणपूर्वं स्तुत्युपगानपदो-
क्तमन्त्रसामाध्ययनं तद्वत् मुक्तानां संस्कारवशान्मोक्षेऽपि स्वेच्छयैवौ-
पासनोपपत्तेः । न च मुक्तावुपासनमस्ति चेत्स्वेच्छयेति कुतः, वैधमे-
व किं न स्यादिति वाच्यम् । इतरेषां 'उपायनशब्दशेषत्वात्' अयने-
न ज्ञानेनोपायनं ब्रह्मसामीप्यादिप्राप्तिः । तथा चोपासनाविधीनां 'ब्र-
ह्मविदाप्नोति' (तै. २-१-१०) इति सामीप्यादिरूपमोक्षस्य ज्ञानसाध्य-
ताभिधायकमोक्षवाक्यशेषत्वादित्यर्थः । तथा च, मोक्षसिद्ध्यर्थं प्रवृत्ता
विधयस्तत्रापि कथं तां विदध्युरिति भावः । न च मुक्तस्योपासनादा-
वेव मानाभाव इति वाच्यम् । यतस्तस्योपासनादि तस्येच्छाधीनत्वं
च श्रुतौ भारते ब्रह्मतर्कवाक्ये चोक्तमिति सूत्रार्थ उक्तो भवति ॥
( ६ ) ननु मुक्तस्योपासनं न स्वेच्छया, किन्तु मोक्षे तदातदा प्रा-
प्तानिष्टपरिहारार्थमेव, कस्यापि निष्फलप्रवृत्तेरदर्शनात् इत्याशङ्कां प-
रिहर्तुं सूत्रं—साम्पराय इति ॥ अत्र आच्छन्देनेत्यनुवृत्तपदस्यार्थमा-
ह—स्वेच्छयेति । इतीति सावधारणम् । न त्वनिष्टपरिहारार्थमित्यव-
धारणार्थः । तदुपासादीति सम्बध्यते । साम्परायशब्दस्य तात्पर्यार्थ
[ अधि - १७. सू - २८. ] दीपिकासहितम्. ८५३
तदा सर्वान् शोकान् हृदयस्य भवति' (बृ. ६-३-२२.)
इति हान्ये पठन्ति।
(७) वायुप्रोक्ते च—
स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः।
ब्रह्मलोकं गतास्सर्वे ब्रह्मणा च परं गताः ॥
तीर्णतर्तव्यभागाश्च स्वेच्छयोपासते परम् ॥ इति ॥ २८ ॥
माह—मुक्तस्येति। पूर्वोत्तरान्वयि तत्। साम्परायशब्दस्तु सम्यक्प
रस्य आयः प्राप्तिः सम्परायः स एव साम्पराय इति व्युत्पत्त्या मो
क्षार्थक इति पूर्वमेव मोक्ष इत्युक्त्या व्याख्यातः। कुत इत्यतस्साम्परा
ये तर्तव्यानिवृत्त्यैवाभावादिति सूत्र एव हेत्वभिधानात् तमनुपन्यस्य
तस्यासिद्धिपरिहाराय तल्लब्धं हेतुमाह—मुक्तस्य तीर्णत्वादिति। ती
र्णाशेषानिष्टत्वादित्यर्थः। तस्याप्यसिद्धिमाशङ्क्य तत्परिहारत्वेन त
था हान्य इत्येतद्व्याचष्टे—तीर्णा हीति। 'तदा' मुक्तौ सर्वान् शोका
न् 'तीर्णः' अतिक्रान्तः पुरुषः 'अयनाद्धृदि विष्णुः स हृदयं कीर्ति
तो बुधैः' इति छान्दोग्यभाष्योक्तेः सर्वहृदि स्थितः हृदयं विष्णुः त
स्य 'भवति' तत्सम्बन्धी भवति। तत्प्रतिबिम्बत्वेन तच्छेषभूतो भ
वतीत्यर्थः। सार्वकालिकस्यापि शेषभावस्य व्यक्त्यपेक्षयाऽत्र भवती
ति निर्देशः। अत एव तत्त्वप्रदीपे हृदयस्यैव भवति स्वदृष्ट्याऽपीत्यु
क्तम्। 'हि' यस्मात् 'अन्ये' छन्दोगाः वाजसनेयिनश्च॥
(७) अत्र स्मृतिं चाह—वायुप्रोक्ते चेति॥ 'ये' जनाः परमा
त्मनो 'ज्ञानेन' परोक्षेण 'स्थितप्रज्ञत्वं' स्थिता प्रतिष्ठां प्राप्ता प्रज्ञा
अपरोक्षज्ञानं येषां ते तथोक्तास्तेषां भावस्तत्त्वं तत्प्राप्ताः तत एव 'ब्र
ह्मलोकं' सत्यलोकं गताः तत्र चतुर्मुखोपदेशं प्राप्ताः अथ तेन सह
'परं' आत्मानं गताः बन्धमोक्षाख्यभागयोर्मध्ये तर्तव्यो भागः अंशो
बन्धः तीर्णः तर्तव्यभागो यैस्ते तथोक्ताः ते सर्वेऽपि 'परं' परमात्मा
नं स्वेच्छया उपासत इत्यर्थः। प्रतीकालम्बनविवक्षया 'ब्रह्मलोकं ग
ताः सर्वे' इत्युक्तिरिति केचित्। तत्रान्त्यपादः साध्याभिधायी, उपा
न्त्यः साधनाभिधायी, अन्ये तदुपपादकसमर्पका इति स्मृतेः प्रकृतो
पयोगो द्रष्टव्यः। इतीति। इति वायुप्रोक्ते एतदेवोक्तमित्यर्थः॥ १७॥
॥ इति हान्याधिकरणम् ॥