पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 889, कुल 1267 में से
संदर्भ में पढ़ें८४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
अपूर्वत्त्वेऽपि समानानामेवोपसंहारः । न तु त्रिविक्र-
मत्त्वादीनां कादाचित्कानां पृथक्त्वेन नित्यविक्रान्त्य-
दिष्वन्तर्भावात् ॥ २० ॥
( २ ) सू—ॐ ॥ सम्बन्धादेवमन्यत्रापि ॥ ॐ ॥ २१ ॥
रूपाणां योग्यानामेव क्रियाणामित्यर्थः । उपसंहार इति सूत्रेऽनुवृत्तं
पदम् । उपसंहृत्योपासनमित्यर्थः । एवशब्दव्यावृत्तिं दर्शयति--न
त्विति । तुशब्दो योग्यत्वविशेषद्योतकः । त्रिविक्रमत्वेति । अत्र त्रित्व-
स्यान्वयः पादद्वारा विन्यासेषु, त्रिविक्रमरूपस्य पादत्रययुक्तत्वात् ।
त्रयो विक्रमा यस्य स तथोक्तः, तस्य भावस्तत्त्वं त्रित्वसङ्ख्योपेतपा-
दविक्षेपरूपक्रियादीनामित्यर्थः। आदिशब्देन रिङ्गणरमणभक्षणसंहर-
णादिक्रिया गृह्यन्ते । कादाचित्कानामिति । कदाचिदभिव्यक्तानामि-
त्यर्थः । ननु त्रिविक्रमत्वादीनामप्यन्तर्भावेन कदाचिद्विशेषरूपेण
च उपास्यत्वान्निषेधायोग इत्यत आह—पृथक्त्वेनेति । सदेत्यपि प्राग-
ध्याहार्यम् । तथा च सर्वदा त्रिविक्रमत्वादिविशेषाकारेणोपसंहार
इत्यर्थः । ननु त्रिविक्रमत्वादिक्रियाणां सदा पृथक्त्वेनानुपासने सर्व-
था तन्निषेधादनुपासनमेव प्राप्नोति प्रकारान्तरेणोपासनानुक्तेरि-
त्याशङ्कानिरासाय—अभेदादित्युक्तं सूत्रे, तद्व्याचष्टे—नित्येति । किं-
त्वर्थकस्तुशब्द आदौ संयोज्यः । तेन सौत्रचशब्दस्तुशब्दार्थकत्याऽ-
पि व्याख्यातः । त्रिविक्रमत्वादीनामित्यत्राप्यन्वीयते । विक्रान्तिः क्रि-
या । आदिपदेन पूर्वोक्तमुच्यते । अन्तर्भावादिति । अन्तर्भाव्य उपसं-
हारः । नित्यमनन्तरूपेषु अनन्तक्रियास्सन्तीत्युपास्तौ त्रिविक्रमत्वा-
दीनामपि सामान्यत उपास्यासु नित्यविक्रान्त्यादिरूपक्रियासु अन्त-
र्भूतत्वादिति भावः। सूत्रस्य ब्रह्माणीब्रह्मणोः फलवत् उपासनमपि स-
मविषममेवेति उपस्कृतसाध्येनान्वयः ॥
( २ ) ननु न विरिञ्चस्यापि सदा त्रिविक्रमत्वादिविशेषक्रियोपसं-
हारो युज्यते, तासामनित्यत्वेन ध्यानकालेऽभावादित्याशङ्कां परिहर-
त्सूत्रं पठति—सम्बन्धादिति ॥ अत्र सम्बन्धादिति हेतूक्त्या तत्सा-
ध्यं नित्यत्वमपि सूचितमिति भावेन सम्बन्धन्तरप्रदर्शनपूर्वकं सम्ब-
न्धादित्येतद्व्याचष्टे—परमात्मेति । सम्बन्धस्तादात्म्यं परमात्माभिन्न-
त्वेनेत्यर्थः । त्रिविक्रमत्वादीनामिति वर्तते । सूत्रे ऐक्यादित्यनुक्त्वा
सम्बन्धादित्युक्तिः ऐक्येऽपि विशेषबलात्तत्सम्बन्धित्वव्यवहारो न