पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 892, कुल 1267 में से
संदर्भ में पढ़ेंसम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्ये
षाम् । अत एव योग्यताविशेषात् ।
(२) देवादीनामुपास्यास्तु भृतिव्याप्त्यादयो गुणाः ।
चष्टे-सम्भृतीति ॥ अत्रापिशब्दो नञ्समाकर्षकः । उपसंहर्तव्ये इति
शेष इत्याशयेन सम्भृतिद्युव्याप्त्यपीति साध्यांशमनूद्य तत्तात्पर्यमाह-
सम्भृतीति । द्यावापृथिव्योर्भरणं सम्भृतिः, द्युत्या महाप्रकाशेन व्याप्तिः
द्युव्याप्तिः कर्तरि षष्ठ्यौ। तथा च 'उक्षा स द्यावापृथिवी बिभर्ति' (ऋ.
१०-३१-७.) 'एष हि सर्वेषु लोकेषु भाति' (छा.४-१५-४.) इत्यादौ प्रतीतेः स
म्भरणप्रकाशव्याप्ती देवादिभ्योऽन्यैर्मनुष्योत्तमैः 'नोपसंहर्तव्ये' उपसं
हृत्योपास्ये न, किन्तु देवादीनामेवोपसंहृत्योपास्ये इत्यर्थः । सूत्रे सम्भृ
तिद्युव्याप्ती इति द्विवचनान्तं पदम्, अप्रगृह्यत्वं तुछान्दसमिति ज्ञापना
यसम्भृतिद्युव्याप्ती अपीति प्रकृतिभावेन निर्देशः । अपिशब्दलब्धार्थो-
नान्येषामिति । तत्त्वप्रदीपे तु 'भृतिव्याप्त्यादयो गुणाः' इति प्रमाणानु
सारेण सूत्रे द्विवचनमविवक्षित्वा सम्भृतिद्युव्याप्त्यादयोऽपि गुणा दे
वानामुपसंहर्तव्याः, नानन्दादय एव । एवमपिशब्दात् वीर्यैश्वर्यादयो
ऽपि ग्राह्याः । द्वित्वमात्रव्यावृत्त्यर्थं किलाप्रगृह्य असूत्रयत इत्यपेस्समु
च्चयार्थत्वमुक्तम् । अनेन सूत्रे समाहारद्वन्द्व इति केषां चित्पक्षो निर
स्तः । सूत्रे अतश्चेत्यन्वयः चशब्द एवार्थ इत्याशयेन हेत्वंशं व्याचष्टे-
अत एवेति । देवादीनामेव तदुपास्तियोग्यता, नान्येषामित्यधिकारि
योग्यतायां विशेषसद्भावादेवेत्यर्थः । योग्यतैवोपास्तिनियमप्रयोजि
का न फलापेक्षेति द्योतयितुमेवशब्दः । न च प्रकाशाद्युपास्त्यभावे मु
क्तौ सर्वेषां स्वस्वयोग्यप्रकाशः स्वावरभरणं च कथं लभ्यत इति वा
च्यम् । स्वस्वयोग्यगुणयुक्तभगवद्रूपविषयस्मृतिरूपप्रतीतिविषयत्वे
न तदविनाभूततत्प्रकाशादिनैव प्रकाशभरणयोः प्राप्त्युपपत्तेः । यथो
क्तं न्यायविवरणे-गुण्याकारस्मृतेरेव द्युतिमात्रं प्रतीयते इति । अ
त एव 'उद्यद्भास्वत्समाभासः' 'युक्ताः प्रदीपवर्णाश्च' 'हरितोपला
भम्' 'हरिन्मणिनिभम्' 'ब्रह्मवायुशिवाहीशविधैः शक्रादिकैरपि ।
सेव्यमानः' 'विधिशर्वपूर्वगीर्वाणविज्ञानदम्' 'अजेशसमितिं प्रति
बोधयन्तम्' इति स्वस्वयोग्यतानुसारेण किञ्चित्प्रकाशविषयकतया
ब्रह्माद्यवरदेवताभरणविषयतया च सर्वेऽपि ध्यानं कुर्वन्ति ॥
(२) ननु सम्भृत्यादिगुणोपास्तिर्देवानामेव योग्येति कुतः, अन्ये