पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 884, कुल 1267 में से
संदर्भ में पढ़ें[अधि - ९. सू - १७.] दीपिकासहितम्. ८३७
९. अधिकरणम् ॥
(१) सू- ॐ ॥ आत्मगृहीतिरितरवदुत्तरात् ॥ ॐ ॥ १७ ॥
न च 'आनन्दादयः प्रधानस्य' इत्युक्तिविरोधः । य-
तः 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै. २-१.) 'विज्ञानमान-
न्दं ब्रह्म' (बृ. ५-९-२८.) इतिवदेवात्मशब्दगृहीतिः ।
'अत्र ह्येते सर्व एकीभवन्ति' (बृ. ३-४-७.) इत्युत्तरात् ।
(२) आनन्दानुभवत्वाच्च निर्दोषत्वाच्च भण्यते ।
९. अधिकरणम् ॥
(१) अत्राधिकरणे उपासनायामानन्दादिचतुर्गुणनियमः समर्थ्य-
ते । 'आत्मेत्येवोपासीत' इति सावधारणश्रुतेरात्मत्वमेव सर्वोपास्यं
न त्वानन्दादयोऽपीति पूर्वपक्षे प्राप्ते सिद्धान्तयत्सूत्रमुपन्यस्यति - आ-
त्मेति ॥ अत्रात्मपदं शब्दपरमित्याशयेन आत्मगृहीतिरित्युक्तहेतोरपे-
क्षितं साध्यमध्याहृत्य दर्शयति - न चेति । इत्युक्तीत्यावर्तते । तथा
च 'आनन्दादयः प्रधानस्य' इत्युक्तेः 'आत्मेत्येवोपासीत' इति सा-
वधारणोक्तिविरोधो नैवेत्यर्थः । कुतो नेत्यतस्तत्र हेतुत्वेन इतरवदि-
ति दृष्टान्तविवरणपूर्वकमात्मगृहीतिरित्येतद्योजयति - यत इति ।
'सत्यं ज्ञानम्' इति तैत्तिरीये 'विज्ञानमानन्दं ब्रह्म' इति बृहदारण्य-
के । इतिवदिति । इत्यादिवाक्येषु यथा अनेकेषां सत्यत्वज्ञानानन्दादी-
नां ग्रहणम्, तथा आत्मशब्देनापि सत्यज्ञानानन्दादीनां 'गृहीतिः' ग्र-
हणं भवेत् । 'आनन्दानुभवत्वाच्च' इति वचनादात्मशब्दस्यापि सत्य-
ज्ञानानन्दादिग्राहकत्वात् । यथोक्तं तत्त्वप्रदीपे - यथेतरेषु विज्ञानमा-
नन्दं ब्रह्मेत्यादिषु वचनेषु नैकगुणगृहीतिः तद्वदितरयुक्तत्वेनैवात्मश-
ब्दगृहीतिरानन्दादयो गुणा आत्मशब्देन विवक्षिता इत्यर्थ इति । कुतो
ऽयमात्मशब्दः सत्त्वानन्दाद्यभिधायको, न स्वामित्वमात्रस्येत्याशङ्क्यो-
त्तरत्वेनोत्तरादित्यंशं व्याचष्टे - अत्रेति । उत्तरादिति । बृहदारण्यके
'आत्मा' इति विधेरुत्तरत्र श्रुताद्वाक्यादित्यर्थः । व्याख्यातमेतत्सर्वंवे-
दान्तनये ॥
(२) आत्मशब्दो न स्वामित्वमात्रं वक्ति, किन्तु सत्त्वानन्दादीन-
पीत्युक्तार्थे स्मृतिं चाह - आनन्देति ॥ ईश्वरो वेदवादिभिर्न केवलं
स्वामित्वादात्मेति भण्यते, किन्तु 'आनन्दरूपत्वात्' अनुभवरूपत्वा-
च्च निर्दोषत्वात् नित्यत्वाच्च 'भण्यते' उच्यत इत्यर्थः । निर्दोषत्वाद्वि