पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 886, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. - सू - १८. ] दीपिकासहितम्. ८३९
त्मशब्दः परमस्य प्रयुज्यते' इति वचनादिति चेत्स
त्यम्, स्याच्चैवम् ।
( २ ) 'आत्मेत्येव' (बृ. ३-४-७.) इत्यवधारणात् । अन्यथा
रत्वात्कथमात्मशब्दोक्तगुणानां सर्वोपास्यत्वमित्यतो प्याह - स्याच्चैव-
मिति । ब्रह्मादीन् प्रत्येव, नान्यान् प्रतीति शेषः । तथा च यद्यात्मश-
ब्दस्य सर्वगुणाभिधायकत्वमङ्गीकृतम् 'तदेवं' तथा स्यादेव, किन्तु
ब्रह्मादीन् प्रत्येव, नाल्पाननुपसंहर्तृन् प्रति, तान् प्रति तु अल्पगुणाभि-
धायकः स्यात् । कुतः ? 'अन्वयात्' तथाऽनुभवात् । अतो विघ्नमक-
रत्वाभावात् तदुपासने सर्वेषां' स्यात् ' युक्तमित्यर्थः ॥
( २ ) ननु ब्रह्मादीनामात्मशब्दः सर्वगुणान् ज्ञापयतीति कुतः, अ-
न्यान प्रतीव तान्प्रत्यल्पगुणाभिधायकः किं न स्यादित्याशङ्कोत्तरत्वे-
नावधारणादित्यंशं व्याचष्टे - आत्मेति ॥ अन्ययोगव्यवच्छेदकावधा-
रणयुक्तत्वादित्यर्थः । अवधारणेऽपि किमायातमित्यत आह - अन्यथे-
ति । आत्मशब्दस्यान्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकत्व इ-
त्यर्थः । सर्वोपसंहारेति । 'गुणैस्सर्वैरूपास्योऽसौ' इत्यादिसर्वोपसंहा-
रपूर्वकोप,सनवचनविरोधादित्यर्थः । अयं भावः - यद्ययमात्मशब्दोऽ-
न्यान् प्रतीव ब्रह्मादीन् प्रत्यल्पगुणाभिधायकः, तर्हि अवधारणमप्य-
न्यान् प्रतीव तान् प्रत्यन्ययोगव्यवच्छेदकमेव स्यात् । न चेष्टापत्तिः ।
तथा सति आत्मशब्दोक्तस्यैवोपास्यत्वप्राप्त्या सर्वोपसंहारवचन-
विरोधः स्यात् । अतोऽसौ ब्रह्मादीन् प्रति सर्वगुणाभिधायक
इति । यद्यपि तत्त्वप्रदीपे सत्यमिति वाक्यं नानुपसंहार एव प्र-
माणं, किन्तु सर्वोपसंहारेऽपि प्रमाणं स्यादेव, कुतः ? 'आत्मे-
त्येव' इति सर्वगुणपूर्ण इत्येवेत्यवधारणात् । 'अन्यथा' एवमर्थानङ्गी-
कारे सर्वोपसंहारवचनविरोधादित्यामेति वाक्यस्यानुपसंहारमात्रमा-
नत्वाङ्गीकारपरतया सत्यमिति भाष्यं व्याख्यातम् । तथाऽपि टी-
काकृत् तदङ्गीकृत्यावधारणादित्यंशं तद्भाष्यं च प्रकारान्तरेणापि व्या-
ख्यातवानिति ध्येयम् । अनेन - 'अन्वयात्' 'आप्तव्याप्तेः' इत्यन्वय-
वचनात् आत्मशब्दे सर्वेषां गुणानां अन्वयात् वाच्यतया सम्बन्धात्
तस्य तदभिधायकत्वात् अत एव श्रुतचतुर्गुणोपासनस्य पुंसः विघ्न-
मकरत्वात् अत एव तदुक्तगुणानां सर्वोपास्यत्वाभावात् न तस्यानुप-
संहारमात्रत्वं युक्तमिति चेत् सत्यं, यतः तथा स्यादेव यत्परेणात्मश-