पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 883, कुल 1267 में से
संदर्भ में पढ़ें८३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
मुख्यं भवेन्न चान्येन फलं मुख्यं क्वचिद्भवेत् ॥
इति बृहत्तन्त्रे ॥ १५ ॥
(५) सू—ॐ ॥ आत्मशब्दाच्च ॥ ॐ ॥ १६ ॥
'आत्मेत्येवोपासीत' (बृ. ३-४-७.) इत्यनुपसंहारे प्र
माणम् ॥ १६ ॥
शः 'सर्वेषां गुणानां 'ज्ञानध्यानसमायोगात्' ज्ञानध्यानयोरुपयोग्यु
पयोग्यभावेन संमेलनान्मुख्यं फलमपरोक्षज्ञानादिकं भवेत्, नान्येन
परोक्षज्ञानमात्रेणेत्यर्थः । तथा च ध्यानपूर्वभाविज्ञानमपि ध्यानोपयो
गितया न मुख्यमिति न मुख्यप्रयोजनान्तराभावहेतोरसिद्धिरिति भा
वः । यद्यपि श्रवणादेस्तत्त्वनिश्चयद्वारा जनलोकादिफलकस्य गुणा
भिधानमुख्यप्रयोजनत्वसम्भवात् मुख्यत्वविशेषणेऽपि प्रयोजनान्तरा
भावहेतोरसिद्धिरेव । तथाऽपि मोक्षाख्यमहाफलसाधनापरोक्षज्ञानसा
धनत्वेन विहितस्य श्रवणादेर्जनलोकादिकं न मुख्यं प्रयोजनमिति
ज्ञानमेव प्रयोजनं वाच्यम् । तथा च श्रवणादेरपरोक्षज्ञानसाधनतत्त्व
ज्ञानार्थत्वेन न श्रवणादिकं गुणकथनस्य मुख्यं प्रयोजनमिति नासि
द्धिरिति भावः । इति बृहत्तन्त्रे कथितत्वान्नासिद्ध्यादिदोष इत्यन्वयः।
अनेनोपसंहारे मुख्यप्रयोजनान्तरशून्यसप्रयोजनसर्वगुणाभिधानमेव
लिङ्गतया प्रमाणमित्युक्तं भवति ॥
(५) एवं सर्वगुणोपसंहारं प्रमाणेन समर्थ्यानुपसंहारं च समर्थ
यत्सूत्रं पठित्वा व्याचष्टे—आत्मशब्दाच्चेति॥ चोऽप्यर्थः । तथा च 'आ
त्मशब्दात्' तद्घटितश्रुतेः अनुपसंहारोऽपि सिद्धयतीति सूत्रार्थमभि
प्रेत्य श्रुत्युदाहरणपूर्वकं सूत्रं व्याचष्टे—आत्मेति । इति वाक्यमिति
शेषः । अनुपसंहार इति । उपासनाक्षिताल्पगुणोपसंहारे प्रमाणमित्य
र्थः । अन्यथा गुणान्तरव्यावृत्तिपूर्वकं आत्मत्वोपासनस्यैवात्र विधा
नादसङ्गतेः । न च अवधारणस्य 'अन्यथात्वम्' इति सूत्रे अयोगव्य
वच्छेदकत्वस्योक्तत्वात् कथमन्ययोगव्यवच्छेदकत्वमुच्यत इति वा
च्यम् । उपसंहारानुपसंहारवद्ब्रह्मादीन् उत्तमाधिकारिणः प्रत्ययोग
व्यवच्छेदकत्वं अधमाधिकारिणः प्रत्यन्ययोगव्यवच्छेदकत्वमित्यधि
कारिभेदेनाविरोधात् ॥ ८ ॥
॥ इति आख्यानाधिकरणम् ॥