पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
४२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
न ह्यान्यस्यान्यत्वं युज्यत इति चेत्—
( २ ) न, स्याल्लोकवत् यथा लोके उदके उदकान्तरस्यैकी
क्षविवक्षया भाष्यस्य प्रवृत्तत्वात्, अत एवात्र पूर्वमपीत्युक्तम् । च्वि
प्रत्ययस्वारस्यात्पूर्वं भेदो मुक्तौ त्वभेद इति पूर्वपक्षविवक्षया अनु
व्याख्यानस्य प्रवृत्तत्वेन विरोधाभावात् । इतीति सूत्रे पूर्वपक्षांशे शेषो
क्तिः । श्रुतिस्तु 'गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु'
( मुं. ३-२-७. ) इति पूर्ववाक्येन सह व्याख्येया । तत्प्रकारस्तु-'गताः'
मुक्ताः 'कलाः' प्राणादिपञ्चदशकलारूपाः देवताः अन्ये च 'प्रतिदेव
तासु' देवताप्रतिबिम्बभूतासु प्रजासु 'प्रतिष्ठाः' स्थितिहेतवः सर्वे दे
वाः मुक्ताः । 'कर्माणि' पुष्कराख्या कर्माभिमानिनी देवता मुक्ता । त
था मुक्तो 'विज्ञानमय आत्मा' जीवश्चेत्येते सर्वे 'अव्यये' देहतोऽपि
नाशशून्ये 'परे' परमात्मनि एकीभवन्ति । लक्षितलक्षणेऽप्यमुपचारो
वा । तथा च परमात्मानं प्राप्य तस्मिन्नेव स्थिताः 'एकीभवन्ति' प्रा
गिभिन्नमतयोऽधुनेश्वरेणैकमत्यं भवन्ति प्राप्नुवन्ति । एकविषयमति
न्तो भवन्तीति यावत् । अथ वा—'प्रागीश्वरव्यक्तिस्थानापेक्षयाऽन्य
त्रेतस्ततः स्थितास्तत्र श्वेतद्वीपादौ मिलिता भवन्ति' इति तत्त्वनिर्णय
टीकायामुक्तः । तत्त्वप्रदीपे तु-'न हास्य कर्म क्षीयते' ( बृ. ३-४-१५. )
इति ज्ञानोत्तरकालीनकर्मणां फलतोऽक्षयत्वोक्तेर्ज्ञानोत्तरकृतकर्मभिः
सह मुक्तजीवस्य परब्रह्मणि स्थितिस्तद्बुद्धिसारूप्यं चेह विवक्षित
मित्युकम् । पूर्वपक्षी ह्येकीभवन्तीत्यस्य परब्रह्मीभवन्तीत्यैक्यमुच्यत
इति मन्यते ॥
( २ ) अथ सिद्धान्तांशं नञध्याहारेणाविभाग इति पदानुषङ्गाभि
प्रायेण च व्याचष्टे—नेति ॥ नेश्वरस्य जगत्कारणत्वादिविरुद्धमित्य
र्थः । कुत इत्यतो यतो 'नाविभागः' अभेदाभावः इति नञावृत्त्यवि
भागपदानुषङ्गाभ्यां लब्धो हेतुर्योज्य इत्याशयेन परेण अभेदसाधकत
योक्तस्य भोक्त्रापत्तेरिति हेतोः व्यभिचारान्यथासिद्धयुक्तिपरतया स्या
ल्लोकवदित्यंशमनूद्य व्याचष्टे—स्यादिति । आद्योऽपिर्यद्यपि तथाऽपीत्य
र्थः । द्वितीयोऽपिशब्दो दृष्टान्तदार्ष्टान्तिकसमुच्चये । लोक इत्युदक इ
ति चाधिकरणसप्तम्यौ, लोकशब्दोकस्य जनस्य वचनाधिकरणत्वा
त्, उदकस्य चैक्याधिकरणत्वात् । लोकपदोक्तस्य जनस्य व्यवहार
[अधि - ५. सू - १४. ] दीपिका सहितम्. ४२७
भावव्यवहारेऽप्यन्तर्भेदोऽस्त्येव, एवं स्यादत्रापि ।
( ३ ) तथा च श्रुतिः-
'यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति' (कठ.
४-१५०) इति ॥
विषयत्वादुदक इति विषयसप्तमी वा । तथा च 'उदके' एकपात्र
स्थितोदके 'उदकान्तरस्य' पात्रान्तरस्थितोदकस्य 'एकीभावव्यव
हारेऽपि' तेनेदमैक्यमापन्नमिति लोककर्तृकाभेदोक्तिसत्त्वेऽपि यथा
जलयोः 'अन्तर्भेदः' अन्योन्यं भेदोऽस्त्येव 'एवं' तथाऽत्रापि जीव
स्येश्वरैक्योक्तावप्यन्तः परस्परं भेदः स्यात् । न चैक्योक्तिविरोधः ।
यतश्चोदके उदकान्तरस्यैकीभावोक्तिवदुपचरिता स्यादिति योजना ।
अनेन सूत्रे लोकवदिति लोकसिद्धजनैकीभावोक्तिवदिति प्रथमान्तात
त्प्रातिपदिकात् लोके जलादाविति सप्तम्यन्ताद्वा वतिरित्युक्तं भव
ति । एवं भोक्त्रापत्तिरिति विपरिणामेन पूर्वपदानुवृत्तिश्च सूचिता ॥
तथा चायं सूत्रार्थः--भोक्तुः जीवस्य आपत्तेः मुक्तौ परब्रह्मत्वप्राप्तेरु
क्तत्वात्तयोः 'अविभागः' अभेदस्सिद्धः । यतो भोक्तुर्मुक्ता परमात्मा
भेदोऽतो संसारेऽपि तस्य तदभेदः प्राप्नोति, अतः असर्वकर्तृसंसारि
जीवाभिन्नत्वाद्ब्रह्मणो न जगत्कर्तृत्वं युक्तमिति चेत्-न, ईश्वरस्य जग
त्कारणत्वादि विरुद्धम्। कुतः? यतो 'नाविभागो' जीवेशयोरभेदाभा
वः। न च भोक्त्रापत्तिश्रुतिविरोधः, यतः 'स्याल्लोकवत्' स्याज्जले जला
न्तरस्यैकीभावोक्तिवद्भेदेऽपि स्याद्युज्यते। न च भेदेऽप्यैक्योक्तौ निमि
त्ताभावः। यतः 'स्याल्लोकवत्' लोके जले जलान्तरस्यैकीभावोक्ति
वत्स्थानैक्याद्यालम्बनत्वेनोपचरिता स्यादत इति ॥
(३) न श्रुतेः सूत्रान्तरेणेोपचरितार्थत्वकल्पनं क्रियते, किन्तुश्रुत्याऽ
पि तदुक्तमित्याह-तथाचेति ॥ यथा सूत्रकृदाह, तथा श्रुतिश्चाहेत्यर्थः।
'निरञ्जनः परमं साम्यम्' (मुं. ३-१-३.) इत्याद्यैक्यविरोधश्रुतिरपि
चशब्देन गृहीता । 'एवं मुनेर्विजानत आत्मा भवति गौतम' (कठ.४-
१५.) इति श्रुतिवाक्यशेषः । कठवल्ल्यां नचिकेतसं प्रति यमवचनमे
तत्र- 'हे गौतम तद्गोत्रोद्भव नचिकेत' यथा 'शुद्धे' एकपात्रस्थितोदके
यथेष्टं प्रक्षिप्तशुद्धोदकं तादृगेव भवति, न तु तदेव, एवं ब्रह्म विजानतो
'मुनेः' मुनिवर्गस्य 'आत्मा' स्वामी मुख्यवायुरपि मुक्तः सन् 'तादृगेव
भवति' परमात्मसदृश एव भवति, न तु स एव, किन्तु अन्ये जीवा
7:
वशब्दव्यावर्त्यं दर्शयति—न चेति । चस्त्वर्थः । 'एतत्' एतत्स्वरूप-
Line 18:
म् । कुत इत्यतो युक्तिमाह—यत इति । अवृद्धिरित्यपि छेदः । त-
Line 19:
थाच मिश्रणात्पूर्वं अवृद्धिस्तदनन्तरं वृद्धिश्च यतः प्रदृश्यते अत इत्य-
Wait, look at मिश्रणात्पूर्वं: is it मिश्रणात्पूर्वं or मिश्रणात्पूर्वम्?
It has an anusvara: मिश्रणात्पूर्वं.
Line 20:
र्थः । दार्ष्टान्तिकमाह—एवमिति । हिशब्दः प्रसिद्धौ 'जीवो' ज्ञानिजी-
Wait, check line numbering!
Let's trace from top:
Line 1: header
Line 2: (४) स्कान्दे च...
Line 3: न चैतदेव...
Line 4: एवमेव हि...
Line 5: प्राप्तोऽपि...
Line 6: इति काठकभाष्य...
Line 7: जानतो मुनेः...
Line 8: मुक्तः परमात्मानं...
Line 9: वृतः । छान्दोग्य...
Line 10: 'विजानतः'...
Line 11:
[ अधि - ५. सू - १४. ] दीपिकासहितम्. ४२९
( ५ ) ब्रह्मेशानादिभिर्देवैर्याप्तुं नैव शक्यते ।
तद्यत्स्वभावः कैवल्यं स भवान् केवलो हरे ॥ इति च ।
( ६ ) ‘ न ते महित्वमन्वश्नुवन्ति ’ (ऋ. ७-९९-१.) ‘ न ते
विष्णोजायमानो न जातः’ (ऋ. ७-९९-२.) इति च ।
( ७ ) फलत्वेऽपि युक्तिविरोधे
र्धश्लोके विपक्षे सयुक्तिकं साध्याभावोपपादनेन व्यभिचारो दृढीकृ-
तः । उत्तरश्लोके तु पूर्वपक्ष्युक्तहेतोरन्यथासिद्ध्युपपादनायैक्यविरो-
धिविरुद्धधर्मोपन्यास इति विवेकः । इति स्कान्द इत्यन्वयः ॥
( ५ ) ननु ‘नासौ भवति’ इति वचनमल्पान्सायुज्यभाजोऽपे-
क्ष्यैव प्रवृत्तम्, न तु ब्रह्मादीन् सायुज्यभाजोऽतो न तद्विरोधीत्यत आ-
ह—ब्रह्मेति ॥ मुक्तामुक्तैरित्य
४३० ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
ऽन्तर्भावादत्रोक्तम् ॥ १४ ॥
—::—
६. अधिकरणम् ॥
( १ ) सू—ॐ ॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ ॐ ॥ १५ ॥
स्वतन्त्रबहुसाधना सृष्टिलोंके दृष्टा । नैवं ब्रह्मणः ।
स्याधिकरणस्य फलाध्यायसङ्गतत्वेऽपि 'युक्तिविरोधे' न ह्यन्यस्येत्यु
क्तयुक्तिविरोधपरिहारात्मके ' अत्रापि ' पादेऽन्तर्भूतत्वादत्रेदमधि
करणं ' उक्तं ' विशेषितमित्यर्थः । अन्यथोभयान्तर्गतस्य एकत्रोप्यनु
क्तिप्रसङ्गः । तस्मादुक्तरीत्या सङ्गतिसद्भावादस्मदीयव्याख्यानमेव
युक्तमिति भावः ॥ ५ ॥
॥ इति भोक्त्राधिकरणम् ॥
—::—
६. अधिकरणम् ॥
( १ ) अत्राधिकरणे विष्णोर्जगत्कर्तृत्वे बहुयुक्तिविरोधः परिह्रिय
ते । पूर्वपक्षसिद्धान्तादिप्रदर्शनाय सूत्रमेव आदौ पठति—तदिति ॥
स्वतन्त्रबहुसाधनेति । कर्तृव्यतिरिक्तस्वतन्त्रसत्ताशक्तिप्रवृत्तिमद
धिष्ठानकरणादिरूपबहुसाधनसापेक्षेत्यर्थः । स्वातन्त्र्यं च कर्त्रनधी
नत्वं 'सृष्टिः' घटादेः । स्थित्यादेरप्युपलक्षकमेतत् । एवमित्युक्तेऽर्थे
ति लभ्यते । नेत्यावर्तते । तथा च यतो लोके यथा घटादेः सृष्टिः स्व
तन्त्रबहुसाधना दृष्टा, एवं ब्रह्मणः सकाशाज्जगत्सृष्टिरपि स्वव्यतिरि
क्तबहुसाधना स्यात्। तथाऽनुमेया स्यात् । अत एव तद्युक्तिविरोधान्न
ब्रह्मणो जगत्कर्तृत्वं युक्तमिति योजना। अनेन ब्रह्मणः न जगत्कर्तृत्वं यु
ज्यते । कुतः? महदादिसृष्ट्यादिकं प्रत्येकं कर्तृव्यतिरिक्तबहुसाधनसा
पेक्षं, सृष्टित्वात्, स्थितित्वात्, संहृतित्वाद्धटादिसृष्ट्यादिवदिति बहु
युक्तिविरोधादिति सयुक्तिकः पूर्वपक्षः प्रदर्शितो भवति । ईश्वरसृष्टेः
साधनसापेक्षत्वमात्रसाधने कर्तारं कर्तृत्वान्तर्गतं ज्ञानेच्छादिकं परत
न्त्रसाधनमेकं साधनं चादाय सिद्धसाधनता स्यादिति कर्तृभिन्नेत्या
द्युक्तम्। एवं यथा घटादिसृष्टिः केवलकुलालादैरशक्या तद्व्यतिरिक्तस्व
तन्त्रमृत्पिण्डदण्डादिसाधनसापेक्षा, एवं ब्रह्मणो जगत्सृष्टिरपीति न क
ल्प्यमिति योजनायां सिद्धान्तप्रतिज्ञा च दर्शिता भवति । तर्हि कीदृशी
[ अधि - ६. सू - १५. ] दीपिकासहितम्. ४३१
स्वरूपसामर्थ्यादेव तस्य सृष्टिः ।
( २ ) किं स्विद्वासीदधिष्ठानमारम्भणं कतमत्स्वित्कथाऽऽसी
तस्य सृष्टिरित्यतस्तदुत्तरत्वेन प्रवृत्तस्य तदनन्यत्वमित्यस्याभिप्रायमा-
ह-स्वरूपेति । किंस्वित्याद्युपस्कार्यम् । सामर्थ्यं प्रयत्नादि सामर्थ्योप-
पर्यायप्रयत्नादिरूपमिति सुधोक्तेः । तथा च किन्तु ‘तस्य’ ब्रह्मणः ज-
गतस्सृष्टिः ‘स्वरूपसामर्थ्यात्’ अनन्यप्रयत्नादेरेव भवतीत्यर्थः, न तु
साधनान्तरसामर्थ्यसहकृतादित्येवकारार्थः । यद्वा—यद्यपि लोके घ-
टादिसृष्टिः स्वतन्त्रबहुसाधना दृष्टा । तथाऽपि ‘नैवं ब्रह्मणः’ न तद्दृ-
ष्टान्तेन ब्रह्मणो जगत्सृष्टिस्तथा कल्प्या । किन्तु स्वतन्त्रसाधनस्य त-
दनन्यत्वं, कोऽर्थः ? स्वरूपसामर्थ
४३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ]
त, इति (ऋ. १०-८१-२.) ह्याक्षेपः ।
(३) अधिष्ठानाद्यनुक्तेः, आदिशब्दाद्युक्तिभिश्च ।
(४) परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते ।
म.। श्रुतौ किंशब्दावाक्षेपे । स्विच्छब्दावाक्षेपाणां भिन्नविषयत्वद्योत
कौ । 'यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः'
(ऋ१०-८१-२.) इति वाक्यशेषः । अत्र बभूवेत्यध्याहारः । तथा च 'वि
श्वकर्मा' जगत्कर्ता हरिः सृष्टिकाले 'यतो' येनाधिष्ठानादिना भूमिं द्यां
च जनयन् विशेषेण बभूव । येन चाधिष्ठानादिना 'महिना' स्वमहिम्ना
विश्वचक्षाः सर्वावयवैः सर्वेन्द्रियैर्वा दर्शनशक्तिमान् हरिः भूमिं द्यां च
'और्णोत्' प्रलये आवृणोत् । 'तदधिष्ठानं' अधिकरणं 'किं स्विदासौ
त्' किमासीत् न किमपि । आरभ्यते अनेनेत्यारम्भणं करणं वा
'कतमत्स्वित्' कतमदासीत् । 'कथा' कथंरूपमासीत्, न किञ्चि
न्न कथमपीत्यर्थः । सत्तर्कदीपावल्यां तु—येन करणादिना भूमिं जन
यन् विश्वकर्मा 'विश्वचक्षाः' विश्वद्रष्टा 'महिना' माहात्म्येन द्यां
'और्णोत्' निर्मितवान् तदधिष्ठानादिकं प्रलये 'किमासीत्' न किम
पि, पार्थिवाप्यतैजसवायवीयानां वस्तूनां प्रलयेऽभावादिति श्रुत्यर्थ
उक्तः ॥
(३) किं शब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत
आह—अधिष्ठानाद्यनुक्तेरिति॥ परिहारायेति नायं प्रश्न इति च शेषः।
आदिपदेनारम्भणादिकं गृह्यते । तथा च परिहारायाधिष्ठानाद्यनुक्ते
र्नायं प्रश्नः, किं त्वाक्षेप इति योजना । प्रश्नस्य तैत्तिरीये 'किं स्विद्धि
मस्य भेषजम्' (तै.सं.७-४-१८.) इति प्रश्नस्य 'अग्निर्हिमस्य भेषजम्'
(तै.सं.७-४-१८.) इति परिहारवदत्रापि परिहारो वक्तव्यः स्यादिति भा
वः । न केवलं पूर्ववाद्युक्तमनुमानमागमविरुद्धं, अपि तु युक्तिभिश्चेति
प्रतिपादयितुं प्रवृत्तस्यादिशब्दस्य तात्पर्यमाह—आदिशब्दादिति । गृ
हीताभिरिति शेषः । युक्तिभिरिति । अपरतन्त्रत्वात्स्वतन्त्रत्वात्साध
नसत्ताप्रदत्वादिति व्यतिरेकहेतुभिरित्यर्थः । युक्तिभिश्चेत्यस्य स्वरू
पसामर्थ्यादेव तस्य सृष्टिरिति ज्ञायत इत्यनेनान्वयः ॥
(४) युक्तीनामाभासत्वशङ्कानिरासाय तासां स्मृतिसिद्धतामा
ह—परतन्त्र इति ॥ हिशब्दः प्रसिद्धौ । अपेक्षेत साधनादिकमिति शे
[ अधि - ६. सू - १६. ] दीपिकासहितम्. ४३३
साधनानां साधनत्वं यतः किं तस्य साधनैः ॥
इत्यादिभिः ॥ १५ ॥
( ५) सू—ॐ ॥ भावे चोपलब्धेः ॥ ॐ ॥ १६ ॥
स्वतन्त्रसाधनभावे प्रमाणैरुपलभ्येत ।
( ६) अनुक्तं पञ्चभिर्वेदैर्न वस्त्वस्ति कुतश्चन ।
अतो वेदत्वमेतेषां यतस्ते सर्ववेदकाः ॥
षः । अनेनापरतन्त्रत्वयुक्तिः सूचिता । ' अपेक्षते किं ' नापेक्षत इत्य-
र्थः । अनेन स्वतन्त्रत्वयुक्तिः सूचिता । कुतो नापेक्षत इत्यत आह-
साधनानामिति । ' साधनत्वं ' साधनशक्तिः यतो भवतीति शेषः
' तस्य ' विष्णोः ' साधनैः ' अधिष्ठानादिभिः ' किं ' कृत्यमित्यर्थः ॥
अनेन तृतीययुक्तिरुक्ता । इत्यादिभिरिति । आदीयन्ते उपादीयन्ते
इत्यादयः । तथा च इतिश्रुतिज्ञापिताभिरित्यर्थः । यद्वा — युक्त्यन्तरसू-
चकस्मृत्यन्तरसङ्ग्राहक आदिशब्दः । इत्यादिभिरित्यस्य युक्तिभिरित्य-
नेनान्वयः ॥
( ५) युक्त्यन्तरेण स्वतन्त्रसाधनं प्रतिक्षिपत्सूत्रमुपन्यस्य व्याच-
ष्टे—भावे चेति ॥ स्वतन्त्रेति । स्वतन्त्रसाधनान्तरसत्त्व इत्यर्थः । त-
दङ्गीकारोपलक्षकमेतत् । उपलब्धेः कारणसापेक्षत्वात्तदाह—प्रमाणै-
रिति । वेदादिप्रमाणैरित्यर्थः । उपलभ्येत प्रतीयेत इति लिङ्प्रयोगेन
सूत्रे प्रसङ्गादिति शेषः । उपलब्धेरिति षष्ठी, न परमत इव पञ्चमी ।
चशब्दः प्रसङ्गाच्चेत्यन्वितो बाधकतर्करूपयुक्त्यन्तरसमुच्चायक इति
सूचितं । तथा चास्य तर्कत्वात् न चोपलभ्यते तस्मान्नास्तीति विपर्य-
यपर्यवसाने सूत्रे स्वतन्त्रसाधनान्तराभावः सिद्ध्यतीति भावः ॥
( ६) ननु प्रमाणानुपलब्धमपि वस्तु किं न स्यादित्यत आह—अ-
नुक्तमिति ॥ इतिहासपुराणयोः पञ्चमवेदत्वं प्रसिद्धमिति पञ्चभिरि-
त्युक्तम् । ' च न ' अपि । तथा च पञ्चभिरपि वेदैरुक्तमपि वस्तु
नास्ति, कुतः प्रमाणमात्रासिद्धमस्तीति कैमुत्यपरतयेदं योज्यम् । अ-
न्यथा प्रमाणानुपलब्धमपीति टीका प्रमाणैरिति भाष्यं च अनुपपन्नं
स्यात् । ' कुतश्चन ' किञ्चिदपीति वा । ' एतेषां ' पञ्चानाम् । अत इ-
त्युक्तं विवृणोति—यत इति । ' ते ' पञ्च वेदाः ' सर्ववेदकाः ' सर्वव-
स्तुप्रतिपादकाः । न च वेदानुक्तानां भगवद्गुणानां सत्त्वात् कथं तद-
नुक्तवस्तुमात्रनिषेध इति वाच्यम् । कुतश्चनेत्यस्य केनापि प्रकारेणे 」
५५
४३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
इति स्कान्दे ॥ १६ ॥
( ७ ) 'अद्भ्यः सम्भूतः पृथिव्यै रसाच्च' ( तै. आ-३-१३. )
इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत
आह—
सू—ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥ १७ ॥
त्यर्थाश्रयणात् सामान्यतस्तेषामपि वेदोक्तत्वेन तदनुक्तत्वाभावात् ।
अत एव न 'सन्त्यश्रुताः' (सौपर्णश्रुतिः) इति श्रुतिविरोधः । विशे-
षतोऽश्रुता इत्यर्थाश्रयणात् । स्कान्द इत्यनन्तरं उक्तत्वात्सूत्रकृदुक्तं
युक्तमिति वाक्यशेषः । सूत्रयोजना तु—तस्य स्वतन्त्रसाधनान्तरस्य
भावे वेदादिप्रमाणैरुपलब्धेः प्रसङ्गाच्च तदनन्यत्वमिति । न केवलमा-
रम्भणशब्दादिभ्य इति चार्थः ॥
( ७ ) ननु अद्भ्यः सम्भूत इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजा-
मि युगेयुगे इति गीतास्मृतौ च भगवदितरप्रकृत्यादिस्वतन्त्रसाधन-
सत्त्वप्रतीतेर्न तदनुपलब्धिरित्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्यव्या-
चष्टे—अद्भ्य इति ॥ आदिशब्देन 'अद्भ्यः सम्भूतो हिरण्यगर्भः'
(महाना.१-११.) इति श्रुतिः । 'प्रकृतिं स्वाम्' इति स्मृतिश्च गृह्यते ।
वाक्येनेति शेषः । साधनान्तरेति । भगवदितरस्वतन्त्रसाधनसत्त्वप्र-
तीतेरित्यर्थः । पारतन्त्र्यानुक्त्यैवात्रोक्तसाधनस्यापि स्वातन्त्र्यं
सिद्ध्यतीति भावः । कथमित्याक्षेपे । 'अनुपलब्धिः' उपलब्ध्द्यभावः ।
अवरस्येत्यनुवादेन तदधीनस्येति तात्पर्यार्थोक्तिः । आरम्भणस्थेत्य-
नुवृत्तपदस्यार्थमाह—साधनस्येति । 'सत्त्वात्' सत्त्वाभ्युपगमात् ।
अनेन सूत्रे वरस्य चासत्त्वात् अवरस्य च सत्त्वादिति च नञोभय-
त्रान्वयः । चोऽवधारणे । नञाकर्षकश्च । तथा च 'वरस्य' स्वतन्त्रस्यै-
व साधनस्यासत्त्वाभ्युपगमात् 'अवरस्य' अस्वतन्त्रस्य तु सत्त्वाभ्युप-
गमात् 'अद्भ्यः' इति वाक्यं तद्विषयं इति नोक्तस्य तद्विरोध इति
सूत्रार्थ उक्तो भवति । 'अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्म-
णस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमा-
जानमग्रे' ( तै. आ. ३-१३. ) इति तैत्तिरीयश्रुतौ तृतीयार्थे पञ्चमीचतु-
र्थ्यौ । आङेवार्थे । तथा च यस्तत्पुरुषाख्यो हिरण्यगर्भो 'विश्वकर्म-
णो' विश्वकर्तुः हरेस्सकाशात् 'अद्भ्यः पृथिव्यै' अबाद्युपलक्षितप-
ञ्चमहाभूतैः 'रसात्' तदुपलक्षिततन्मात्राभिश्च 'सम्भूतः' उत्पन्नः
[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३५
अपरस्य तदधीनस्य साधनस्य सत्त्वात् ॥
( ८ ) 'काल आसीत्पुरुष आसीत्परमं आसीत्तद्यदासीत्तदावृतमा-
सीत्तदधीनमासीद्यह्येक एव परम आसीद्यस्यैतदासी-
न्न ह्येतदासीत्' इति हि काषायणश्रुतिः ॥ १७ ॥
( ९ ) सू—ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वा
सन् ‘अधि’ सर्वस्मादधिकत्वेन समवर्तत । ‘तस्य’ तत्पुरुषस्य ‘अ-
ग्रे’ तदुत्पत्तेः पूर्वमेव ‘जातं’ जातं ‘विश्वं’ ब्रह्माण्डाख्यं ‘रूपं’ च
तुर्मुखविग्रहं ‘त्वष्टा’ महादीप्तिर्भगवान् ‘विदधत्’ धारयन् ‘एति’
वर्तत इत्यर्थः । तत्त्वप्रदीपे तु—आपीयन्ते अनुभूयन्ते इत्यापः कर्मा-
णि, पृथुत्वात्पृथिवी प्रकृतिः, रसो रक्किरिति पदत्रयमन्यथा व्याख्या-
तम् । ‘स्वां’ स्वाधीनां प्रकृतिमवष्टभ्य ‘अवलम्ब्य’ उपादानीकृत्य वि-
विधं जगत्सृजामीति गीतायां भगवद्वचनस्यार्थः ॥
( ८ ) नन्वस्यां श्रुतौ साधनमात्रं प्रतीयते, न तु तस्य भगवदधी-
नत्वम् । तच्च लोकानुसारात् स्वतन्त्रमेव किं न स्यादित्यतश्चशब्दसू-
चितां श्रुतिमुदाहरति—काल इति ॥ यत्तदोरावृत्तिः । तदिति व्यस्तं
समस्तं च । तथा चास्य जगतोऽग्रे प्रलये कालः ‘पुरुषो’ जीवः ‘प-
रमः’ परमात्माऽप्यासीत् । यद्यप्येवं तथाऽपि ‘यत्’ यस्मात् ‘तत्’
तदा प्रलये यद्वस्त्वात्सीत् ‘तत्’ तेन भगवता ‘आवृतं’ तदधीन-
मासीत् । अथ तस्मादेक एव परमः आसीदित्युच्यते । अस्वतन्त्रेऽभा-
वशब्दः । प्रसिद्ध इति हिशब्दार्थः । कीदृशोऽसौ परमः इत्यतो जग-
त्कर्तेत्याह—यस्येति । ‘यस्य’ एतस्य परमस्य सकाशात् ‘एतत्’
जगदासीदित्यर्थः । परमस्य सकाशाज्जगदुत्पत्तिः कुत इत्यत आह—
न हीति । ‘हि’ यस्मात् जगत् सृष्टेः पूर्वं नासीत्तस्मादित्यर्थः । प्राग-
भावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्थान्यस्य अभावाद्धरिरेव ज-
गत्कर्तेति सिद्धयतीति भावः । तत्त्वप्रदीपे तु—‘स एकः परम एवा-
सीत्’ यदधीनमेतदासीन्न स्वतन्त्रं न ह्येतदासीदिति वक्तुं शक्यते ।
परतन्त्रत्वादेव । अथ वा—अथेति विशेषद्योतकः । एको भगवान्नेव
‘परमः’ प्रधान आसीन्न ह्यन्यत्परम आसीत, किन्तु तदधीनमेवेत्यर्थ
उक्तः । श्रुतिरित्यनन्तरं यत इति शेषः । अस्यातोऽवरस्येत्युक्तंयुक्तमि-
त्युपस्कृतेनान्वयः ॥
( ९ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-
४३६ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
क्यशेषात् ॥ ॐ ॥ १८ ॥
‘नासदासीत्’ (ऋ. १०-१२९-१.) इति सर्वस्यास-
त्त्वव्यपदेशान्नेति चेत्—
असादिति ॥ इतीत्यनन्तरं श्रुताविति शेषः । ‘सर्वस्य’ साधनान्तरस्ये-
ति सूत्रे शेषोक्तिः । ‘असत्त्वव्यपदेशात्’ असत्त्वस्योक्तत्वादिति ।
अनेन सूत्रेऽसदिति भावनिर्देश इति सूचितम् । नेति । ‘सत्त्वाच्चावर-
स्य’ इत्यनेनोक्तं साधनान्तरस्य सत्त्वं तस्येश्वराधीनत्वं च नेत्यर्थः ।
‘नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥
न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किञ्च
[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४१७
(१०) न, अव्यक्तत्वपारतन्त्र्यादिधर्मान्तरेण हि तदुच्यते ।
(११) 'तम आसीत्' (ऋ. १० - १२९ - ३.) इति वाक्य
शेषात् ।
र्मोपेतमिति यावत् । 'नास' न बभूव । अपि तु तदैवोद्रिक्तमास । ह
प्रसिद्धमिति । तत्त्वोद्योतटीकायां तु—'स्वधया' सुखेनैव । न तु सु
खप्राप्त्यर्थमिति व्याख्यातम् ॥
(१०) परिहारांशं व्याचष्टे—नेति ॥ नात्र स्वरूपासत्त्वाभिप्रायेण
साधनानामसत्त्वोक्तिरित्यर्थः । कुत इत्यतस्तत्र धर्मान्तरेणेत्यंशमावृ
त्त्या असद्व्यपदेशादित्यनेनान्वितं हेतुत्वेन योजयति-अव्यक्तत्वेति । अ
वरत्वावृतत्वकार्यानभिमुखत्वादिकमादिपदार्थः । अन्यो धर्मो धर्मान्त
रम् । तथा च स्वरूपासत्त्वादन्येन धर्मजातेन तदपेक्षयेत्यर्थः । य
४३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
( १२) न चान्यत्र प्रमाणमस्ति ।
( १३) अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगा
मजोऽन्यः । (महाना. १०-५.)
अविज्ञातं सलिलं भूत्वा आसीत् । तेन ‘तमसा’ सलिलेन ‘इदं’ जगत्
गूळ्हं ‘गूढं’ गूहितमासीदिति श्रुत्यर्थः । भावबोधे तु—टीकायामपरि
मितमित्येतत् आङोऽर्थकथनं, अप्रकेतं प्रभावरहितमिति व्याख्यात
म् । तन्मूलं चिन्त्यम् । प्रलये जडचेतनप्रकृतिभावमभिधाय अगाध
त्वेनाप्रकेतेऽविज्ञाते सलिले इति व्यासतीर्थीयविरोधश्च ॥
( १२) अथ परकृतापव्याख्यां निराचष्टे—न चेति ॥ अस्मिन्नधिक
रणे चेतनाचेतनप्रपञ्चस्य परमार्थतो ब्रह्मानन्यत्वमुच्यते । कुतो? वाचा
रम्भणमित्यादिश्रुतेरिति यत् परेषां व्याख्यानं तन्न युक्तम्। कुतः? यतः
‘अन्यत्र’ चेतनाचेतन प्रपञ्चस्य ब्रह्मानन्यत्वे प्रमाणं नास्त्यत इति न
आवृत्त्या योजना । न केवलं प्रमाणाभावोऽन्यत्र, किन्तु प्रमाणविरोधः
चेत्याशयेन चशब्दः प्रायोजि ॥
( १३) तदुपपादनाय विरोधप्रमाणान्याह—अजो हीति ॥ श्रुति
स्मृतिभ्य इत्यनन्तरं ब्रह्मान्यत्वाद्यवगमादिति वाक्यशेषः । ‘अजो हि’
इति नारायणानुवाके श्रुतम् । ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्र
जां जनयन्तीं सरूपाम’ (महाना. १०-५.) इति पूर्वार्धे श्रुतां ‘लोहितशु
क्लकृष्णां’ रजःसत्त्वतमोगुणात्मिकां ‘बह्वीः प्रजाः सृजमानां सरूपां’
इति सुधागृहीतवाक्यान्तरे बहुवचनश्रवणात् सरूपां स्वसदृ
शानि बह्वीं प्रजां महदादिबहुकार्याणि जनयन्तीमेकां न जायत इत्य
जां प्रकृतिं एको न जायत इति ‘अजः’ संसारिजीवो ‘जुषमाणः’ से
वमानः ‘अनुशेते’ अनुवर्तते । ‘अन्यः’ कश्चिन्मुच्यमानोऽस्यां प्रकृ
तौ भोगान् भुक्त्वा अथ भुक्तो भोगो यस्यां सा तां ‘भुक्तभोगां’ ए
नां प्रकृतिं ‘जहाति’ प्रलये परित्यजतीत्यर्थः । अत्र मुक्तामुक्तयोर्भेदो
क्त्या परमात्मनोऽपि संसारिभ्यो भेदोऽभिहितः, अद्वैतिमते मुक्तपरमा
त्मनोरभेदात् अस्मन्मतेऽपि ‘एनां जहाति’ इत्यनेन परमात्मनोऽप्यु
क्तत्वात् । न च तस्य प्रकृतिभोगत्यागयोरयोग इति वाच्यम् । ‘ऋतं
पिबन्तौ’ (कठ. १-३-१०) ‘श्रोत्रं चक्षुः स्पर्शनं च’ इत्याद्युक्तरीत्या प्र
कृतिभोगस्य क्रियाप्रबन्धे लटं स्वीकृत्य सर्वदा प्रकृत्यबद्धत्वरूपप्रकृ
तित्यागस्य च वक्तुं शक्यत्वात् ॥
[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३९
( १४ ) अनाद्यनन्तं जगदेतदीदृक्प्रवर्तते नात्र विचार्यमस्ति ।
न चान्यथा क्वापि च कस्य चेदमभूतपुरा नापि तथा
भविष्यत्॥
( १५ ) असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ( गी.१६-८.)
( १४ ) एवं परोक्तं चेतनस्य ब्रह्मानन्यत्वे विरोधिप्रमाणमभिधाय
इदानीमचेतनप्रपञ्चस्यापि पराभिसंहिते बाध्यत्वरूपब्रह्मानन्यत्वे तदा
ह—अनादीति ॥ स्मृतिवाक्यमेतत् । 'अनाद्यनन्तं' प्रवाहत उत्पत्ति
नाशशून्यं 'ईदृक्' नानाविधं व्रीह्यादिवत् प्रवाहरूपेण वर्तमानं जग
त्प्रवर्तते प्रतिकल्पमिति शेषः । 'अत्र' अनादित्वानन्तत्वेदृक्त्वरूपार्थे
षु विचार्यं निर्णेतव्यम् न किमप्यस्ति । सर्वं निर्णीतमेवेति भावः । वि
चार्यं संशेतव्यमिति वा । ननु रज्जौ सर्पवद्विश्वस्यापि क्वचित्कस्य चि
द्बाधोऽस्ति किमित्यतो नेत्याह—न चेति । 'इदं' विश्वं 'क्वापि' देशे
काले च 'कस्यापि' पुरुषस्य 'अन्यथा' बाधितं 'पुरा' पूर्वं नाभू
त्, उत्तरत्रापि 'तथा' बाध्यं नाभविष्यदित्यर्थः । भविष्यच्च नेति सु
बन्तपदं वा ॥
( १५ ) विश्वमिथ्यात्वमतमासुरत्वाद युक्तमिति गीतास्मृत्या दर्श
यति—असत्यमिति ॥
अपरस्परसम्भूतं किमन्यत्कामहेतुकम् ।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ॥
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ इति वाक्यशेषः
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ॥
इति पूर्ववाक्ये प्रकृता आसुराः जगत् असत्यत्वादप्रतिष्ठं ज्ञानबाध्यं त
त एवानीश्वरमित्याहुः । ननु यतो यतो जातमसावसावीश्वरोऽस्तु इ
त्यत उक्तं—अपरस्परसंभूतमिति। परमेश्वराधिष्ठितायाः प्रकृतेः महा
न्, महतोऽहंकार इत्यादिक्रमेण परस्परसम्भूतं न भवतीत्यर्थः । ननु
सत्यं न चेत् किमसत् ? एवं परस्परसंभूतं न चेत् किं नित्यं ? स्वतो
वा जातं ? आद्यस्योत्तरं—अन्यदिति । सदसद्भ्यामिति शेषः । द्विती
यस्योत्तरं—कामहेतुकमिति । काम इति तत्कारणमविद्या मिथ्याज्ञा
नं चोपलक्ष्यते । तथा चाविद्यादि कल्पितमित्यर्थः । 'एतां दृष्टिं' बु
द्धिमवष्टभ्य 'नष्टात्मानो' दुष्टचित्ताः, अतएव 'अल्पबुद्धयः' अल्प
ज्ञानाः 'जगतोऽहिताः' विरोधिनोऽहितकरा वा । जगतः 'क्षयाय'
४४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २ । पा - १ । ]
( १६ ) असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः
परां हि ।
यस्सत्यरूपं जगदेतदीदृक्सृष्ट्वा त्वभूत्सत्यकर्मा महात्मा ।
( १७ ) अथैनमाहुस्सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते ।
अथैनमाहुर्नित्यकर्मेति नित्यं ह्येवासौ कुरुते ।
( १८ ) 'यच्चिकेते सत्यमित्तन्न मोघम्' (ऋ. १०-५५-६.)
अनिष्टप्राप्तये विनाशाय वा 'उग्रकर्माणः' क्रूरकर्माणस्सन्तः 'प्रभव
न्ति' कलियुगादावुत्पद्यन्त इत्यर्थः । अत्र जगदसत्यतावादिनामासुर
त्वाद्युक्त्या तत्सत्यताऽवगम्यत इति प्रकृतसङ्गतिः । गीताभाष्ये तु—
न केवलं जगतो मिथ्यात्वादि वदतामासुरत्वं 'असत्यमप्रतिष्ठन्ते' इ
त्यनेनोच्यते, किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वे
षामपीति भावेन न विद्यते सत्यमस्येत्यसत्यं विष्ण्वाख्योत्पादकरहि
तं, एवं न विद्यते प्रतिष्ठा प्रतिष्ठापक ईश्वरश्च विष्णुर्र्यस्य तदप्रतिष्ठ
मनीश्वरमिति चोक्तम् । 'अन्नाद्भवन्ति भूतानि' इत्यादिक्रमेण परस्प
रसम्भूतं न भवतीत्यपरस्परसम्भूतमेतादृशं जगद्ये आहुः, ते आसुरा
इति व्याख्यातम् ॥
( १६ ) विश्वमिथ्यात्वमतस्यासुरत्वं युक्तं, विष्णुमाहात्म्यविरुद्धत्वा
दित्येतदुच्यते—असत्यमाहुरिति ॥ स्मृतिवाक्यमिदम् । यतः एतज्ज
ग
[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४४१
इत्यादिश्रुतिस्मृतिभ्यः ।
(१९) परस्परविरुद्धे तु वाक्यानां यत्र युक्तता ।
तथैवार्थः परिज्ञेयो नावाक्या युक्तिरिष्यते ॥
इति बृहत्संहितायाम् ॥
'जेता' प्राप्ता, तथाऽपि तेभ्यः स्पार्हं वसु यज्ञादिफलं दाताऽपि प-
रमेश्वरः इन्द्रादिनामा 'यत' 'विश्वं' 'चिकेत' चकार । कित करणे ।
तत् 'सत्यमित्' सत्यमेव, न मिथ्या । कुतो ? यतः तत् 'न मोघं'
अर्थक्रियाद्यनुपयुक्तं न भवतीत्यर्थः । यद्वा-'स्पार्हं' स्पृहणीयं 'वसु' स्व-
र्गभूम्यादिकं बल्यादिभ्यो जेता इन्द्रादिभ्यो दाताऽपीत्यर्थः । आदिपदेन
'कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छा-
श्वतीभ्यस्समाभ्यः' ( ईशा.८.) ।
इतीशावास्यवाक्यम्, ।
विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।
प्रधन्वस्य महतो महानि सत्यासत्यस्य करणानि वोचम् ॥
( ऋ. २ - २४ - १२. )
इति ऋग्वेदवाक्यं च गृह्यते, अन्यानि च । 'कविः' सर्वज्ञः 'मनी-
षी' ब्रह्मादिसर्वमनसामीशिता प्रेरकः णिनिप्रत्ययान्तोऽयं शब्दः । प-
रिभवति सर्वानिति 'परिभू' सर्वोत्तमः परमनपेक्ष्य स्वयमेव भव-
तीति 'स्वयम्भूः' अनन्याश्रयः स्वतन्त्रः परमेश्वरः 'अर्थान्' महदा-
दीन् 'शाश्वतीभ्यः समाभ्यः' सप्तम्यर्थे पञ्चमी सर्वेष्वपि कालेषु
'याथातथ्यतः' तथाभावमनतिक्रान्तं यथातथं तस्य भावो याथा-
तथ्यं ततो याथातथ्येनैव अबाधिततयैव सत्यानेव 'व्यदधात्' निर्मित-
वानित्यर्थः । निर्माणशक्तिप्रदर्शनाय कविरित्यादि । हे मघवानौ यश-
स्विनौ धनवन्तौ चेन्द्राबृहस्पती 'युवोः' युवयोरधीनं विश्वं 'सत्यमि-
त्' सत्यमेव । कुतः ? 'वां' युवयोः सत्यजगत्स्र्जनादिरूपं 'व्रतं'
कर्म 'आपश्चन' सर्वदेवता अपि 'प्रमिनन्ति' जानन्ति यतः, न के-
वलमहमेव प्रतिपन्न इति मन्त्रद्रष्टा द्विरूपमिन्द्रबृहस्पतिशब्दवाच्यं प-
रमेश्वरं प्रत्याह ॥
( १९) ननु न जीवो ब्रह्मणो भिद्यते चेतनत्वात्, ब्रह्मवत, प्रपञ्चो
वा बाध्यो दृश्यत्वाच्छुक्तिरजतवदित्यादियुक्तिसद्भावात्कथमन्यत्र प्र-
माणाभाव इत्यत आह—परस्परेति ॥ तुरेवार्थोऽप्यर्थः । तथा च वा-
क्यानां परस्परं विरोधे सत्येव 'यत्र' यस्मिन्नर्थे 'तथैव युक्तता' ए-
५६
४४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १.० ]
(२०) विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति च ।
(२१) ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
कवाक्यानुसारेणैव युक्तिसिद्धताऽस्ति सोऽर्थो विज्ञेयस्स्यात् । एता
वता 'अत्राक्या' श्रुतिस्मृत्यानुकूल्यहीना केवला युक्तिरपि न प्रमाणं
'इष्यते' अङ्गीक्रियते प्रामाणिकैः । शुष्कयुक्तिसिद्धार्थोऽपि न विज्ञे
य इत्यर्थः । बृहतसंहितायामित्यनन्तरं न केवल युक्तिः प्रमाणमित्युक्त
मिति शेषः ॥
(२०) ननु यथोदाहृतश्रुत्यादिकं सत्यत्वे प्रमाणम्, तथाऽचेतनप्र
पञ्चस्य बाध्यत्वरूपे ब्रह्मानन्यत्वेऽपि 'वाचारम्भणम्' इत्यादिश्रुति
स्मृतयः प्रमाणं सन्तीत्यत आह—विरुद्धवदिति ॥ पारमार्थिकविरो
धे त्याज्यत्वमेव स्यात्, न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् ।
यदि तर्हीत्यर्थे यत्र तत्रेति निपातौ । वैशब्दः प्रसिद्धौ । दृष्टं प्रत्यक्षं अ
तिबलबहुप्रमाणदर्शनं वा । तथा च ये मिथ्यात्वसत्यत्वादिरूपार्थद्वय
बोधका आगमा यदि 'मिथः' परस्परं विरुद्धवत्प्रतीयन्ते । तर्हि दृ
ष्टानुसारेण तेषामापाततः प्रतीतादन्योऽर्थः 'अन्ववेक्ष्यते' मुख्यवृ
त्त्याऽवगम्यत इत्यर्थः । इति चेति । ब्रह्मतर्के उक्तमिति शेषः । चः पू
र्वप्रमाणसमुच्चये । तथा च प्रकृते साक्षिप्रत्यक्षानुसारेण अनन्यत्वश्रु
त्यादीनामन्यथा व्याख्येयत्वान्न तेऽन्यत्र प्रमाणमिति भावः ॥
(२१) स्मर्यते च प्रपञ्चमिथ्यात्ववादिश्रुत्यादेरन्यर्थवर्णनं इति भा
वेनाह—ईश इति ॥ इतिशब्दः प्रत्येकमभिसम्बध्यते । एवमपिशब्दोऽ
पि । अत एव द्विर्ग्रह्णमिति तत्त्वोद्योतटीकोक्तिः । इत्यादिवदितिव
तिः । इत्याद्यर्थसाधकवचनयुक्तिवदित्यर्थः अत्रेशोऽप्यनीश इत्येकं मतं,
जगन्मिथ्येत्यपरं, गुरुरपूज्य इत्यन्यत् । आदिशब्देनैकः चेतनः परब्रह्म
भावो मोक्ष इत्यादिमतं गृह्यते। तथा चेशोऽप्यनीश इत्यादिवचनवत्
'प्रमाणानि' तथा प्रतीतानि वचनानि यतो बहुभिर्वैदिकैः प्रमाणैर्विरु
द्धान्यत आभासाः आभासानीति 'वैदिकैः' वेदार्थज्ञैर्ज्ञेयानीत्यर्थः। अथे
ति समुच्चये । एवमादयो युक्तयोऽपि यस्माद्वैदिकैर्बहुभिः प्रमाणैः विरु
द्धास्तस्मादाभासा इति ज्ञेया इत्यर्थः। वचनापेक्षया विरोधिप्रमाणानां
[ अधि - ६. सू- १८. ] दीपिकासहितम्. ४४३
( २२ ) वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः ॥
इति च भागवततन्त्रे ।
( २३ ) शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । निरवकाशत्वादेरप्युपलक्षकमेत
त् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्यसूचनाय बहुभिरि
ति वैदिकैरिति चोक्तम् ॥
( २२ ) यथा प्रमाणविरुद्धानां दृश्यत्वादियुक्तीनामविषयवृत्तित्वेन
व्याप्तिशून्यत्वेन च आभासत्वात् सर्वथा हेयत्वम्, किं तथा वचनाना
मपीत्यपेक्षायामाभासत्वमेव विभज्याह—वेदेति ॥ वेदमन्तरन्तीति
वेदानुसाराणि, वेदश्च वेदानुसाराणि च वेदवेदानुसाराणीति विग्र
हः । वचनेषु कार्येवेति च शेषः । तु
४४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
( २४ ) प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ॥
इति पुरुषोत्तमतन्त्रे ॥ १८ ॥
( २५ ) सू— ॐ ॥ युक्तेः शब्दान्तराच्च ॥ ॐ ॥ १९ ॥
साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् ॥
केवलप्रमाणसाधनत्वेन ततोऽस्यावरत्वात् । दृष्टादृष्टसर्वविषयकत्वेन
दृष्टमात्रविषयकप्रत्यक्षात्पूर्वभावित्वाच्च मध्यमत्वमिति भावः । अधमं
प्रमाणं त्वसर्वविषयत्वात्प्रत्यक्षरूपानुप्रमाणं स्मृतमित्यर्थः ॥
( २४ ) ततः किमित्यतो ‘नावाक्या युक्तिरिष्यते’ इत्युक्तं प्रपञ्चय-
ति—प्रत्यक्षयोरिति ॥ अपेक्ष्यन्ते इति शेषः । आद्यशब्देनानुमानविरो-
धार्थापत्त्यादिकं गृह्यते । तथा चानुप्रमाणरूपानुमाद्यास्तु यतः प्रत्यक्ष-
योरागमयोर्विरोधे सति तत्रैकार्थनिश्चयाय सहायत्वेनापेक्ष्यन्ते अतः-
‘स्वतन्त्राः’ केवलाः ‘प्रमाणपदवीं’ प्रमाणभावं न ययुरतः सर्वावरा
इत्यध्याहारेण योजना । अतो न केवलया दृश्यत्वादियुक्तैरसाधकत्व-
मिति भावः । पुरुषोत्तमतन्त्र इत्यनन्तरं केवलयुक्तेरसाधकत्वं उक्तमि-
ति शेषः । अतो न चान्यत्र प्रमाणमस्तीत्युक्तं युक्तमिति भावः ॥
( २५ ) ननु साधनान्तरमभ्युपगम्य तस्येश्वराधीनत्वकथनापेक्षया
साधनाभावकथनमेव वरं, साधनादिशून्यस्य सृष्ट्यादिकर्तृत्वमभ्युपग-
मे महिमाधिक्यलाभादित्याशङ्कां परिहरन्सूत्रमुपन्यस्यति—युक्तेरि-
ति ॥ अत्र नेत्यस्यानुवृत्त्या न महिमाधिक्यलाभाय भगवतः साधना-
न्तरविधुरत्वमुररीकर्तव्यमिति साध्यलाभात् तत्रोपपत्तित्वेन युक्तेरि-
ति या घटनालक्षणा साधनान्तरेण सृष्टेरपि महिमाविरोधितोक्ता तस्या
सिद्धिपरिहारायागमसिद्धतामाह—साधनानामिति । ‘साधनत्वं’ कार्य-
जननसामर्थ्यं यदाऽऽत्माधीनं स्वाधीनं ‘इष्यते’ अङ्गीक्रियते तदा ‘सा-
धनसम्पत्तिः’ ईशितव्यसिद्धये साधनसम्पादनं आत्मनः ‘ऐश्वर्यद्योति-
का’ तज्ज्ञापिका तदविरोधिनीत्यर्थः । इत्यादिवाक्यात्साधनान्तरेण सृ-
ष्टिरपीश्वरस्य ‘युक्ता’ महिमाविरोधिनीत्यर्थः । इति ज्ञायत इति शेषः ।
आदिशब्देनैवंजातीयकानि वचनानि ग्राह्याणि । लोकप्रसिद्धेरपि ग्रा-
हकमेतत् । इत्यादीति लुप्तविभक्तिकं शक्तोऽपि इति विलक्षणशब्दादि
[ अधि - ६. सू - २१० ] दीपिकासहितम्. ४४५
इत्यादेस्साधनान्तरेण सृष्टिर्युक्ता । 'अद्भ्यस्सम्भूतो
हिरण्यगर्भ इत्यष्टौ' (महाना.१-११.) इत्यादिशब्दान्त-
राच्च ॥ १९ ॥
(२६) सू—ॐ ॥ पटवच्च ॥ ॐ ॥ २० ॥
साधनान्तरेण हि पटादिसृष्टिर्दृष्टा ॥ २० ॥
(२७) सू—ॐ ॥ यथा प्राणादिः ॐ ॥ २१ ॥
ति सुधायामुक्तिः । यद्वा—अन्यशब्दः शब्दान्तरं 'अद्भ्यः सम्भूतः
पृथिव्यै' (तै.आ.३-१३.) इति प्रागुदाहृतश्रुत्यपेक्षया अस्या अन्यत्वात्।
अत एव सूत्रे भाष्ये च प्राचीनश्रुतिसङ्ग्रहार्थे शब्दान्तरशब्दः । न केव-
लं युक्तेर्युक्तत्वेनागमसिद्धत्वात्, किन्तु 'अद्भ्यस्सम्भूतो हिरण्यगर्भः'
इत्यादिशब्दान्तरादपीति चशब्दार्थः । शब्दान्तरबोध्यश्रुत्योः समुच्चय
एव चशब्दः । आदिशब्देनैवंजातीयकवाक्यं गृह्यते । नारायpatha?
के श्रुतमिदं—हिरण्यगर्भः 'अद्भ्यः' अद्भिः अवाद्युपलक्षितपञ्चमहाभू-
तैः 'सम्भूतः' उत्पन्नः 'इति' एवं 'अष्टौ' इन्द्रादिलोकपालाश्च सम्भू-
ता इति तत्त्वप्रदीपदिशाश्रुत्यर्थः । तैत्तिरीये 'अष्टौ पुत्रासोऽदितेः'
(तै.आ.१-१३.) इत्युक्त्वा 'मित्रश्च वरुणश्च धाता चार्यमा चांशुश्च भग
श्चेन्द्रश्च विवस्वांश्च' (तै.आ.१-१३.) इति ये अष्टावन्ये गृहीतास्ते वाऽत्र
ग्राह्याः । अनेन—न विष्णोर्महिमाधिक्यलाभाय प्रलये अवरसाधना-
सत्त्वमुपेयम्, किन्तु तत्सत्त्वमेव । कुतः ? साधनाऽसत्त्वमन्तरा लीलया
दण्डमवष्टभ्य गमनवत्साधनान्तरेण सृष्टेरपि युक्तेर्युक्तत्वाद्भगवन्महि-
माविरोधित्वेनागमसिद्धत्वात् 'अद्भ्यः' इत्यादिशब्दात् शब्दान्तराच्च
तत्सत्त्वपक्षाग्रह इति सूत्रार्थ उक्तो भवति ॥
(२६) न केवलं श्रुतिसिद्धत्वात्, किन्तु साधनसत्त्वस्य युक्तिसि-
द्धत्वाच्च तत्राग्रह इत्याह सूत्रकृत्—पटवच्चेति ॥ अत्र पटपदं सम्प्रति-
पन्नकार्यपरं सत्तत्सृष्टिलक्षकमित्याशयेन सूत्रं व्याचष्टे-साधनान्तरेणे-
ति । कर्तृव्यतिरिक्तसाधनेनेत्यर्थः । दृष्टेत्यनेन दृष्टान्ते हेतुसाध्यसम्प-
त्पत्तिरुक्ता । अनेन-न केवलं श्रुतेः, किन्तु विप्रतिपन्ना सृष्टिः कर्तृव्य-
तिरिक्तसाधनसाध्या सृष्टित्वात्पटादिसृष्टिवदित्यनुमानाच्चावरस्य स-
त्त्वं सिद्ध्यतीति सूत्रार्थ उक्तो भवति ॥
(२७) ननु तर्हि साध्ये स्वतन्त्रपदप्रवेशेन कर्तृव्यतिरिक्तस्वतन्त्र-
साधनसिद्धिरपि स्यादित्याशङ्कां परिहरन्सूत्रमुपन्यस्य व्याचष्टे—य-