सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 482, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 482

[ अधि - ६. सू - १८. ] दीपिकासहितम्. ४३५
अपरस्य तदधीनस्य साधनस्य सत्त्वात् ॥
( ८ ) 'काल आसीत्पुरुष आसीत्परमं आसीत्तद्यदासीत्तदावृतमा-
सीत्तदधीनमासीद्यह्येक एव परम आसीद्यस्यैतदासी-
न्न ह्येतदासीत्' इति हि काषायणश्रुतिः ॥ १७ ॥
( ९ ) सू—ॐ ॥ असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वा
सन् ‘अधि’ सर्वस्मादधिकत्वेन समवर्तत । ‘तस्य’ तत्पुरुषस्य ‘अ-
ग्रे’ तदुत्पत्तेः पूर्वमेव ‘जातं’ जातं ‘विश्वं’ ब्रह्माण्डाख्यं ‘रूपं’ च
तुर्मुखविग्रहं ‘त्वष्टा’ महादीप्तिर्भगवान् ‘विदधत्’ धारयन् ‘एति’
वर्तत इत्यर्थः । तत्त्वप्रदीपे तु—आपीयन्ते अनुभूयन्ते इत्यापः कर्मा-
णि, पृथुत्वात्पृथिवी प्रकृतिः, रसो रक्किरिति पदत्रयमन्यथा व्याख्या-
तम् । ‘स्वां’ स्वाधीनां प्रकृतिमवष्टभ्य ‘अवलम्ब्य’ उपादानीकृत्य वि-
विधं जगत्सृजामीति गीतायां भगवद्वचनस्यार्थः ॥
( ८ ) नन्वस्यां श्रुतौ साधनमात्रं प्रतीयते, न तु तस्य भगवदधी-
नत्वम् । तच्च लोकानुसारात् स्वतन्त्रमेव किं न स्यादित्यतश्चशब्दसू-
चितां श्रुतिमुदाहरति—काल इति ॥ यत्तदोरावृत्तिः । तदिति व्यस्तं
समस्तं च । तथा चास्य जगतोऽग्रे प्रलये कालः ‘पुरुषो’ जीवः ‘प-
रमः’ परमात्माऽप्यासीत् । यद्यप्येवं तथाऽपि ‘यत्’ यस्मात् ‘तत्’
तदा प्रलये यद्वस्त्वात्सीत् ‘तत्’ तेन भगवता ‘आवृतं’ तदधीन-
मासीत् । अथ तस्मादेक एव परमः आसीदित्युच्यते । अस्वतन्त्रेऽभा-
वशब्दः । प्रसिद्ध इति हिशब्दार्थः । कीदृशोऽसौ परमः इत्यतो जग-
त्कर्तेत्याह—यस्येति । ‘यस्य’ एतस्य परमस्य सकाशात् ‘एतत्’
जगदासीदित्यर्थः । परमस्य सकाशाज्जगदुत्पत्तिः कुत इत्यत आह—
न हीति । ‘हि’ यस्मात् जगत् सृष्टेः पूर्वं नासीत्तस्मादित्यर्थः । प्राग-
भावेनोत्पत्तौ सिद्धायां सत्यां तदुत्पादकस्थान्यस्य अभावाद्धरिरेव ज-
गत्कर्तेति सिद्धयतीति भावः । तत्त्वप्रदीपे तु—‘स एकः परम एवा-
सीत्’ यदधीनमेतदासीन्न स्वतन्त्रं न ह्येतदासीदिति वक्तुं शक्यते ।
परतन्त्रत्वादेव । अथ वा—अथेति विशेषद्योतकः । एको भगवान्नेव
‘परमः’ प्रधान आसीन्न ह्यन्यत्परम आसीत, किन्तु तदधीनमेवेत्यर्थ
उक्तः । श्रुतिरित्यनन्तरं यत इति शेषः । अस्यातोऽवरस्येत्युक्तंयुक्तमि-
त्युपस्कृतेनान्वयः ॥
( ९ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे-