पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 479, कुल 1267 में से
संदर्भ में पढ़ें४३२ ब्रह्मसूत्रभाष्यम्. [अध्या - २. पा - १. ]
त, इति (ऋ. १०-८१-२.) ह्याक्षेपः ।
(३) अधिष्ठानाद्यनुक्तेः, आदिशब्दाद्युक्तिभिश्च ।
(४) परतन्त्रो ह्यपेक्षेत स्वतन्त्रः किमपेक्षते ।
म.। श्रुतौ किंशब्दावाक्षेपे । स्विच्छब्दावाक्षेपाणां भिन्नविषयत्वद्योत
कौ । 'यतो भूमिं जनयन् विश्वकर्मा विद्यामौर्णोन्महिना विश्वचक्षाः'
(ऋ१०-८१-२.) इति वाक्यशेषः । अत्र बभूवेत्यध्याहारः । तथा च 'वि
श्वकर्मा' जगत्कर्ता हरिः सृष्टिकाले 'यतो' येनाधिष्ठानादिना भूमिं द्यां
च जनयन् विशेषेण बभूव । येन चाधिष्ठानादिना 'महिना' स्वमहिम्ना
विश्वचक्षाः सर्वावयवैः सर्वेन्द्रियैर्वा दर्शनशक्तिमान् हरिः भूमिं द्यां च
'और्णोत्' प्रलये आवृणोत् । 'तदधिष्ठानं' अधिकरणं 'किं स्विदासौ
त्' किमासीत् न किमपि । आरभ्यते अनेनेत्यारम्भणं करणं वा
'कतमत्स्वित्' कतमदासीत् । 'कथा' कथंरूपमासीत्, न किञ्चि
न्न कथमपीत्यर्थः । सत्तर्कदीपावल्यां तु—येन करणादिना भूमिं जन
यन् विश्वकर्मा 'विश्वचक्षाः' विश्वद्रष्टा 'महिना' माहात्म्येन द्यां
'और्णोत्' निर्मितवान् तदधिष्ठानादिकं प्रलये 'किमासीत्' न किम
पि, पार्थिवाप्यतैजसवायवीयानां वस्तूनां प्रलयेऽभावादिति श्रुत्यर्थ
उक्तः ॥
(३) किं शब्दस्य प्रश्नाक्षेपयोः समत्वात्प्रश्नोऽयं किं न स्यादित्यत
आह—अधिष्ठानाद्यनुक्तेरिति॥ परिहारायेति नायं प्रश्न इति च शेषः।
आदिपदेनारम्भणादिकं गृह्यते । तथा च परिहारायाधिष्ठानाद्यनुक्ते
र्नायं प्रश्नः, किं त्वाक्षेप इति योजना । प्रश्नस्य तैत्तिरीये 'किं स्विद्धि
मस्य भेषजम्' (तै.सं.७-४-१८.) इति प्रश्नस्य 'अग्निर्हिमस्य भेषजम्'
(तै.सं.७-४-१८.) इति परिहारवदत्रापि परिहारो वक्तव्यः स्यादिति भा
वः । न केवलं पूर्ववाद्युक्तमनुमानमागमविरुद्धं, अपि तु युक्तिभिश्चेति
प्रतिपादयितुं प्रवृत्तस्यादिशब्दस्य तात्पर्यमाह—आदिशब्दादिति । गृ
हीताभिरिति शेषः । युक्तिभिरिति । अपरतन्त्रत्वात्स्वतन्त्रत्वात्साध
नसत्ताप्रदत्वादिति व्यतिरेकहेतुभिरित्यर्थः । युक्तिभिश्चेत्यस्य स्वरू
पसामर्थ्यादेव तस्य सृष्टिरिति ज्ञायत इत्यनेनान्वयः ॥
(४) युक्तीनामाभासत्वशङ्कानिरासाय तासां स्मृतिसिद्धतामा
ह—परतन्त्र इति ॥ हिशब्दः प्रसिद्धौ । अपेक्षेत साधनादिकमिति शे