पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 490, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - ६. सू- १८. ] दीपिकासहितम्. ४४३
( २२ ) वेदवेदानुसारेषु विरोधेऽन्यार्थकल्पना ।
अन्येषां तु विरुद्धानां विप्रलम्भोऽथवा भ्रमः ॥
इति च भागवततन्त्रे ।
( २३ ) शास्त्रार्थयुक्तोऽनुभवः प्रमाणं तूत्तमं मतम् ।
प्राबल्यसमर्थनाय बहुभिरित्युक्तम् । निरवकाशत्वादेरप्युपलक्षकमेत
त् । अवैदिकवचनापेक्षया युक्त्यपेक्षया च प्राबल्यसूचनाय बहुभिरि
ति वैदिकैरिति चोक्तम् ॥
( २२ ) यथा प्रमाणविरुद्धानां दृश्यत्वादियुक्तीनामविषयवृत्तित्वेन
व्याप्तिशून्यत्वेन च आभासत्वात् सर्वथा हेयत्वम्, किं तथा वचनाना
मपीत्यपेक्षायामाभासत्वमेव विभज्याह—वेदेति ॥ वेदमन्तरन्तीति
वेदानुसाराणि, वेदश्च वेदानुसाराणि च वेदवेदानुसाराणीति विग्र
हः । वचनेषु कार्येवेति च शेषः । तु