सामग्री पर जाएँ
सर्वकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 487, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 487

४४० ब्रह्मसूत्रभाष्यम्. [ अध्या - २ । पा - १ । ]
( १६ ) असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः
परां हि ।
यस्सत्यरूपं जगदेतदीदृक्सृष्ट्वा त्वभूत्सत्यकर्मा महात्मा ।
( १७ ) अथैनमाहुस्सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते ।
अथैनमाहुर्नित्यकर्मेति नित्यं ह्येवासौ कुरुते ।
( १८ ) 'यच्चिकेते सत्यमित्तन्न मोघम्' (ऋ. १०-५५-६.)
अनिष्टप्राप्तये विनाशाय वा 'उग्रकर्माणः' क्रूरकर्माणस्सन्तः 'प्रभव
न्ति' कलियुगादावुत्पद्यन्त इत्यर्थः । अत्र जगदसत्यतावादिनामासुर
त्वाद्युक्त्या तत्सत्यताऽवगम्यत इति प्रकृतसङ्गतिः । गीताभाष्ये तु—
न केवलं जगतो मिथ्यात्वादि वदतामासुरत्वं 'असत्यमप्रतिष्ठन्ते' इ
त्यनेनोच्यते, किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वे
षामपीति भावेन न विद्यते सत्यमस्येत्यसत्यं विष्ण्वाख्योत्पादकरहि
तं, एवं न विद्यते प्रतिष्ठा प्रतिष्ठापक ईश्वरश्च विष्णुर्र्यस्य तदप्रतिष्ठ
मनीश्वरमिति चोक्तम् । 'अन्नाद्भवन्ति भूतानि' इत्यादिक्रमेण परस्प
रसम्भूतं न भवतीत्यपरस्परसम्भूतमेतादृशं जगद्ये आहुः, ते आसुरा
इति व्याख्यातम् ॥
( १६ ) विश्वमिथ्यात्वमतस्यासुरत्वं युक्तं, विष्णुमाहात्म्यविरुद्धत्वा
दित्येतदुच्यते—असत्यमाहुरिति ॥ स्मृतिवाक्यमिदम् । यतः एतज्ज
ग