पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 489, कुल 1267 में से
संदर्भ में पढ़ें४४२ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १.० ]
(२०) विरुद्धवत्प्रतीयन्ते आगमा यत्र वै मिथः ।
तत्र दृष्टानुसारेण तेषामर्थोऽन्ववेक्ष्यते ॥ इति च ।
(२१) ईशोऽनीशो जगन्मिथ्या न पूज्यो गुरुरित्यपि ।
इत्यादिवद्विरुद्धानि वचनान्यथ युक्तयः ।
प्रमाणैर्बहुभिर्ज्ञेया आभासा इति वैदिकैः ॥
कवाक्यानुसारेणैव युक्तिसिद्धताऽस्ति सोऽर्थो विज्ञेयस्स्यात् । एता
वता 'अत्राक्या' श्रुतिस्मृत्यानुकूल्यहीना केवला युक्तिरपि न प्रमाणं
'इष्यते' अङ्गीक्रियते प्रामाणिकैः । शुष्कयुक्तिसिद्धार्थोऽपि न विज्ञे
य इत्यर्थः । बृहतसंहितायामित्यनन्तरं न केवल युक्तिः प्रमाणमित्युक्त
मिति शेषः ॥
(२०) ननु यथोदाहृतश्रुत्यादिकं सत्यत्वे प्रमाणम्, तथाऽचेतनप्र
पञ्चस्य बाध्यत्वरूपे ब्रह्मानन्यत्वेऽपि 'वाचारम्भणम्' इत्यादिश्रुति
स्मृतयः प्रमाणं सन्तीत्यत आह—विरुद्धवदिति ॥ पारमार्थिकविरो
धे त्याज्यत्वमेव स्यात्, न तु व्याख्येयत्वमित्यतो विरुद्धवदित्युक्तम् ।
यदि तर्हीत्यर्थे यत्र तत्रेति निपातौ । वैशब्दः प्रसिद्धौ । दृष्टं प्रत्यक्षं अ
तिबलबहुप्रमाणदर्शनं वा । तथा च ये मिथ्यात्वसत्यत्वादिरूपार्थद्वय
बोधका आगमा यदि 'मिथः' परस्परं विरुद्धवत्प्रतीयन्ते । तर्हि दृ
ष्टानुसारेण तेषामापाततः प्रतीतादन्योऽर्थः 'अन्ववेक्ष्यते' मुख्यवृ
त्त्याऽवगम्यत इत्यर्थः । इति चेति । ब्रह्मतर्के उक्तमिति शेषः । चः पू
र्वप्रमाणसमुच्चये । तथा च प्रकृते साक्षिप्रत्यक्षानुसारेण अनन्यत्वश्रु
त्यादीनामन्यथा व्याख्येयत्वान्न तेऽन्यत्र प्रमाणमिति भावः ॥
(२१) स्मर्यते च प्रपञ्चमिथ्यात्ववादिश्रुत्यादेरन्यर्थवर्णनं इति भा
वेनाह—ईश इति ॥ इतिशब्दः प्रत्येकमभिसम्बध्यते । एवमपिशब्दोऽ
पि । अत एव द्विर्ग्रह्णमिति तत्त्वोद्योतटीकोक्तिः । इत्यादिवदितिव
तिः । इत्याद्यर्थसाधकवचनयुक्तिवदित्यर्थः अत्रेशोऽप्यनीश इत्येकं मतं,
जगन्मिथ्येत्यपरं, गुरुरपूज्य इत्यन्यत् । आदिशब्देनैकः चेतनः परब्रह्म
भावो मोक्ष इत्यादिमतं गृह्यते। तथा चेशोऽप्यनीश इत्यादिवचनवत्
'प्रमाणानि' तथा प्रतीतानि वचनानि यतो बहुभिर्वैदिकैः प्रमाणैर्विरु
द्धान्यत आभासाः आभासानीति 'वैदिकैः' वेदार्थज्ञैर्ज्ञेयानीत्यर्थः। अथे
ति समुच्चये । एवमादयो युक्तयोऽपि यस्माद्वैदिकैर्बहुभिः प्रमाणैः विरु
द्धास्तस्मादाभासा इति ज्ञेया इत्यर्थः। वचनापेक्षया विरोधिप्रमाणानां