पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 481, कुल 1267 में से
संदर्भ में पढ़ें४३४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
इति स्कान्दे ॥ १६ ॥
( ७ ) 'अद्भ्यः सम्भूतः पृथिव्यै रसाच्च' ( तै. आ-३-१३. )
इत्यादिना साधनान्तरप्रतीतेः कथमनुपलब्धिरित्यत
आह—
सू—ॐ ॥ सत्त्वाच्चावरस्य ॥ ॐ ॥ १७ ॥
त्यर्थाश्रयणात् सामान्यतस्तेषामपि वेदोक्तत्वेन तदनुक्तत्वाभावात् ।
अत एव न 'सन्त्यश्रुताः' (सौपर्णश्रुतिः) इति श्रुतिविरोधः । विशे-
षतोऽश्रुता इत्यर्थाश्रयणात् । स्कान्द इत्यनन्तरं उक्तत्वात्सूत्रकृदुक्तं
युक्तमिति वाक्यशेषः । सूत्रयोजना तु—तस्य स्वतन्त्रसाधनान्तरस्य
भावे वेदादिप्रमाणैरुपलब्धेः प्रसङ्गाच्च तदनन्यत्वमिति । न केवलमा-
रम्भणशब्दादिभ्य इति चार्थः ॥
( ७ ) ननु अद्भ्यः सम्भूत इति श्रुतौ प्रकृतिं स्वामवष्टभ्य विसृजा-
मि युगेयुगे इति गीतास्मृतौ च भगवदितरप्रकृत्यादिस्वतन्त्रसाधन-
सत्त्वप्रतीतेर्न तदनुपलब्धिरित्याशङ्क्य तत्परिहारत्वेन सूत्रमवतार्यव्या-
चष्टे—अद्भ्य इति ॥ आदिशब्देन 'अद्भ्यः सम्भूतो हिरण्यगर्भः'
(महाना.१-११.) इति श्रुतिः । 'प्रकृतिं स्वाम्' इति स्मृतिश्च गृह्यते ।
वाक्येनेति शेषः । साधनान्तरेति । भगवदितरस्वतन्त्रसाधनसत्त्वप्र-
तीतेरित्यर्थः । पारतन्त्र्यानुक्त्यैवात्रोक्तसाधनस्यापि स्वातन्त्र्यं
सिद्ध्यतीति भावः । कथमित्याक्षेपे । 'अनुपलब्धिः' उपलब्ध्द्यभावः ।
अवरस्येत्यनुवादेन तदधीनस्येति तात्पर्यार्थोक्तिः । आरम्भणस्थेत्य-
नुवृत्तपदस्यार्थमाह—साधनस्येति । 'सत्त्वात्' सत्त्वाभ्युपगमात् ।
अनेन सूत्रे वरस्य चासत्त्वात् अवरस्य च सत्त्वादिति च नञोभय-
त्रान्वयः । चोऽवधारणे । नञाकर्षकश्च । तथा च 'वरस्य' स्वतन्त्रस्यै-
व साधनस्यासत्त्वाभ्युपगमात् 'अवरस्य' अस्वतन्त्रस्य तु सत्त्वाभ्युप-
गमात् 'अद्भ्यः' इति वाक्यं तद्विषयं इति नोक्तस्य तद्विरोध इति
सूत्रार्थ उक्तो भवति । 'अद्भ्यस्सम्भूतः पृथिव्यै रसाच्च । विश्वकर्म-
णस्समवर्तताधि । तस्य त्वष्टा विदधद्रूपमेति । तत्पुरुषस्य विश्वमा-
जानमग्रे' ( तै. आ. ३-१३. ) इति तैत्तिरीयश्रुतौ तृतीयार्थे पञ्चमीचतु-
र्थ्यौ । आङेवार्थे । तथा च यस्तत्पुरुषाख्यो हिरण्यगर्भो 'विश्वकर्म-
णो' विश्वकर्तुः हरेस्सकाशात् 'अद्भ्यः पृथिव्यै' अबाद्युपलक्षितप-
ञ्चमहाभूतैः 'रसात्' तदुपलक्षिततन्मात्राभिश्च 'सम्भूतः' उत्पन्नः