पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 491, कुल 1267 में से
संदर्भ में पढ़ें४४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - १. ]
मध्यमं त्वागमो ज्ञेयः प्रत्यक्षमधमं स्मृतम् ॥
( २४ ) प्रत्यक्षयोरागमयोर्विरोधे निश्चयाय तु ।
अनुमाद्या न स्वतन्त्राः प्रमाणपदवीं ययुः ॥
इति पुरुषोत्तमतन्त्रे ॥ १८ ॥
( २५ ) सू— ॐ ॥ युक्तेः शब्दान्तराच्च ॥ ॐ ॥ १९ ॥
साधनानां साधनत्वं यदाऽऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत् ॥
केवलप्रमाणसाधनत्वेन ततोऽस्यावरत्वात् । दृष्टादृष्टसर्वविषयकत्वेन
दृष्टमात्रविषयकप्रत्यक्षात्पूर्वभावित्वाच्च मध्यमत्वमिति भावः । अधमं
प्रमाणं त्वसर्वविषयत्वात्प्रत्यक्षरूपानुप्रमाणं स्मृतमित्यर्थः ॥
( २४ ) ततः किमित्यतो ‘नावाक्या युक्तिरिष्यते’ इत्युक्तं प्रपञ्चय-
ति—प्रत्यक्षयोरिति ॥ अपेक्ष्यन्ते इति शेषः । आद्यशब्देनानुमानविरो-
धार्थापत्त्यादिकं गृह्यते । तथा चानुप्रमाणरूपानुमाद्यास्तु यतः प्रत्यक्ष-
योरागमयोर्विरोधे सति तत्रैकार्थनिश्चयाय सहायत्वेनापेक्ष्यन्ते अतः-
‘स्वतन्त्राः’ केवलाः ‘प्रमाणपदवीं’ प्रमाणभावं न ययुरतः सर्वावरा
इत्यध्याहारेण योजना । अतो न केवलया दृश्यत्वादियुक्तैरसाधकत्व-
मिति भावः । पुरुषोत्तमतन्त्र इत्यनन्तरं केवलयुक्तेरसाधकत्वं उक्तमि-
ति शेषः । अतो न चान्यत्र प्रमाणमस्तीत्युक्तं युक्तमिति भावः ॥
( २५ ) ननु साधनान्तरमभ्युपगम्य तस्येश्वराधीनत्वकथनापेक्षया
साधनाभावकथनमेव वरं, साधनादिशून्यस्य सृष्ट्यादिकर्तृत्वमभ्युपग-
मे महिमाधिक्यलाभादित्याशङ्कां परिहरन्सूत्रमुपन्यस्यति—युक्तेरि-
ति ॥ अत्र नेत्यस्यानुवृत्त्या न महिमाधिक्यलाभाय भगवतः साधना-
न्तरविधुरत्वमुररीकर्तव्यमिति साध्यलाभात् तत्रोपपत्तित्वेन युक्तेरि-
ति या घटनालक्षणा साधनान्तरेण सृष्टेरपि महिमाविरोधितोक्ता तस्या
सिद्धिपरिहारायागमसिद्धतामाह—साधनानामिति । ‘साधनत्वं’ कार्य-
जननसामर्थ्यं यदाऽऽत्माधीनं स्वाधीनं ‘इष्यते’ अङ्गीक्रियते तदा ‘सा-
धनसम्पत्तिः’ ईशितव्यसिद्धये साधनसम्पादनं आत्मनः ‘ऐश्वर्यद्योति-
का’ तज्ज्ञापिका तदविरोधिनीत्यर्थः । इत्यादिवाक्यात्साधनान्तरेण सृ-
ष्टिरपीश्वरस्य ‘युक्ता’ महिमाविरोधिनीत्यर्थः । इति ज्ञायत इति शेषः ।
आदिशब्देनैवंजातीयकानि वचनानि ग्राह्याणि । लोकप्रसिद्धेरपि ग्रा-
हकमेतत् । इत्यादीति लुप्तविभक्तिकं शक्तोऽपि इति विलक्षणशब्दादि