न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 413, कुल 654 में से
संदर्भ में पढ़ेंहि दर्शपूर्णमासप्रयोजनादन्यत्प्रयाजादिप्रयोजनमन्विष्यते इति मन्वानः स्वयं
सूत्रकृत्प्रयोजनं नाख्यत् ,
व्याख्यातारस्तु मुख्यानुषङ्गिकभेदभिन्नप्रयोजनप्रपञ्चं प्रयोजनातिशयव्यु-
त्पादनद्वारकश्रोतृजनोत्साहपरिषोषसिद्धये दर्शितवन्त इति न कश्चिदुपलम्भः।
कथं पुनरङ्गता व्याकरणस्य कमुपकारमावहत इति, क एव पर्य्यनुयो-
गो वेदवेदाङ्गानामनादित्वाद्दीश्वरप्रणीतत्वाद्वा पर्य्यनुयोजनानुपपत्तेः, संक्षेप-
विस्तरवविक्षया हि पाणिनिपिङ्गलपराशरप्रभृतयः तत्र तत्र कर्तारः प्रसि-
द्धि गताः, परमार्थतस्तु वेद इव तदर्थोपि तदर्थावगमो ऽपि प्रायो हि सर्व एवा-
नादयः प्रजापतिनिर्मिता वेत्येवमपर्य्यनुयोज्य एव, अत एव वेदैस्तदङ्गैश्च सह
चतुर्दश विद्यास्थानानि गण्यन्ते—
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।