सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 416, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 416

२ न्यायमञ्जर्याम्
ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा ।
तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥
तच्च द्वादशविधमेव भवति न न्यूनमधिकं वेति समाहित इत्थं भवति वि-
भागाक्षेपः, कुतः पुनरेष प्रमेयविशेषो लभ्यते, निःश्रेयसार्थत्वाच्छास्त्रस्य,
प्रमेयज्ञानस्य(१) प्रमाणज्ञानवदन्यज्ञानोपयोगितामन्तरेण स्वत एव मिथ्याज्ञाने
निवृत्त्यादिक्रमेणापवर्गे हेतुत्वप्रतिज्ञानात् तथाविधस्य चापवर्गोपायत्वस्यात्मादि-
ष्वेव भावात्,
भवत्वेवं, सूत्रस्य तु कथमीदृशप्रमेयविशेषसमर्थने सामर्थ्यं-विशेषात्तु-
शब्दप्रयोगसामर्थ्याच्च ? सत्यमाकाशकालदिगादि प्रमाणविषयत्वात् प्रमेयं-
भवति तत्तु न सप्रयोजनम्, आत्मशरीरेन्द्रियार्थमनःप्रवृत्तिदोषप्रेत्यभावफल-
दुःखापवर्गास्तु प्रमेयं निःश्रेयसहेतुत्वादित्याशयः, तदित्थमेष तुशब्दो निःश्रेय-
साङ्गभूतप्रमेयान्तरपरिहारद्वारेण विशिष्टमात्मादि प्रमेयमिह सूचयति,
तद्द्वादशविधत्वेऽपि हेयोपादेयभेदतः ।
द्विधोच्यते मुमुक्षूणां तथैव ध्यानसिद्धये ॥
तत्र देहादिदुःखान्तं हेयमेव व्यवस्थितम् ।
उपादेयोऽपवर्गस्तु, द्विधाऽवस्थितिरात्मनः ॥
सुखदुःखादिभोक्तृत्वस्वभावो हेय एव सः ।
उपादेयस्तु भोगादिव्यवहारपराङ्मुखः ॥
आत्मनो हि भोगाधिष्ठानं शरीरं, भोगसाधनानीन्द्रियाणि, भोक्तव्या इन्द्रि-
यार्थाः, भोगो बुद्धिः, आन्तरं हि भोगकारणं मनः, प्रवृत्तिः पुण्यपापात्मिका, रागा-
दयश्च दोषाः शरीरादिजन्महेतवः, एतत्कृतश्च शरीरादियोगाभ्यासः प्रेत्यभावः,
एतत्कृतमेव च संसारे सुखदुःखरूपं हि फलं, तच्च द्विविधमेव-विवेकवतः सर्वं
दुःखमेवेति, एवं शरीरादिदुःखान्ते हेयतयैव भावनीयम्, एतदनुषक्तश्चात्माऽपि
तथैव, एतद्वियुक्तस्त्वात्मैवापवर्ग उच्यते, स चोपादेयतया भावनीय इत्यत ए-
वात्मपदसंगृहीतस्याप्यस्य पुनर्निर्देशः स हि परमः पुरुषार्थ इति, एवमिदं द्वाद-
शभेदं प्रमेयं हेयोपादेयतया तत्त्वज्ञानेन भावयन्नभ्यासात्तद्विषयविपरीतमॊहात्मकं-
मिथ्याज्ञानं छिनत्ति,
तत्त्वज्ञानेन तेनास्य मिथ्याज्ञानेऽपबाधिते ।
रागद्वेषादयो दोषास्तन्मूलाः क्षयमाप्नुयुः ॥
क्षीणदोषस्य नोदेति प्रवृत्तिः पुण्यपापिका ।
तदभावान्न तत्कार्यं शरीराद्युपजायते ॥
अशरीरश्च नैवात्मा स्पृश्यते दुःखडम्बरैः ।

( १ ) 'प्रमेयस्य' इति ख० पु० पाठः ।