सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निः-
श्रेयसाधिगमः ॥ १ ॥
आदिवाक्यारम्भाक्षेपसमाधाने—
ननु किमर्थोऽयमादिवाक्यारम्भः, को ऽयं प्रश्नः, शास्त्रं चेदारम्भणीयं
क्रमवृत्तित्वाद्वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यं न ह्यादिवाक्यमकृत्वा
द्वितीयादिवाक्यप्रणयनमुपपद्यते इति ग्रन्थकरणमेवाघटमानं स्यात् , आह—
न खल्वेवं न जाने किं तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यतां
किमादौ तदभिधेयप्रयोजनकीर्तनेन, उच्यते--
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने ।
प्रतिपादयितुं श्रोतॄप्रवाहोत्साहसिद्धये ॥
अभिधेयफलज्ञानविरहास्तमितोद्यमाः ।
श्रोतुमल्पमपि ग्रन्थमाद्रियन्ते न सूरयः ॥
को हि नाम विद्वानविदितविषये निष्प्रयोजने च कर्मणि प्रवर्त्तते, आह च
भट्टः—
सर्वस्यैव हि शास्त्रस्य कर्मणो वा ऽपि कस्य चित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यत इति(१)॥
ननु प्रयोजनपरिज्ञानमादौ श्रोतॄणां कुतस्त्यमिति चिन्त्यताम् , किमस्मादेव
वाक्यादुत युक्तितः वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभ-
वति संशयाद्वा प्रवृत्तो वेदार्थे ऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् ,
युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति नेतरथेति तदव-
गमपूर्विकायां प्रवृत्तावितरेतराश्रयः शास्त्राधिगमनात् प्रयोजनपरिज्ञानं प्रयोज-
नपरिज्ञानाच्च शास्त्रश्रवणे प्रवृत्तिः, उच्यते आदिवाक्यादेव श्रोतुः शास्त्रप्रयोज-
नपरिज्ञानमर्थसंशयाच्च श्रवणे प्रवृत्तिः ।
वेदे ह्यसिद्धप्रामाण्ये महाक्लेशेषु कर्मसु ।
नानर्थशङ्कया युक्तमनुष्ठानप्रवर्त्तनम् ॥
बहुवित्तव्ययायासवियोगसुगमे ऽध्वनि ।
प्रवृत्तिरुचितोदारफले लघुपरिश्रमे ॥
शृण्वन्त एव जानन्ति सन्तः कतिपयैर्दिनैः ।
किमेतत्फलं शास्त्रमुत मन्दप्रयोजनम् ॥
सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे ।
असौ सकलकर्त्तव्यविप्रलोपाय कल्पते ॥
( १ ) श्लो. वा. श्लो. १२ ।

प्रमाणप्रकरणम् ७
आर्त्तो हि भिषजं पृष्ट्वा तदुक्तमनुतिष्ठति ।
तस्मिंत्सविचिकित्सस्तु व्याधेराधिक्यमाप्नुयात् ॥
तेनादिवाक्याद्विज्ञाय साभिधेयं प्रयोजनम् ।
तत्सम्भावनया कार्यस्तच्छास्त्रश्रवणादरः ॥
यैरप्यादिवाक्यमित्थं व्याख्यायते किलानन्वितपदार्थकं वाक्यमनुपादेयं
दशदाडिमादिवाक्यवत् , अन्वितपदार्थकमपि निष्प्रयोजनमनुपादेयमेव सदस-
द्वायसंदशनविमर्शवाक्यमिव, तदिहोपादेयताव्यापकप्रयोजनाद्यनुपलम्भादनाद-
रणीयत्वमिति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानः प्रयोजनाद्यभिधायिनाऽऽदि-
वाक्येन निवृत्तशङ्कः क्रियते इति तैरपि प्रयोजनप्रतिपादनमेवादिवाक्यस्यार्थ
इत्युक्तं भवति, तत्प्रतिपादनेनैव व्यापकानुपलब्धिपरिहारादाशङ्का निवारिता
भवति इति,
यदपि प्रवृत्तिहेतोरर्थसंशयस्य तर्कापरनाम्न औचित्यस्य वा समुत्पाद-
नमादिवाक्येन क्रियते इति के चिदाचक्षते तदपि प्रयोजनाभिधानद्वारकमेव,
प्रयोजनविषयो हि संशयो वा सम्भावनाप्रत्ययो वा प्रवृत्त्यङ्गभूतस्तेनोत्पादनीय
इति तदुत्पत्तौ प्रयोजनाभिधानमेवादिवाक्यस्य व्यापारः संशयस्तु वस्तुवृत्तोप-
नत एव पुरुषवचसां द्वैविध्यदर्शनात् , शौचसमाचारसाधुतादिना तु तस्मिन्
सम्भावनाप्रत्ययो ऽपि लोकस्य भवतीति, तस्मात्प्रयोजनप्रतिपादनार्थमेवादिवा-
क्यमिति सूक्तम् ।
यच्च श्रोतृप्रवृत्त्यङ्गं तद्वक्तुं युक्तमादितः ।
न च प्रयोजनज्ञानादन्यदस्ति प्रवर्त्तकम् ॥
अभिधेयकथनमपि तत्साध्यप्रयोजनोपपादनाय श्रोतृबुद्धिसमाधानाय च
कर्त्तव्यमेव ।
अर्थाक्षिप्तस्तु सम्बन्धः फलशास्त्राभिधेयगः ।
तन्निर्देशेन सिद्धत्वान्न स्वकण्ठेन कथ्यते ॥
अभिधेयस्य शास्त्रस्य वाच्यवाचकभावलक्षणः सम्बन्धः शास्त्रार्थस्य निः-
श्रेयसस्य च साध्यसाधनभावः सम्बन्धः तदाश्रयनिर्देशादेव सिद्धः,
पदार्थोद्देशः—
अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे नि-
र्द्दिष्टास्तेषां स्वरूपमुपरिष्टाद्वक्ष्यते, अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणा-
नि, तत्परिच्छेद्यमात्मादि, नानार्थावमर्शः संशयः, हिताहितप्राप्तिपरिहारौ तत्सा-
धनं च प्रयोजनम्, हेतोः प्रतिबन्धावधारणं दृष्टान्तः, प्रमाणतो ऽभ्युपगम्यमानः
सामान्यविशेषवानर्थः सिद्धान्तः, परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयो ऽव-
यवाः, सन्दिग्धेऽर्थे ऽन्यतरपक्षानुकूलकारणदर्शनात्तस्मिन्सम्भावनाप्रत्ययस्तर्कः,

साधनोपलम्भजन्मा तत्त्वावबोधो निर्णयः, वीतरागवस्तुनिर्णयफलो वादः, वि-
जिगीषुकथा पुरुषशक्तिपरीक्षणफला जल्पः, तद्विशेषो वितण्डा, अहेतवो हेतु-
वदवभासमाना हेत्वाभासाः, अर्थविकल्पैः वचनविघातश्छलम् , हेतुप्रतिबि-
म्बनप्रायं प्रत्यवस्थानं जातिः, सत्यवस्त्वप्रतिभासः विपरीतप्रतिभासश्च निग्र-
हस्थानम् , तत्र वक्ष्यमाणलक्षणसूत्रनिर्देशानुसारेण कानि चिदेकवचनान्तानि
पदानि विग्रहे ग्रहीतव्यानि प्रमाणावयवहेत्वाभासानां बहुवचनेन विग्रहो दर्श-
यितव्यः शेषाणामेकवचनेन लक्षणसूत्रेषु तथा निर्देशाद् , एवं चोद्देशलक्षण-
योरेकविषयता नितरां दर्शिता भवति, इतरेतरयोगे द्वन्द्वः समासः ।
तत्त्वज्ञानपदे समासविचारः—
प्रमाणादीनां तत्त्वमिति सम्बन्धमात्रे षष्ठी, तत्त्वस्य ज्ञानं निःश्रेयसस्या-
धिगम इति कर्मणि षष्ठ्यौ, तत्त्वस्य ज्ञायमानत्वेन निःश्रेयसस्य चाधिगम्यमा-
नत्वेन कर्मत्वात् ,
नन्वेवं व्याख्यायमाने तत्त्वप्रमाणादिपदसापेक्षत्वेनासमर्थत्वादसमासः
प्राप्नोति सापेक्षमसामर्थं भवतीत्याहुः, न चेदं प्रधानं सापेचं येन भवति वै
प्रधानस्य सापेक्षस्यापि समास इति राजपुरुषः शोभन इति वत्समस्येत उत्तरप-
दार्थप्रधानत्वात् षष्ठीतत्पुरुषस्य ज्ञानमेवात्र प्रधानं तत्त्वमुपसर्जनम् , अतश्च
ऋद्धस्य राज्ञः पुरुष इतिवदसमास एव युक्तः ।
ननु ज्ञानमपि प्रमाणादिसापेक्षं भवत्येव तद्विषयं हि तदिति, न
तत्त्वपदेनास्य निराकाङ्क्षीकृतत्वात् , तत्त्वस्य ज्ञानमिति तदिदानीं त-
त्त्वमेव सापेहं वर्त्तते कस्य तत्त्वमिति तस्मात्तत्त्वस्योपसर्जनस्य सतः
सापेक्षत्वादसमास एवेत्येवमभिशङ्कमानाः के चन तत्त्वं च तज्ज्ञानं चेति
कर्मधारयं व्याचचक्षिरे तत्पुनरयुक्तम् , ज्ञानस्य स्वतस्तत्त्वात्तत्त्वविभागा-
भावात् , विषयकृतो हि ज्ञानानां तथाभावो ऽतथाभावो वा तदेत्तत्त्वविषयज्ञानं
भवति न स्वतस्तत्त्वस्वभावम् , किं पुनरिदं तत्त्वं नाम सतो ऽसतो वा वस्तुनः
प्रमाणपरिनिश्चितस्वरूपं शब्दप्रवृत्तिनिमित्तं तदित्युच्यते, तस्य भावस्तत्त्वमिति
तच्च ज्ञानेन निश्चीयते, तत्परिच्छिन्दज्ज्ञानं तत्त्वज्ञानमित्युच्यते, ज्ञानस्यापि
तद्रूपं ज्ञानान्तरपरिच्छेद्यमेव भवति, निर्णीतस्तत्त्वाच्च प्रमाणादय इति व्यतिरे-
कनिर्देश एव युक्तः, न चासमासप्रसङ्गमात्रादन्यथा वर्णनमुचितम् , ईदृशानां
समासानां सामर्थ्यानपायेन बहुशो दृष्टत्वाद् देवदत्तस्य गुरुकुलमिति, उपसर्जनं
नोपसर्जनमिति न कारणमेतत्समासे विग्रहवाक्यसमानार्थतया समासो भवति
सा चेह विद्यते एव, वैयाकरणा अपि ईदृशि पदानि समस्यन्त्येव, अथ शब्दा-
नुशासनं केषां शब्दानां लौकिकानां वैदिकानां चेति, तस्माद्यथाभाष्यमेव षष्ठी-
त्रयव्याख्यानमनवद्यम् ।

प्रमाणप्रकरणम् ९
तत्त्वज्ञानस्य निःश्रेयसाधिगमहेतुत्वपरीक्षा -
ननु षोडशपदार्थतत्त्वज्ञानस्य कथं निःश्रेयसाधिगमहेतुत्वमिति वक्तव्यम् ,
वेदप्रामाण्यसिद्ध्यर्थं चेदं शास्त्रमिति तावन्मात्रमेव व्युत्पाद्यतां किं षोडशपदा-
र्थकन्थाग्रन्थनेन, उच्यते आत्मापवर्गपर्यन्तद्वादशविधप्रमेयज्ञानं तावदन्यज्ञा-
नानौपयिकमेव साक्षादपवर्गसाधनमिति वक्ष्यामः, तत्त्वज्ञानान्मिथ्याज्ञाननि-
रासे सति तन्मूलः संसारो निवर्त्तते इति प्रमेयं तावदवश्योपदेश्यम् , तस्य तु
प्रमेयात्मादेरपवर्गसाधनत्वाधिगम आगमैकनिबन्धनः ।
तस्य प्रामाण्यनिर्णीतिरनुमाननिबन्धना ।
आप्तोक्तत्वं च तल्लिङ्गमविनाभावि वक्ष्यते ॥
प्रतिबन्धग्रहे तस्य प्रत्यक्षमुपयुज्यते ।
को ऽन्यस्सन्तरणे हेतुरनवस्थामहोदधेः ॥
आयुर्वेदादिवाक्येषु दृष्ट्वा प्रत्यक्षतः फलम् ।
वचः प्रामाणमाप्तोक्तमिति निर्णीयतां यतः ॥
उपमानं तु क चित्कर्मणि सोपयोगमित्येवं चतुष्प्रकारमपि प्रमाणं प्रमेय-
वदुपदेष्टव्यम् , संशयादयस्तु पदार्था यथासम्भवं प्रमाणेषु प्रमेये चान्तर्भवन्तो
ऽपि न्यायप्रवृत्तिहेतुत्वात्पृथगुपदिश्यन्ते, न्यायश्च वेदप्रामाण्यप्रतिष्ठापनपूर्वकत्वेन
पुरुषार्थोपयोगित्वमुपयातीति दर्शितम् ।
तत्र नानुपलब्धे ऽर्थे न निर्णीते प्रवर्त्तते ।
किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥
प्रयोजनमनुद्दिश्य न च न्यायं प्रयुञ्जते ।
दृष्टान्तः पुनरेतस्य सम्बन्धग्रहणास्पदम् ॥
सिद्धान्तो ऽपि धर्मग्राहकेणाश्रयासिद्धतामपोद्धरन्न्यायं प्रवर्त्तयति ।
ननु संशयपदेन न्यायविषयं सन्दिग्धं धर्मिणमभिदधता ऽऽश्रयासिद्धि
रपोद्धृतैव, सत्यम् , क चितु विषये संशयमन्तरेणापि न्यायप्रवृत्तिर्दर्शयिष्यते
इति संशयितैकविषयन्यायनियमाभावात्सिद्धान्तो ऽपि वक्तव्यः ।
न्यायाभिधाने ऽवयवाः परंप्रत्युपयोगिनः ।
परार्थमनुमानं च तदाहुर्न्यायवादिनः ॥
ननु प्रतिज्ञोदाहरणाभ्यां तदभिधेयौ सिद्धान्तदृष्टान्तौ गम्येते एव किं
पृथगुपादानेन, यद्येवं हेत्वाख्येनावयवेन तदभिधेयसिद्धेरनुमानमपि पृथग्
न वक्तव्यं स्यात् एवं भवतु किंनश्छिन्नम् मैवम् अभिधेये न्याये निरूपणीये
तदभिधायिनामवयवानामवसर इति तदर्थः प्रथमं व्युत्पादनार्हो भवतीतरथा
ऽवयवमात्रोपदेश एव शास्त्रं समाप्येत ।
२ न्या०

वसानत्वलाभाय निर्णयपदमुपादे- Wait, what is the word beforeवसानत्वलाभाय? Let's look closely at विशिष्टनिर्णया...वसानत्वलाभाय: Line 18: नुमानमिति, तस्मादनुमानस्य विशिष्टनिर्णयावसानत्वलाभाय निर्णयपदमुपादे-! Wait, look at the glyph after निर्णया: Is it just व? Wait: विशिष्टनिर्णयाthen a letter... wait! Look at:विशिष्टनिर्णयाthenव? No, wait! Look at: वि शि ष्ट नि र्ण याthenव सा न त्व ला भा य. Wait, is there an extra letter between याandव? Look at: निर्णयावसानत्वलाभाय. Wait, निर्णय+अवसानत्व=निर्णयावसानत्व! Let's spell: नि र्णा(no, rna-ya) या व सा न त्व ला भा य! Wait, between याandसा: There is just व`!
Wait, let me look at line 1

...? ल क्ष णा नौ प यि क त्वा न्ने ह वि वृ त म् , Wait,लक्षणानौपयिकत्वात्+न+इह=लक्षणानौपयिकत्वान्नेह! Wait, is it लक्षणानौपयिकत्वान्नेहorलक्षणानानौपयिकत्वान्नेह? It is लक्षणानौपयिकत्वान्नेह`.

  1. Detailed Re-reading & Check of each line:

    • Header:
      प्रमाणप्रकरणम्
      Right-aligned: ११

    • Line 1:
      शक्यक्रियम्, अतस्तान्यपि जल्पवितण्डाङ्गत्वाज् ज्ञातव्यानीति पृथगुपदिश्यन्ते ।
      Wait, is there a space between अतस्तान्यपि? It is अतस्तान्यपि.
      जल्पवितण्डाङ्गत्वाज् ज्ञातव्यानीति पृथगुपदिश्यन्ते ।
      Wait, look at अतस्तान्यपि: yes.

    • Line 2:
      दुःशिक्षितकुतर्कांशलेशवाचालिताननाः ।
      Wait, let's look at `दुःशिक्षित

१२ न्यायमञ्जर्याम्
अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसरे एव निर्णयिष्यते(१)।
प्रमाणलक्षणम् ।
प्रमाणसामान्यलक्षणं विभागसूत्रे त्ववसरप्राप्तत्वाद्विदानीमेव विव्रियते—
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि(२) ॥ इति
अत्रेदं तावद्विचार्यते, किं प्रमाणं नाम किमस्य स्वरूपं किं वा लक्षण-
मिति, ततः सूत्रं योजयिष्यते, तदुच्यते, अव्यभिचारिणीमसन्दिग्धाम-
र्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्, बोधाबोधस्वभावा हि
तस्य स्वरूपम्, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्।
ननु च प्रमीयते येन तत्प्रमाणमिति करणसाधनो ऽयं प्रमाणशब्दः, करणं
च साधकतमं तमबर्थश्चातिशयः, स चापेक्षिकः साधकान्तरसम्भवे हि तदपेक्ष-
यातिशयोगात्किं चित्साधकतममुच्यते, सामग्र्याश्चैकत्वात्तदतिरिक्तसाधका-
न्तरानुपलम्भात्किमपेक्ष्यमस्या अतिशयं ब्रूमः, अपि च कस्मिन्विषये सामग्र्याः
प्रमाणत्वम्, प्रमीयमाणो हि कर्मभूतो विषयः सामग्र्यन्तर्भूतत्वात्सामग्र्ये-
वेति करणतामेव यायात्, निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुरालम्बनका-
रकस्य चक्षुरादिवत्प्रमाणान्तःपातित्वात्, कश्च सामग्र्या प्रमेयं प्रमिमीते, प्रमा-
तापि तस्यामेव लीनः, एवं च यदुच्यते प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चत-
सृषु विधासु तत्त्वं परिसमाप्यते इति तद्व्याहन्येत, न च लोको ऽपि साम-
ग्र्याः करणाभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः, न ह्येवं वक्तारो
भवन्ति लौकिकाः सामग्र्या पश्याम इति किं तु दीपेन पश्यामः चक्षुषा निरी-
क्षामहे इत्याचक्षते, तस्मान्न सामग्री करणमकरणत्वाच्च न प्रमाणमिति नेदं
साधु प्रमाणस्वरूपम्—
अत्रोच्यते—यत एव साधकतमं करणं करणसाधनश्च प्रमाणश-
ब्दः तत एव सामग्र्याः प्रमाणत्वं युक्तम्, तद्व्यतिरेकेण कारकान्त-
रे क चिदपि तमबर्थसंस्पर्शानुपपत्तेः, अनेककारकसंनिधाने कार्यं घटमानम-
न्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत्, न चातिशयः कार्यज-
न्मनि कस्य चिदवधार्यते सर्वेषां तत्र व्याप्रीयमाणत्वात्, सन्निपत्य जनकत्व-
मतिशय इति चेन्न—आरादुपकारकाणामपि कारकत्वानपायात्, ज्ञाने च जन्ये
किमसन्निपत्य जनकं सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननि-
ष्पत्तेः, अथ सहसैव कार्यजननमतिशयः, सो ऽपि कस्यां चिदवस्थायां करण-
स्येव कर्मणोपि शक्यते वक्तुम्, अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे
( १ ) निर्णयिष्यते इति युक्तः पाठः ।
( २ ) गो० सू० अ० १ आ० १ सू० ॥

बहलनिशीथे सहसैव स्फुरता विद्युल्लतालोकेन कामिनीज्ञानमादधानेन तज्जन्म-
नि सातिशयत्वमवाप्यते, एवमितरकारककदम्बसन्निधाने सत्यपि सीमन्तिनी-
मन्तरेण तद्दर्शनं न सम्पद्यते, आगतमात्रायामेव तस्यां भवतीति तदपि कर्म
कारकमतिशययोगित्वात्करणं स्यात्तस्मात्फलोत्पादाविनाभावित्वस्वभावत्वमवश्य-
तया कार्यजनकत्वमतिशयः, स च सामग्र्यन्तर्गतस्य न कस्य चिदेकस्य कार-
कस्य कथयितुं पार्यते, सामग्र्यास्तु सो ऽतिशयः सुवचः सन्निहिता चेत्सामग्री
सम्पन्नमेव फलमिति सैवातिशयवती ।
ननु मुख्ययोः प्रमातृप्रमेययोरपि तदविनाभावित्वमतिशयोऽस्त्येव प्रमिति-
सम्बन्धमन्तरेण तयोस्तथात्वाभावात्, प्रमिणोतीति प्रमाता भवति प्रमीयते
इति च प्रमेयम् , सत्यमेतत्—किं तु साकल्यप्रसादलब्धप्रमितिसंबन्धनिबन्धनः
प्रमातृप्रमेययोर्मुख्यस्वरूपलाभः साकल्यापचये प्रमित्यभावाद्गौणे प्रमातृप्रमेये
सम्पद्येते, एवं च साकल्यमन्तरेण प्रमितितमबर्थयोगात्तदेव करणम् ।
यत्तु किमपेक्षं सामग्र्याः करणत्वमिति तदन्तर्गतकारकापेक्षमिति ब्रूमः,
कारकाणां धर्मः सामग्री न स्वरूपहानाय तेषां कल्पते साकल्यदशायामपि त-
त्स्वरूपप्रत्यभिज्ञानात् ।
ननु समग्रेभ्यः सामग्री भिन्ना चेत्कथं पृथङ् नोपलभ्यते, अभेदे तु सर्व-
कारकाणि करणीभूतान्येवेति कर्तृकर्मव्यवहारोच्छेदप्रसङ्गः, मैवम्—समग्र-
सन्निधानाख्यधर्मस्य प्रत्यक्षमुपलम्भात्, पृथगवस्थितेषु हि स्थालीजलज्वलनत-
ण्डुलादिषु न समग्रताप्रत्ययः समुदितेषु तु भवतीत्यतस्तन्तुपटलपरिघटितघटा-
द्यवयविवत्कारककलापनिष्पाद्यद्रव्यान्तराभावे ऽपि समुदायात्मिका सामग्री
विद्यते एवेति समुदायापेक्षया करणतां प्रतिपद्यते तस्मान्न परिचोदनीयमिदं
कस्मिन्कर्मणि सामग्री करणमिति, समुदायिनां सामग्र्यवस्थायामपि स्वरूपा-
नपायात् समुदायिविशेषे कर्मणि सामग्री करणम्, अत एव न प्रमितेर्निराल-
म्बनत्वम् , एतेन प्रमाता पृथगुपदर्शित इति विधाचतुष्टयमपि समाहितम् ।
यत्त्वभ्यधायि सामग्र्याः करणविभक्तिनिर्देशो न दृश्यते इति तत्रोच्यते-
सामग्री हि संहतिः सा हि संहन्यमानव्यतिरेकेण न व्यवहारपदवीमवतरति तेन
सामग्रीं पश्यामीति न व्यपदेशः, यस्तु दीपेन्द्रियाणां तृतीयानिर्देशः स फलो-
पजननाविनाभावित्वस्वभावत्वाख्यसामग्रीरूपसमारोपणनिबन्धनः, अन्यत्रापि च
तद्रूपसमारोपेण स्थाल्या पचतीति व्यपदेशा दृश्यते एव, तस्मादन्तर्गतकार-
कापेक्षया लब्धकरणभावा सामग्री प्रमाणम् ।
अपरे पुनराचक्षते, सामग्री नाम समुदितानि कारकाणि तेषां द्वैरूप्य
महद्यक्षसम् , अथ च तानि पृथगवस्थितानि कर्मादिभावं भजन्ते, अथ च
तान्येव समुदितानि करणीभवन्तीति कोऽयं नयः, तस्मात्कर्तृकर्मव्यतिरिक्त-

१४ | न्यायमञ्जर्याम्

मव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते, तदेव च तृतीया-
व्यपदिशन्ति, दीपेन पश्यामि चक्षुषा निरीक्षे लिङ्गेन बुध्ये शब्देन जानामि
मनसा निश्चिनोमीति ।
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः ज्ञानक्रियायां तावदेवमेवैत-
द्यथा भवानाह, पाकादिक्रियासु क्रियाश्रयसाधारणादुपकारभेदपर्यालोचनया-
भवत्वधिकरणादिकारकान्तरव्यवहारः प्रमितौ तु मनोदीपचक्षुरादेर्न लक्ष्यते
विशेष इति तत्सर्वं कारणत्वेन सम्मतम्, कस्तेषु तमबर्थ इति चेत्, अस्ति
कश्चिद् यदयं लोकोऽहं मया जानामि घटेन घटं जानामि इति न कर्तृकर्मणी
विस्मृत्यापि करणत्वेन व्यपदिशति, नयनमनोदीपशब्दलिङ्गादीनि तु तथा
व्यपदिशति सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम्, तद्वैलक्षण्यमेव
च तेषामतिशय इति तदयमिह प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतुर्वर्गेणैव
व्यवहारः परिसमाप्यते, तस्मात्कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोध-
विधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् ।
बौद्धाभिमतप्रमाणपरीक्षणम्—
ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते बोधः खलु प्रमा-
णस्य फलं न साक्षात्प्रमाणम्, करणाभिधानो हि प्रमाणशब्दः प्रमीयतेऽ-
ऽनेनेति प्रमाणम्, प्रमीयते इति कोऽर्थः प्रमा जन्यते इति, प्रमाणादवगच्छाम
इति च वदन्तो लौकिकाः करणस्यैव प्रामाण्यमनुमन्यन्ते, यस्तु प्रमा प्रमाण-
मिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः, तथा च संशयविपर्ययात्मकं प्रमाण-
फलमिति ज्ञानमात्ममनोऽनुमाने तद्विशेषणार्थपरिच्छेदे वा विशिष्टप्रमाणज-
ननात्प्रमाणतां प्रतिपद्यते, अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजन-
कमप्रमाणमेव प्रमाणमुच्यते—
तदयुक्तम्—सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्र-
सङ्गात्, तस्मात्सामग्र्यनुप्रविष्टोबोधो विशेषणज्ञानमिव क चित्प्रत्यक्षे लिङ्ग-
ज्ञानमिव लिङ्गिप्रमितौ सारूप्यदर्शनमिवोपमाने शब्दश्रवणमिव तदर्थज्ञाने
प्रमाणतां प्रतिपद्यते, अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् ।
अन्ये तुल्यसामग्र्यधीनयोर्ज्ञानार्थयोर्ग्राह्यग्राहकभावं वदन्तो बोधं प्रमाण-
मभ्युपागमन्, क्षणभङ्गिषु पदार्थेषु सहकार्युपादानकारणापेक्षक्षणान्तरसन्ततिज-
ननेन च लोकयात्रामुद्वहत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम् अर्थः सहकारि-
कारणम् अर्थजन्मनि चार्थ उपादानकारणं ज्ञानं सहकारि कारणमिति, ज्ञानं
च ज्ञानार्थजन्यमर्थश्चार्थज्ञानजन्यो भवतीत्येवमेकसामग्र्यधीनतया तमर्थम-
ऽव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति,

Here is the line-by-line transcription of the provided Sanskrit text into clean Unicode Devanagari Markdown:

प्रमाणप्रकरणम् ३५
तदिदमनुपपन्नम्, अफलजनकस्य प्रमाणत्वापत्तेरित्युक्तत्वात्, अपि च
कर्मणि ज्ञानं प्रमाणमिष्यते, यथोक्तं सव्यापारमिवाभाति व्यापारेण स्वक-
र्मणेति, स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाभ्यां ज्ञानार्थक्षणाभ्यामु-
पजनित इति तत्कर्मतां प्रतिपद्यतां न पुनःस्वसमानकालप्रसूतज्ञानक्षणकर्म-
तामिति ।
मनु च तुल्यसामग्र्यधीनतया समानकालतया च तदव्यभिचारसिद्धौ क
कर्मत्वमुपयुज्यते, हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोर्ग्राह्यग्राहकनियमः
किंकृत इति कर्त्तव्यं ज्ञानं प्रकाशस्वभावमिति ग्राहकम्, अर्थो जडात्मेति ग्रा-
ह्यमिति चेदयमपि विशेषस्तुल्यकारणयोः कुतस्त्यः, उपादानसहकारिकारणभे-
दादिति चेन्न, तस्य क्षणभङ्गभङ्गे निराकरिष्यमाणत्वात्,
ये हि निराकारस्य बोधरूपस्य नीलपीताद्यनेकविषयसाधार णत्वाज् जन-
कत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्तदाकारकृतमेव ज्ञानकर्मनियम-
मवगच्छन्तः साकारविज्ञानं प्रमाणमिति प्रतिपेदिरे तेऽपि विज्ञानाद्वैतसिषाध-
यिषयैवमभिधानास्तन्निरासप्रसङ्ग एव निरसिष्यन्ते, न ह्येकमेव साकारं ज्ञानं
ग्राह्यं ग्राहकं च भवितुमर्हतीति वक्ष्यते, अर्थस्तु साकारज्ञानवादिनो न सम-
स्त्येव, स ह्यनुमेयो वा स्यात्प्रत्यक्षो वा, नानुमेयः सम्बन्धग्रहणाभावात् ।
अर्थे हि सति साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥
नापि प्रत्यक्षोऽर्थः, आकारद्वयप्रतीत्यभावात्, अभ्युपगमे चानव-
स्थाप्रसङ्गात्, अर्थाकारो हि निराकारज्ञानेनगम्यो न भवतीति ज्ञानेनाकारव-
त्ता गृह्यते, सोऽयमिदानीं ज्ञानाकारोऽपि ग्राह्यत्वादन्येनाकारवता गृह्यते
सोऽप्यन्येनेति, अथ वा अर्थो निरकारज्ञानग्राह्यतां नोपयातीति स्वग्रा-
हके ज्ञानात्मनि समर्पितात्मा भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुरर्थो-
ऽन्यः कल्पनीयः सोऽपि ग्राह्यत्वात्स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयते
इति साकारं ज्ञानमेवावशिष्यते इति पुनरर्थोऽन्य इतीत्थमनवस्था, प्रतिक-
र्मव्यवस्था(१) तु जनकत्वनिबन्धना भविष्यति वस्तुस्वभावस्यापर्यनुयोज्यत्वात् ,
साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपरिष्टात् सविस्तरमभिधा-
स्यते, साकारपक्षेऽपि च न प्रमाणाद्वयतिरिक्तं फलमुपदर्शितमित्यसत्पक्ष
एवायम् ।
मीमांसकमतम् ।
शाबरास्तु ब्रुवते य एते बोधप्रामान्यवादिनो विज्ञानाद्भिन्नमेव फल-
( १ ) कस्यचित्पुंसः कदाचिदेव कश्चिदेव विषयो ज्ञानकर्म न सर्वस्य सर्वदा सर्व
इति व्यवस्था प्रतिकर्मव्यवस्थापदेनोच्यते ।

१६ न्यायमञ्जर्याम्

मभिदधति ते बाढं निरसनीया भवन्त्येव वयं तु विज्ञानाद्भिन्नमेव फल-
मर्थदृष्टताख्यमभ्युपगच्छामः(१), तेनैव तदनुमीयते ज्ञानं हि नाम क्रियात्मकं
क्रिया च फलानुमेया ज्ञातृव्यापारमन्तरेण फलानिष्पत्तेः संसर्गोऽपि कारकाणां
क्रियागर्भ एव भवति तदनभ्युपगमे किमधिकृत्य कारकाणि संसृज्येरन्, न
चासंसंसृष्टानि तानि फलवन्ति, क्रियावेशवशाच्च कारकं कारकं भवति,
अपरथा हि तद्वस्तुस्वरूपमात्रमेव स्याद् न कारकम्, ततश्च न फलार्थिभिरुपा-
दीयेतेति व्यवहारविप्लवः, तस्माद्यथा हि कारकाणि तण्डुलसलिलानलस्था-
ल्यादीनि सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते,
संसृष्टानि च क्रियामुत्पादयन्ति तथाऽऽत्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो
व्यापार उपजायते स च न प्रत्यक्षः अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणादाकार-
द्वयप्रतिभासाभावादगृहीतस्यापि तस्य चक्षुरादिवदुपायत्वात्परोक्षोऽपि चासौ
विषयप्रकाशतालक्षणेन फलेन कल्प्यते तदाह भाष्यकारः 'न ह्यज्ञा(२)तेऽर्थे
कश्चिद्बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छती'ति, वार्त्तिककृताऽप्युक्तम्—
नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात्प्रमाणमुपकल्प्यते ॥ इति(३) ।
तदेष फलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः प्रमाणम्, इन्द्रियादी-
नां तदुत्पादकतया ज्ञानमुपचरति न साक्षादिति ।

मीमांसकमतनिराकरणम्—

अत्र प्रतिविधीयते – अहो बत इमे केभ्यो विभ्यतः श्रोत्रियाः परं किमपि
वैक्लव्यमुपागताः- न खल्वनित्यं परोक्षं ज्ञानं भवितुमर्हति, ज्ञातोऽर्थ इति क-
चित्तद्विशिष्टार्थप्रत्यवमर्शादर्शनाद् विशेषाणाग्रहणे शुक्लः पट इतिवद्विशिष्टप्रतीते-
रनुत्पादात्, कश्चायमियान्सन्त्रासः विषयग्रहणकाले विज्ञानाग्रहणमात्रेण
बाह्यार्थनिह्नववादिनः शाक्याः शक्याः शमयितुम्, यत्तु क्रियास्वभावत्वात्तस्य
परोक्षत्वं तदयुक्तम्, न हि क्रियास्वभावं ज्ञानमपि तु फलस्वभावमेव, अपि
च क्रियाऽपि प्रत्यक्षद्रव्यवर्त्तिनी प्रत्यक्षैव भट्टानां प्रत्यक्षश्चात्मा तत्किमनेनाप-
राद्धं यदेतदीयक्रियाया अप्रत्यक्षत्वमुच्यते, न चोत्क्षेपणादिभेदभिन्नपरिस्पन्दा-


( १ ) अभ्युपगच्छाम इति । तदुक्तं शास्त्रदीपिकायाम् ज्ञानक्रिया हि सकर्मिका
कर्मभूतेऽर्थे फलं जनयति तच्च फलमैन्द्रियकमैन्द्रियज्ञानजन्यमापरोक्ष्यम् लिङ्गादि-
ज्ञानजन्यं तु पारोक्ष्यमित्युच्यते तदेव वा फलं कार्यभूतं कारणभूतं विज्ञानमुपकल्प-
यति' इति ।
( २ ) शबर० अ० १ पा० १ सू० ॥
( ३ ) श्लोकवार्तिके शून्यवादे श्लो० १७८ ॥

त्सकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम का चिदस्ति क्रिया, सा
हि यदि नित्या जातिवद्, अथानित्या रूपवद्वस्तुधर्म इष्येत, तत्र यदि नित्या
तर्हि सर्वदा वस्तुनः क्रियायोगात्सर्वदा फलनिष्पत्तिप्रसङ्गः, अथ कारकनिर्वर्त्या
क्रिया सापीदानीं कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था, निष्क्रि-
यकारककार्यत्वे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरीति
किं क्रियया ।
ननु करोतीति कारकं क्रियावेशमन्तरेण कारकत्वानुपपत्तेः, सत्यं—करो-
तीति कारकं तत्त् फलमेव करोति न क्रियाम् ।
ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया भवति चैत्रः कटं करोतीति चै-
त्रस्येव कटस्येव करोत्यर्थस्याप्रत्याख्येयत्वात् तत्कृतमेव चैत्रादीनां कारकत्व-
म् , उच्यते—नातान्द्रियक्रियायोगनिबन्धनः कारकभावः क्रियाया अतीन्द्रिय-
त्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गात् , क्रियावेशकृतं हि
तत्कारकत्वमनवगच्छन्तः कथं फलार्थिनस्तदुपाददीरन् ।
मत्पक्षे कारकत्वं हि नास्ति किं चिदतीन्द्रियम् ।
कारकत्वस्वरूपस्य सहकार्यादिसन्निधिः ॥
तावदेव विनिश्चित्य तदुपादीयते ऽर्थिभिः ।
तदेवोपाददानैश्च फलमप्यधिगम्यते ॥
निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः ।
सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः ॥
अथ व्यापार एवैष सर्वैः सम्भूय साध्यते ।
किं फलेनापराद्धं वस्तद्धि सम्भूय साध्यताम् ॥
यत्तु करोत्यर्थस्याप्रत्याख्येयत्वादित्युक्तं तत्रोच्यते-परिस्पन्द एव भौतिको
व्यापारः करोत्यर्थः, न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपन्हुमहे
प्रतिकारकं विचित्रस्य ज्वलनादेर्व्यापारस्य प्रत्यक्षमुपलम्भात् , अतीन्द्रियस्तु
व्यापारो नास्तीति ब्रूमहे,
ननु पाको नाम धात्वर्थः परिदृश्यमानज्वलनादिव्यापारव्यतिरिक्त एषित-
व्य एव तमन्तरेण फलनिष्पत्तेरभावात् , असति च तस्मिन्किमधिकृत्य कार-
काणि संसृज्येरन्नित्युक्तं तदयुक्तम् , यं तमेकं धात्वर्थं साध्यं बुध्यसे स किं

यदि स्वकाले ( ज्ञानं ) नावगतं कथं तर्हि पश्चादवगम्यतेऽत आह—नान्यथेति
अस्ति हि खलु पश्चाद् ज्ञानावधारणे प्रमाणमर्थापत्तिः ज्ञाताथांन्यथानुपपत्तिप्रभवा सा
प्रागज्ञातेऽर्थे न जायते पश्चादुपजायत इति युक्तमेव प्रमाणसद्भावादुत्तरकालमेव ग्रह-
णम् इति श्लोकवार्तिकव्याख्या काशिका ।

समुदितसकलकारकसम्पाद्य एकैककारकनिर्वर्त्यो वा।
तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम् ।
एकैकनिष्क्रियत्वे च साकल्ये ऽपि कुतः क्रिया ॥
उत्तरस्मिन्पक्षे प्रत्येकमपि पाकक्रियायोगात्कारकान्तरनिरपेक्षादेकस्मात्कार-
रकात्फलनिष्पत्तिप्रसङ्गः, न च तथाविधधात्वर्थपुरः सरः कारकाणां संसर्गः ।
क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः ।
सत्यां क्रियायां सम्बन्धः सम्बन्धे सति वा क्रिया ॥
मीलनात्(१)पूर्वसिद्धायां क्रियायां मीलनेन किम् ।
तथा च जन्येत फलं विभक्तैरपि कारकैः ॥
मीलनात्तु क्रियासिद्धौ पुनरेकैकमक्रियम् ।
तथा सति न काष्ठानि ज्वलेयुः पिठराग्निना ॥
काष्ठानि ज्वलन्ति न तु पचन्ति, मैवम्, सत्यपि पिठरे ज्वलन्त्येव काष्ठानि
नान्यत्कुर्वन्ति दृश्यन्ते तस्मात्क्रियान्तराभावात्फलमेवोरीकृत्य कारकाणि
संसृज्यन्ते ।
ननु फलमपि सिद्धं चेत्कः सर्वेषा सिद्धस्वभावानां सम्बन्धः फलं सिद्धं
कारकाणि च सिद्धानीति सम्बन्धाभावः साध्यं चेत्फलं सैव क्रिया परिस्पन्द-
व्यतिरिक्तेति, मैवं-वोचः फलस्य क्रियात्वानुपपत्तेः, ओदनं हि फलं न क्रिया
क्रियानाम्नि तु क्रियमाणे न विवदामहे ।
ननु पाक इदानीं कः न च पचेर्वाच्यशून्यतैव युक्ता, उच्यते—समुदितदेव-
दत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते,
स एव हि पचेरर्थः ता एव काष्ठपिठरादिक्रिया ज्वलनभरणादिस्वभावाः पृथक्त-
या व्यवस्थिताः तथात्वेनैवावभासन्ते समुदितास्तु सत्यः फलान्तरावच्छेदाद्रूपा-
न्तरेण पाकादिना परिस्फुरन्ति व्यपदिश्यन्ते च, तथा च देवदत्तः पचतीतिव-
त्काष्ठानि पचन्ति स्थाली पचतीति व्यपदेशो दृश्यते, देवदत्तस्यापि दुर्वीविघट्ट-
नादिरेव परिदृश्यमानस्तत्र व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति, नैतदेवं
न ह्यात्मनो व्यापारः कश्चिदस्ति इच्छाद्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्या-
पारकरणतां प्रतिपद्यते ।
तस्मात्कारकचक्रेण चलता जन्यते फलम् ।
न पुनश्चलनादन्यो व्यापार उपलभ्यते ॥
चलन्तो देवदत्ताद्यास्तदनन्तरमोदनः ।
एतावद्दृश्यते त्वत्र न त्वन्या का चन क्रिया ॥


( १ ) मिलन्नादिति युक्तः पाठः, एवमग्रेऽपि ।

प्रमाणप्रकरणम् १९

एतेन भावनाख्यः करोत्यर्थः पुरुषव्यापारो वाक्यार्थ इति यो ऽभ्युपगतः
सो ऽपि प्रत्युक्तो वेदितव्यः, न हि पुरुषव्यापारः कश्चिदुपलभ्यते विशिष्टगुण-
समवाय एवास्य कर्तृत्वं न च ज्ञानादयो गुणा एव व्यापारसंज्ञावाच्याः सि-
द्धस्वभावत्वात् ।
ननु,क्रियावचनो धातुरिति जानातेरपि क्रियैव वाच्या स्यात्सा च क्रिया
ज्ञानात्मा पुरुषव्यापारः, नायं नियमः क्रियावचनो धातुरिति 'गडि वदनैकदेशे'-
इत्यपि दर्शनात् , अपि च घटमहं जानामीत्यत्र भवतः किं प्रत्यवभासते घट-
मिति तावद्विषयः अहमित्यात्मा जानामीति तु चिन्त्यं किमत्र प्रकाशत इति, न
व्यापारः परोक्षत्वात् , फलं तु यद्यत्र प्रकाशते तदेव तर्हि धातुवाच्यमभ्युपगतं
भवति तस्मान्न क्रियात्मकं ज्ञानम् , यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्य-
कारः क्रियातः पृथगेनं निरदेक्ष्यत, निर्दिशति च बुद्धिकर्मणी अपि हि प्रत्यभि-
ज्ञायेते ते अपि नित्ये प्राप्नुत इति, तस्मादन्यज् ज्ञानमन्या च क्रियेति न
क्रियास्वभावत्वान्नित्यपरोक्षं ज्ञानम् , यदि च नित्यपरोक्षो ज्ञानव्यापारः स तर्हि
प्रतिबन्धाग्रहणादनुमातुमपि न शक्यः क्रियाविशिष्टबाह्यकारकदृष्टान्तस्य निर-
स्तत्वात् , आत्माद्यनुमाने का वार्तेति चेन्न, तत्र सामान्यतो व्याप्तिग्रहणस्य
सम्भवादिति वक्ष्यामः, इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम् ,
न चार्थोपत्तिरपि ज्ञातृव्यापारकल्पनायैव प्रभवति इन्द्रियार्थसन्निकर्षवशादेवा-
र्थदृष्टताया घटमानत्वात् , का चेयमर्थदृष्टता नाम किं दर्शनकर्मता किं वा
प्रकाशस्वभावतेति, तत्र दर्शनस्य परोक्षत्वात्कथं तत्कर्मता ऽर्थस्य दृष्टत्वाद्
गृह्येत, विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात् , अर्थप्रकाशतायास्तु सर्वान्प्र-
त्यविशेषात्सर्वे सर्वज्ञाः स्युः, न स्युः सम्बन्धितयोत्पादादिति चेत् , अकार-
णमेतत् , अर्थस्यैव हि प्रकाशत्वमतिशयो दीपादेरिव न पुरुषनियमेन
व्यवतिष्ठते ।
न च द्वित्त्वादिना साम्यं तस्मिन्नियमदर्शनात् ।
प्रकाशे तु न दीपादाै सम्बन्धिनियमः क चित् ॥
यदपेक्षाधियो जातं द्वित्वमस्यैव तद्ग्रहः ।
संवेदनमपि प्रज्ञैः कस्यातिशय उच्यते ॥
ज्ञातुश्चेदन्तरान्येन व्यापारेणास्य को गुणः ।
ननु नैव क्रियाशून्यं कारकं फलसिद्धये ॥
उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम् ।
ज्ञानं संवेदनं वेति विद्मः पर्यायशब्दताम् ॥
संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे ।
अर्थातिशयपक्षे तु सर्वसर्वज्ञता पुनः ॥

२० न्यायमञ्जर्याम्
भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत् ।
नोभयातिशयो ऽप्येष दोषद्वितयसम्भवात् ॥
संवेदनं च तत्केन ग्राह्यं ज्ञानानुमापकम् ।
अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥
स्वसंवेद्या च संवित्तिरुपरिष्टान्निषेत्स्यते ।
स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥
कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति ।
नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ॥
न तृतीयः प्रकारो ऽस्ति तत्कथं सा प्रकाशताम् ।
न च क चिदनाकारा संवित्तिरनुभूयते ॥
इयं संविदयं चार्थ इति नास्ति ह्यभेदधीः ।
अर्थाकारानुरक्ता तु यदि संवित्प्रकाशते ॥
बाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत्कृतः ।
स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥

वस्तुनः? Yes.
Is there space after comma? असत्त्वात्,कथं or असत्त्वात् , कथं? Looks tight: असत्त्वात्, कथं or असत्त्वात्,कथं.

  • L18:
    भूतवृष्ट्यनुमानं नानर्थजं तत्र धर्मिणो ऽनुमेयत्वात्तस्य च ज्ञानजनकस्य तत्र
    Check: धर्मिणो ऽनुमेयत्वात्तस्य - space before avagraha.

  • L19:
    भावात्, नद्याख्य एव धर्मी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननु-
    Check: भावात्, नद्याख्य

  • L20:
    मीयते विशिष्टसलिलपूरयोगित्वात्, स चानुमानग्राह्यो धर्मी विद्यते एवेति ना-
    Check: comma after योगित्वात्: योगित्वात्, स
    विद्यते एवेति - separate words.

  • L21:
    नर्थजमनुमानम्, कथं तर्हि प्रातिभमनागतार्थग्राहि श्वो मे भ्राताऽऽगन्तेति
    Check: `भ्राताऽऽगन्तेति

नसमर्थपदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेर्निमित्तं प्रदर्शकत्वमेव ज्ञानप्रदर्शिते हि
विषये प्रवृत्तौ सत्यां प्राप्तिर्भवतीति प्राप्तिं प्रति प्रमाणस्य प्रदर्शकत्वमेव व्या-
पारः, प्रदर्शयता हि तेन सो ऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञा-
दानमेव हर्तृत्वम् , तदुक्तम्—प्रापणशक्तिः प्रामाण्यमिति, लोके ऽपि च प्रद्-
र्शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः, तच्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयो-
रप्यस्तीति प्रमाणसामान्यलक्षणम् , तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात्तस्य
च क्षणिकत्वेन प्राप्त्यसम्भवे ऽपि तत्सन्तानप्राप्तेस्सन्तानाध्यवसायजननमेव
प्रापकत्वम् , अनुमानस्य त्वारोपितार्थविषयत्वे ऽपि मूलभूतवस्तुक्षणपारम्पर्येणप्र-
भवत्वान्मणिप्रभामणिबुद्धिवत्तत्प्राप्त्या प्रापकत्वम् , तदिदमध्यवसितप्रापकत्वं
प्रामाण्यम् अध्यवसितस्या ऽवस्तुत्वेपि तन्मूलवस्तुप्राप्त्या निर्वहति यथाऽध्यव-
सितप्रापकं च प्रमाणमिति मतम् , अतश्च पीतशङ्खादिग्राहिणां शङ्खादिमात्र-
प्राप्तौ सत्यामपि न प्रामाण्यम् , यथा ऽवगतस्याप्राप्तेरवगतो हि पीतः शङ्खः प्रा-
प्यते च श्वेत इति तस्माद्यथा ऽवगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति ।
तदेतदनुपपन्नम्—इदमेव तावद्भवान् व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमु-
ताध्यवसितप्रापकमिति, तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्राप-
णस्य, प्रत्यक्षे तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते क्षणिकत्वेनातिका-
न्तत्वात् , अध्यवसितप्रापणमपि दुर्घटम् , अध्यवसायस्य भवन्मते वस्तुविष-
यत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात्तदुक्तं भवद्भिः यथाध्यवसायमतत्त्वाद्य-
थातत्त्वं चानध्यवसायादिति, मूलभूतवस्तुप्राप्तिस्तु काकतालीयं न तु तदन्यतरे-
णापि प्रमाणेन स्पृष्टं यद्गत्वा प्राप्यते, सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न यु-
क्तम् , सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात् , एतच्च सविस्तरं क्ष-
णभङ्गभङ्गे निरूपयिष्यते ।
ननु काल्पानिके ऽपि सन्ताने सति संवृत्या प्रमाणलक्षणमिदं निर्वक्ष्यति
यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणं वस्तुतस्त्वनाद्यविद्यावासनारोपि-
तग्राह्यग्राहकादिभेदप्रपञ्चं ज्ञानमात्रमेवेदमिति किं प्राप्यते को वा प्रापयतीति
सो ऽयं पलायनप्रकार इव प्रस्तूयते, केयं संवृत्तिर्नाम सा ऽपि सत्यसती वा इति
विकल्प्यमाना नैव व्यवहारहेतुर्भवति, अविद्यावासनाकृतश्च न भेदव्यवहारः, किं
तु पारमार्थिक एवेति साधयिष्यते, सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्र-
भृतयो ऽपि सांवृत्ताः किमिति नेष्यन्ते, वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत्
सन्ताने ऽपि समानः पन्था इति कडाशालम्बनमेतत् , तस्मादसम्भवि दर्शित
प्रापकत्वमित्यलक्षणमेतत् अव्यापकं चेदं लक्षणम् , उपेक्षणीयविषयबोधस्या-
व्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात् ।
ननु को ऽयमुपेक्षणीयो नाम विषयः- स ह्युपेक्षणीयत्वादेव नोपादीयते

चेत्स तर्हि हेय एवानुपादेयत्वादिति नैतद्युक्तम् , उपेक्षणीयविषयस्य स्वसंवेद्य-
त्वेनाप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता ।
यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥
‘ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् ।
ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥
उपादेये च विषये दृष्टे रागः प्रवर्त्तते ।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥
यत्तु अनुपादेयत्वाद्धेय एवेति तदप्रयोजकम् , न ह्येवं भवति यदेतन्नपुंसकं
स पुमान् अस्त्रीत्वात् स्त्री वा नपुंसकम्पुंस्तत्वादिति स्त्रीपुंसाभ्यामन्यदेव नपुंस-
कं तथोपलभ्यमानत्वात्, एवमुपेक्षणीयो ऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं
तथोपलम्भादिति ।
यदेतत्तृणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छत्रादिवत्तत्र न च काकोदरादि(१)वत् ॥
तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतो ऽपि प्रामाण्यदर्शनान्न प्रापकत्वं तल्ल-
क्षणम् ।
ननु यावान्प्रामाण्यस्य व्यापारः प्रापणं प्रति तावानुपेक्षणीयज्ञानस्य
तमप्रपायतो ऽपि प्रामाण्यविषये तेन साधितः, उक्तं हि राज्ञामादेष्टृत्वमेव हन्तृ-
त्वं प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम्--
एवं प्रदर्शकत्वं स्यात्केवलं तस्य लक्षणम् ।
तच्च प्रचलदर्कांशुजलज्ञाने ऽपि दृश्यते ॥
ननु तत्र विपरीताध्यवसायजननादप्रामाण्यं दर्शनं हि मरीचिस्वलक्षणवि-
षयमेव सलिलावसायं तु जनयदप्रमाणीभवति तथा ह्येकमेव दर्शनमनुकूलेतर-
विकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते प्रमाणम् , अप्रमाणं प्रमाणं च न
भवतीति, नीलज्ञानं हि नीलं प्रति प्रमाणं नीलमिदमित्यनुकूलविकल्पोपजनना-
त् , नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवत्यनु-
कूलविकल्पानुत्पादात्, स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति,
यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःस्थम्, सन्तानाध्यवसायः प्रापणं
प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि, अतश्च यथा मरीचिस्वलक्षण-
दर्शनमुदकाध्यवसायजननादप्रमाणमेवं स्वलक्षणदर्शनमपि तद्विपरीतसन्ताना-
ध्यवसायजननादप्रमाणीभवेदिति, सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः
किमिति प्रवर्त्तते दृश्यविकल्प्यावर्थावेकीकृत्य प्रवर्त्तते यदि वा अविवेकात्प्रा-


( १ ) काकोदरः फणी ।

२४ न्यायमञ्जर्याम्
प्तिः स्यात्प्रमाणामपि दूरतस्तस्याः, तस्मान्न प्रापकं प्रमाणम् ,
अपि च प्राप्यप्राप्ती पुरुषेच्छामात्रहेतुके भवतः अर्थप्रतीतिरेव प्रमाण-
कार्याऽवधार्यते मानस्य लक्षणमतः कथयद्भिस्तद्विशेषणं वाच्यं न पुनः प्रापण-
शक्तिः प्रामाण्यं कथयितुं युक्तम् ।
सांख्याभिमतप्रमाणलक्षणपरीक्षा—
सांख्यस्तु बुद्धिवृत्तिः प्रमाणमिति(१) प्रतिपन्नः विषयाकारपरिणतेन्द्रियादि-
वृत्त्यनुपातिना बुद्धिवृत्तिरेव पुरुषमुपरञ्जयन्ती प्रमाणम् , तदुपरक्तो हि पुरुषः
प्रतिनियतविषयद्रष्टा सम्पद्यते ।
तदेतदहृदयङ्गमम् , यो हि जानाति बुद्ध्यते ऽध्यवस्यति न तस्य तत्फल-
मर्थदर्शनमचेतनत्वान्महतः, यस्य चार्थदर्शनं न स जानाति न बुद्ध्यते नाध्य-
वस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः, ज्ञानादिधर्मयोगः प्रमाणं पुंसि न
विद्यते तत्फलमर्थदर्शनं बुद्धौ नास्तीति ।
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः ।
बुद्धेर्वा चेतनाकारसंस्पर्श इव लक्ष्यते ॥
एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् ।
चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितौ मृषा ॥
साकारज्ञानवादांश्च नातीवैष विशिष्यते ।
त्वत्पक्ष इत्यतो ऽमुष्य तन्निषेधान्निषेधनम् ॥
निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपञ्चो ऽयम् ।
तस्मान्न तन्मते ऽपि प्रमाणमवकल्पते किञ्चित् ॥
तीर्थान्तराभिहितरूपमतः प्रमाणं नैवापवादरहितं प्रतिकल्पयामः ।
तेनामलप्रमितिसाधनमिन्द्रियादिसाकल्यमेव निरवद्यमुशन्ति मानम् ॥
प्रमाणलक्षणतद्विभागौ—
तच्चतुर्विधं प्रमाणंतदाह सूत्रकारः, प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि।
इह हि भेदवतः प्रथमं सूत्रोद्दिष्टस्य त्रयं वक्तव्यं सामान्यलक्षणं विभागो
विशेषलक्षणं च, तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्ती-
( १ ) सांख्यस्त्विति । यदाहुर्वाचस्पतिमिश्रपादाः 'उपात्तविषयाणामिन्द्रियाणां
वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति वृत्तिरिति ज्ञान-
मिति चाख्यायते तदिदं प्रमाणम्'इति । एतदुक्तं भवति इन्द्रियसन्निकर्षद्वारा यस्तमो-
ऽभिभवसमसमयसत्त्वसमुद्रेकप्रयुक्तो बुद्धेर्विषयाकारपरिणामः स प्रत्यक्षप्रमाणम्, व्या-
प्तिज्ञानजन्यश्च तथाविधः परिणामोऽनुमानप्रमाणं, वाक्यजन्यश्च तथाविधः परिणामः
आगमप्रमाणमिति ।

न्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादीनि, इह तु विभागसामान्यलक्षणे प्रतिपाद्येते ।
एकेनानेन सूत्रेण द्वयं चाह महामुनिः ।
प्रमाणेषु चतुःसङ्ख्यं तथा सामान्यलक्षणम् ॥
प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुच्चरन्ती चत्वार्येव प्रमाणा-
नीति दर्शयति ।
ननु न 'चत्वारि प्रमाणानि' इति संख्यावचनः शब्दः श्रूयते नापि प्रत्यक्षादी-
न्येवेत्यवधारणश्रुतिरस्ति तत्कुतः, इयत्तानियमावगमः, शब्दशक्तिस्वभावादिति
ब्रूमः, गर्गांस्त्रीन् भोजय यज्ञदत्तदेवदत्तावानयेति विना संख्याशब्दमेवकारं
च भवत्येव ( त्रित्व ) द्वित्वनियमावगमः, एवमिहापि प्रत्यक्षानुमानोपमानश-
ब्दाः प्रमाणानीत्युक्ते सामर्थ्यान्न्यूनाधिकसंख्याव्यवच्छेदो ऽवधार्यते इत्येवं
तावद्विभागावगमः ।
सामान्यलक्षणं तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवग-
म्यते, प्रमीयते येन तत्प्रमाणमिति करणार्थाभिधायिनः प्रमाणशब्दात्प्रमाक-
रणं प्रमाणमवगम्यते , तच्च प्रागेव दर्शितम् , प्रसिद्धसाधर्म्यात्साध्यसाधनमु-
पमानमिति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधा-
रणं रूपमिदं परिभाषते, यत्साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति, अशु-
द्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यते इति स्मृतिसंशयविपर्ययजनकव्यव-
च्छेदाय प्रत्यक्षसूत्रादर्थोत्पन्नमित्यव्यभिचारीति व्यवसायात्मकमिति च पदत्रय-
माकृष्यते तद्धि प्रमाणचतुष्टयसाधारणम् , अर्थोत्पन्नपदेन फलविशेषेण स्मृति-
जनकम् अव्यभिचारिपदेन विपर्ययाधायि व्यवसायात्मकपदेन संशयजनकं प्र-
माणं व्युदस्यते, अतश्चैवमुक्तं भवति अर्थविषयमसन्दिग्धमव्यभिचारि च
ज्ञानं येन जन्यते तत्प्रमाणमित्येवमेकस्मादेव सूत्रात्सामान्यलक्षणं विभाग-
श्चावगम्यते ।
नन्वेकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यभेदः, अर्थैकत्वाच्चैकं
वाक्यं युक्तम् , उच्यते--
श्रुत्यर्थद्वारकानेकवस्तुसूचनशालिषु ।
सूत्रेष्वनेकार्थविधेर्वाक्यभेदो न दूषणम् ॥
प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगोचरे ।
प्रमेये वाक्यभेदादि दूषणं किल दूषणम् ॥
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते ।
राजा स्वाराज्यकामो वाजपेयेन यजेतेति गुणविधिपक्षे स्वाराज्यं प्रति यागो
विधातव्यो यागं च प्रति वाजपेयगुणे विधातव्य इत्येकस्य वाक्यस्य परस्प-
४ न्या०