सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 37, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 37

Here is the line-by-line transcription of the provided Sanskrit text into clean Unicode Devanagari Markdown:

प्रमाणप्रकरणम् ३५
तदिदमनुपपन्नम्, अफलजनकस्य प्रमाणत्वापत्तेरित्युक्तत्वात्, अपि च
कर्मणि ज्ञानं प्रमाणमिष्यते, यथोक्तं सव्यापारमिवाभाति व्यापारेण स्वक-
र्मणेति, स चायमर्थक्षणो ज्ञानसमकालस्ततः पूर्वाभ्यां ज्ञानार्थक्षणाभ्यामु-
पजनित इति तत्कर्मतां प्रतिपद्यतां न पुनःस्वसमानकालप्रसूतज्ञानक्षणकर्म-
तामिति ।
मनु च तुल्यसामग्र्यधीनतया समानकालतया च तदव्यभिचारसिद्धौ क
कर्मत्वमुपयुज्यते, हन्त तर्हि सहोत्पन्नयोः समानसामग्रीकयोर्ग्राह्यग्राहकनियमः
किंकृत इति कर्त्तव्यं ज्ञानं प्रकाशस्वभावमिति ग्राहकम्, अर्थो जडात्मेति ग्रा-
ह्यमिति चेदयमपि विशेषस्तुल्यकारणयोः कुतस्त्यः, उपादानसहकारिकारणभे-
दादिति चेन्न, तस्य क्षणभङ्गभङ्गे निराकरिष्यमाणत्वात्,
ये हि निराकारस्य बोधरूपस्य नीलपीताद्यनेकविषयसाधार णत्वाज् जन-
कत्वस्य च चक्षुरादावपि भावेनातिप्रसङ्गात्तदाकारकृतमेव ज्ञानकर्मनियम-
मवगच्छन्तः साकारविज्ञानं प्रमाणमिति प्रतिपेदिरे तेऽपि विज्ञानाद्वैतसिषाध-
यिषयैवमभिधानास्तन्निरासप्रसङ्ग एव निरसिष्यन्ते, न ह्येकमेव साकारं ज्ञानं
ग्राह्यं ग्राहकं च भवितुमर्हतीति वक्ष्यते, अर्थस्तु साकारज्ञानवादिनो न सम-
स्त्येव, स ह्यनुमेयो वा स्यात्प्रत्यक्षो वा, नानुमेयः सम्बन्धग्रहणाभावात् ।
अर्थे हि सति साकारं निराकारं तदत्यये ।
नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥
नापि प्रत्यक्षोऽर्थः, आकारद्वयप्रतीत्यभावात्, अभ्युपगमे चानव-
स्थाप्रसङ्गात्, अर्थाकारो हि निराकारज्ञानेनगम्यो न भवतीति ज्ञानेनाकारव-
त्ता गृह्यते, सोऽयमिदानीं ज्ञानाकारोऽपि ग्राह्यत्वादन्येनाकारवता गृह्यते
सोऽप्यन्येनेति, अथ वा अर्थो निरकारज्ञानग्राह्यतां नोपयातीति स्वग्रा-
हके ज्ञानात्मनि समर्पितात्मा भवतीति साकारं ज्ञानमेवेदं सम्पन्नमिति पुरर्थो-
ऽन्यः कल्पनीयः सोऽपि ग्राह्यत्वात्स्वग्राहकस्य साकारत्वसिद्धये तत्रैव लीयते
इति साकारं ज्ञानमेवावशिष्यते इति पुनरर्थोऽन्य इतीत्थमनवस्था, प्रतिक-
र्मव्यवस्था(१) तु जनकत्वनिबन्धना भविष्यति वस्तुस्वभावस्यापर्यनुयोज्यत्वात् ,
साकारपक्षेऽपि पर्यनुयोगसाम्यमित्यादि सर्वमुपरिष्टात् सविस्तरमभिधा-
स्यते, साकारपक्षेऽपि च न प्रमाणाद्वयतिरिक्तं फलमुपदर्शितमित्यसत्पक्ष
एवायम् ।
मीमांसकमतम् ।
शाबरास्तु ब्रुवते य एते बोधप्रामान्यवादिनो विज्ञानाद्भिन्नमेव फल-
( १ ) कस्यचित्पुंसः कदाचिदेव कश्चिदेव विषयो ज्ञानकर्म न सर्वस्य सर्वदा सर्व
इति व्यवस्था प्रतिकर्मव्यवस्थापदेनोच्यते ।