न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 34, कुल 654 में से
संदर्भ में पढ़ें१२ न्यायमञ्जर्याम्
अपवर्गपरीक्षाशेषभूतत्वात्तु तदवसरे एव निर्णयिष्यते(१)।
प्रमाणलक्षणम् ।
प्रमाणसामान्यलक्षणं विभागसूत्रे त्ववसरप्राप्तत्वाद्विदानीमेव विव्रियते—
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि(२) ॥ इति
अत्रेदं तावद्विचार्यते, किं प्रमाणं नाम किमस्य स्वरूपं किं वा लक्षण-
मिति, ततः सूत्रं योजयिष्यते, तदुच्यते, अव्यभिचारिणीमसन्दिग्धाम-
र्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्, बोधाबोधस्वभावा हि
तस्य स्वरूपम्, अव्यभिचारादिविशेषणार्थोपलब्धिसाधनत्वं लक्षणम्।
ननु च प्रमीयते येन तत्प्रमाणमिति करणसाधनो ऽयं प्रमाणशब्दः, करणं
च साधकतमं तमबर्थश्चातिशयः, स चापेक्षिकः साधकान्तरसम्भवे हि तदपेक्ष-
यातिशयोगात्किं चित्साधकतममुच्यते, सामग्र्याश्चैकत्वात्तदतिरिक्तसाधका-
न्तरानुपलम्भात्किमपेक्ष्यमस्या अतिशयं ब्रूमः, अपि च कस्मिन्विषये सामग्र्याः
प्रमाणत्वम्, प्रमीयमाणो हि कर्मभूतो विषयः सामग्र्यन्तर्भूतत्वात्सामग्र्ये-
वेति करणतामेव यायात्, निरालम्बनाश्चेदानीं सर्वप्रमितयो भवेयुरालम्बनका-
रकस्य चक्षुरादिवत्प्रमाणान्तःपातित्वात्, कश्च सामग्र्या प्रमेयं प्रमिमीते, प्रमा-
तापि तस्यामेव लीनः, एवं च यदुच्यते प्रमाता प्रमाणं प्रमेयं प्रमितिरिति चत-
सृषु विधासु तत्त्वं परिसमाप्यते इति तद्व्याहन्येत, न च लोको ऽपि साम-
ग्र्याः करणाभावमनुमन्यते तस्यां करणविभक्तिमप्रयुञ्जानः, न ह्येवं वक्तारो
भवन्ति लौकिकाः सामग्र्या पश्याम इति किं तु दीपेन पश्यामः चक्षुषा निरी-
क्षामहे इत्याचक्षते, तस्मान्न सामग्री करणमकरणत्वाच्च न प्रमाणमिति नेदं
साधु प्रमाणस्वरूपम्—
अत्रोच्यते—यत एव साधकतमं करणं करणसाधनश्च प्रमाणश-
ब्दः तत एव सामग्र्याः प्रमाणत्वं युक्तम्, तद्व्यतिरेकेण कारकान्त-
रे क चिदपि तमबर्थसंस्पर्शानुपपत्तेः, अनेककारकसंनिधाने कार्यं घटमानम-
न्यतरव्यपगमे च विघटमानं कस्मै अतिशयं प्रयच्छेत्, न चातिशयः कार्यज-
न्मनि कस्य चिदवधार्यते सर्वेषां तत्र व्याप्रीयमाणत्वात्, सन्निपत्य जनकत्व-
मतिशय इति चेन्न—आरादुपकारकाणामपि कारकत्वानपायात्, ज्ञाने च जन्ये
किमसन्निपत्य जनकं सर्वेषामिन्द्रियमनोऽर्थादीनामितरेतरसंसर्गे सति ज्ञाननि-
ष्पत्तेः, अथ सहसैव कार्यजननमतिशयः, सो ऽपि कस्यां चिदवस्थायां करण-
स्येव कर्मणोपि शक्यते वक्तुम्, अविरलजलधरधाराप्रबन्धबद्धान्धकारनिवहे
( १ ) निर्णयिष्यते इति युक्तः पाठः ।
( २ ) गो० सू० अ० १ आ० १ सू० ॥