सामग्री पर जाएँ
सर्वकोश
न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)

Nyayamanjari of Jayanta Bhatta Part 1

आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा

DevanagariHindipublished654 पृष्ठ

पृष्ठ 36, कुल 654 में से

संदर्भ में पढ़ें
पृष्ठ 36

१४ | न्यायमञ्जर्याम्

मव्यभिचारादिविशेषणकार्थप्रमाजनकं कारकं करणमुच्यते, तदेव च तृतीया-
व्यपदिशन्ति, दीपेन पश्यामि चक्षुषा निरीक्षे लिङ्गेन बुध्ये शब्देन जानामि
मनसा निश्चिनोमीति ।
ननु त्रीण्येव कारकाण्यस्मिन् पक्षे भवेयुः ज्ञानक्रियायां तावदेवमेवैत-
द्यथा भवानाह, पाकादिक्रियासु क्रियाश्रयसाधारणादुपकारभेदपर्यालोचनया-
भवत्वधिकरणादिकारकान्तरव्यवहारः प्रमितौ तु मनोदीपचक्षुरादेर्न लक्ष्यते
विशेष इति तत्सर्वं कारणत्वेन सम्मतम्, कस्तेषु तमबर्थ इति चेत्, अस्ति
कश्चिद् यदयं लोकोऽहं मया जानामि घटेन घटं जानामि इति न कर्तृकर्मणी
विस्मृत्यापि करणत्वेन व्यपदिशति, नयनमनोदीपशब्दलिङ्गादीनि तु तथा
व्यपदिशति सोऽयमेषां पश्यति कर्तृकर्मवैलक्षण्यं चक्षुरादीनाम्, तद्वैलक्षण्यमेव
च तेषामतिशय इति तदयमिह प्रमाणं प्रमाता प्रमेयं प्रमितिरिति चतुर्वर्गेणैव
व्यवहारः परिसमाप्यते, तस्मात्कर्तृकर्मविलक्षणा संशयविपर्ययरहितार्थबोध-
विधायिनी बोधाबोधस्वभावा सामग्री प्रमाणमिति युक्तम् ।
बौद्धाभिमतप्रमाणपरीक्षणम्—
ये तु बोधस्यैव प्रमाणत्वमाचक्षते न सूक्ष्मदर्शनास्ते बोधः खलु प्रमा-
णस्य फलं न साक्षात्प्रमाणम्, करणाभिधानो हि प्रमाणशब्दः प्रमीयतेऽ-
ऽनेनेति प्रमाणम्, प्रमीयते इति कोऽर्थः प्रमा जन्यते इति, प्रमाणादवगच्छाम
इति च वदन्तो लौकिकाः करणस्यैव प्रामाण्यमनुमन्यन्ते, यस्तु प्रमा प्रमाण-
मिति प्रमाणशब्दः स प्रमाणफले द्रष्टव्यः, तथा च संशयविपर्ययात्मकं प्रमाण-
फलमिति ज्ञानमात्ममनोऽनुमाने तद्विशेषणार्थपरिच्छेदे वा विशिष्टप्रमाणज-
ननात्प्रमाणतां प्रतिपद्यते, अव्यभिचारादिविशेषणोपपन्नमपि ज्ञानमफलजन-
कमप्रमाणमेव प्रमाणमुच्यते—
तदयुक्तम्—सकलजगद्विदितबोधेतरस्वभावशब्दलिङ्गदीपेन्द्रियादिपरिहारप्र-
सङ्गात्, तस्मात्सामग्र्यनुप्रविष्टोबोधो विशेषणज्ञानमिव क चित्प्रत्यक्षे लिङ्ग-
ज्ञानमिव लिङ्गिप्रमितौ सारूप्यदर्शनमिवोपमाने शब्दश्रवणमिव तदर्थज्ञाने
प्रमाणतां प्रतिपद्यते, अत एव बोधाबोधस्वभावा सामग्री प्रमाणमित्युक्तम् ।
अन्ये तुल्यसामग्र्यधीनयोर्ज्ञानार्थयोर्ग्राह्यग्राहकभावं वदन्तो बोधं प्रमाण-
मभ्युपागमन्, क्षणभङ्गिषु पदार्थेषु सहकार्युपादानकारणापेक्षक्षणान्तरसन्ततिज-
ननेन च लोकयात्रामुद्वहत्सु ज्ञानजन्मनि ज्ञानमुपादानकारणम् अर्थः सहकारि-
कारणम् अर्थजन्मनि चार्थ उपादानकारणं ज्ञानं सहकारि कारणमिति, ज्ञानं
च ज्ञानार्थजन्यमर्थश्चार्थज्ञानजन्यो भवतीत्येवमेकसामग्र्यधीनतया तमर्थम-
ऽव्यभिचरतो ज्ञानस्य तत्र प्रामाण्यमिति,