न्यायमञ्जरी: प्रथम भाग (आचार्य जयन्त भट्ट - पं. सूर्यनारायण शुक्ल सम्पादित, काशी संस्कृत ग्रन्थमाला)
Nyayamanjari of Jayanta Bhatta Part 1
आचार्य जयन्त भट्ट (सम्पादक: पं. सूर्यनारायण शुक्ल) द्वारा
पृष्ठ 28, कुल 654 में से
संदर्भ में पढ़ेंजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निः-
श्रेयसाधिगमः ॥ १ ॥
आदिवाक्यारम्भाक्षेपसमाधाने—
ननु किमर्थोऽयमादिवाक्यारम्भः, को ऽयं प्रश्नः, शास्त्रं चेदारम्भणीयं
क्रमवृत्तित्वाद्वाचः प्रथममवश्यं किमपि वाक्यं प्रयोक्तव्यं न ह्यादिवाक्यमकृत्वा
द्वितीयादिवाक्यप्रणयनमुपपद्यते इति ग्रन्थकरणमेवाघटमानं स्यात् , आह—
न खल्वेवं न जाने किं तु यदेव शास्त्रे व्युत्पाद्यत्वेन स्थितं तदेव व्युत्पाद्यतां
किमादौ तदभिधेयप्रयोजनकीर्तनेन, उच्यते--
आदिवाक्यं प्रयोक्तव्यमभिधेयप्रयोजने ।
प्रतिपादयितुं श्रोतॄप्रवाहोत्साहसिद्धये ॥
अभिधेयफलज्ञानविरहास्तमितोद्यमाः ।
श्रोतुमल्पमपि ग्रन्थमाद्रियन्ते न सूरयः ॥
को हि नाम विद्वानविदितविषये निष्प्रयोजने च कर्मणि प्रवर्त्तते, आह च
भट्टः—
सर्वस्यैव हि शास्त्रस्य कर्मणो वा ऽपि कस्य चित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यत इति(१)॥
ननु प्रयोजनपरिज्ञानमादौ श्रोतॄणां कुतस्त्यमिति चिन्त्यताम् , किमस्मादेव
वाक्यादुत युक्तितः वाक्यं तावदनिश्चितप्रामाण्यं कथं प्रयोजननिश्चयाय प्रभ-
वति संशयाद्वा प्रवृत्तो वेदार्थे ऽपि तथैव स्यादिति शास्त्रमनारब्धव्यं स्यात् ,
युक्तितः प्रयोजनावगमः शास्त्रे सर्वस्मिन्नधीते सति सम्भवति नेतरथेति तदव-
गमपूर्विकायां प्रवृत्तावितरेतराश्रयः शास्त्राधिगमनात् प्रयोजनपरिज्ञानं प्रयोज-
नपरिज्ञानाच्च शास्त्रश्रवणे प्रवृत्तिः, उच्यते आदिवाक्यादेव श्रोतुः शास्त्रप्रयोज-
नपरिज्ञानमर्थसंशयाच्च श्रवणे प्रवृत्तिः ।
वेदे ह्यसिद्धप्रामाण्ये महाक्लेशेषु कर्मसु ।
नानर्थशङ्कया युक्तमनुष्ठानप्रवर्त्तनम् ॥
बहुवित्तव्ययायासवियोगसुगमे ऽध्वनि ।
प्रवृत्तिरुचितोदारफले लघुपरिश्रमे ॥
शृण्वन्त एव जानन्ति सन्तः कतिपयैर्दिनैः ।
किमेतत्फलं शास्त्रमुत मन्दप्रयोजनम् ॥
सूक्ष्मेक्षिका तु यद्यत्र क्रियते प्रथमोद्यमे ।
असौ सकलकर्त्तव्यविप्रलोपाय कल्पते ॥
( १ ) श्लो. वा. श्लो. १२ ।