मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
६ मृगेन्द्रतन्त्रे । [ २११
चान्तस्तथाकर्षणं, संरोधश्च कुम्भीकरणं रेचन-
प्रवेशनविरामः, एवंलक्षणं यत् प्राणादीनां
प्रखेदनं स प्राणायामः । ऋतुशब्देनेन्द्रियाणि
संकल्पो वा तेषां दोषाः विहिताननुष्ठान-
निषिद्धाचरणकृताः तान्नुदति उपशमयतीति
तद्दोषनुत् । उक्तं हि
‘दह्यन्ते ध्मायमानानां धातूनां च यथा मलाः ।
प्राणायामैस्तथा दोषाः शाम्यन्तीन्द्रियगोचराः ॥’
इति ॥ ४ ॥
अथ प्रत्याहारस्य लक्षणम्
ततः सुखलवास्वादे
तेषां वृत्तस्य चेतसः ।
प्रत्याहारो विधातव्यः
सर्वतो विनिवर्तनम् ॥ ५ ॥
ततः प्राणायामाभ्यासादनन्तरं प्रत्याहारः
कार्यः । किंरूपोऽसावित्याह-तेषामिति, तेषा-
मिन्द्रियाणां संबन्धी वैषयिको यः सुखलव
आनन्दलेशस्तदास्वादे वृत्तस्य तत्परस्य चेतसः
सर्वेभ्य एवेन्द्रियार्थेभ्यः प्रत्याहरणं प्रत्याहारो
विधेयः ॥ ५ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ७
इत्थमनुतिष्ठतः किं स्यादित्याह
तेनेन्द्रियार्थसंसर्ग-
विनिवृत्तेश्चितो मतिः ।
धारणायोग्यतामेति
पदे स्वेच्छाप्रकल्पिते ॥ ६ ॥
तेन प्रत्याहारेण चितश्चित्तस्येन्द्रियार्थसंयो-
गात् प्रत्याहृतत्वात् या विनिवृत्तिः स्वव्यापार-
विरतिः तस्या हेतुभूतायाः स्वेच्छाप्रकल्पिते पदे
वक्ष्यमाणधारणायोग्यतां मतिरभ्येति । न चात्र
मतिर्बुद्धिः अपि तु मननं मतिः संकल्पाख्यश्चे-
तसो व्यापारः, तस्यैव धारणाश्रवणात् । यदाह
पतञ्जलिः 'देशबन्धश्चित्तस्य धारणा' ( १।३ )
इति । तथा 'धारणासु योग्यता मनसः।' ( ५३।२ )
इति ॥ ६ ॥
ध्यानं वक्तुमाह
चिन्ता तद्विषया ध्यानं
तच्चादिष्टं मुहुर्मुहुः ।
धारणानिरुद्धस्य चित्तस्य त्रिनेत्रपञ्चवक्रा-
८ मृगेन्द्रतन्त्रे । [ ११
द्याकारविषया या चिन्ता तद्ध्यानम् । तच्चा-
दिष्टमिति
‘हेमालिहिमरक्ताभवक्राम्बुजचतुष्टयम् ।’
इत्यादाववसरान्तरेषु मुहुर्मुहुरुक्तम् ॥
अथ समाधेर्लक्षणम्
तदेकतानतामेति
स समाधिर्विधीयते ॥ ७॥
तद्ध्यानमेकतानतां ध्येयैकनिर्भासत्वं यदा-
भ्येति तदा समाधिरिति शास्त्रेषु प्रदिश्यते ।
तथा चाह पतञ्जलिः ।
‘तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ।’ ( ३।३ )
इति ॥ ७ ॥
जपस्य लक्षणं कथयति
जपस्तद्भाषणं ध्येय-
संमुखीकरणं मुने ।
मानसस्यान्तःसंजल्परूपस्योपांशुसंज्ञस्य च
स्वसंवेद्यलघुध्वनेर्भाष्यस्य च श्रूयमाणस्य म-
न्त्रस्य ध्येयसंमुखीकरणायावर्तनं जप इत्युक्तम् ॥
१ 'प्रह' क. ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ९
ऊहमिदानीं लक्षयितुमाह
ऊहोऽभिवीक्षणं वस्तु-
विकल्पानन्तरोदितः ॥ ८ ॥
'यत्तदूहं मतिः पुंसां भ्रमत्यन्धेव मार्गती ।
तत्कुर्वन्नुच्यते प्राणः' ( १।११।२२ )
इत्यनेन विद्यापादे प्राणाख्यस्य वायोः सौ-
क्ष्म्याच्च लक्ष्यं नुदन् ऊहन् यदुक्तं, यथा च
श्रीमत्स्वायम्भुवे
'....................नुदन्नूहः प्रवर्तते ।'
इति । स ऊहोऽभिवीक्षणात्मकस्तत्तद्भूमिका-
प्राप्तितो लब्धे वस्तुन्यसंतोषकृताद्विकल्पात्स-
मनन्तरमुदित उद्भूतो ज्ञेयः ॥ ८ ॥
अथ कस्मिन्नूहोऽसौ कार्ये योगिन उपयो-
गीत्याह
यदा वेत्ति पदं हेय-
मुपादेयं च तत्स्थितेः ।
तत्पोषकं विपक्षं च
यच्च तत्पोषकं परम् ॥ ९ ॥
१ 'कावाप्ति' क. ।
२ मृ. यो.
१० मृगेन्द्रतन्त्रे । [ १।१
तस्य ऊहस्य स्थितिरवस्थानं ततो हेतोः
क्रमेण । यदेति यस्मादर्थे । यस्मात्कारणात्
योगी समुत्पद्यमानयथावस्थितसकलवस्त्वव-
भासतया हेयं पदं तस्य च पोषकं तद्विपक्षकं
विपक्षपोषकं च वेत्ति । तथोपादेयं तत्पोषकं
विपक्षकं विपक्षपोषकं च जानाति, अत एष
प्रकृष्टं योगाङ्गम् । यथोक्तं श्रीमन्मालिनी-
विजये
‘योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम् ।
हेयाद्यालोचनाय.......................॥’
इति । श्रीमत्स्वायम्भुवेऽपि
‘अनेन लक्षयेद्योगी योगसिद्धिप्रवर्तकम् ।
निरोधकं च यद्वस्तु बहुधा संव्यवस्थितम् ॥’
इति ॥ ९ ॥
इत्थं योगाङ्गान्युक्त्वा फलमेषामभिधातुमाह
एषु व्यस्तसमस्तेषु
कृतयत्नस्य योगिनः ।
विभान्ति शक्तयो विश्वं
व्याप्य भानोरिव त्विषः ॥१०॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ११
न तमीष्टे नरः कश्चित्
रक्षोदानवमानवाः ।
रोरुचानमतीत्यैतान्
दृक्क्रियाप्राणरोचिषा ॥ ११ ॥
एषु प्राणायामादिष्वङ्गेषु समस्तेष्वसमस्तेषु
वा कृताभ्यासस्य योगिनः सर्वाः शक्तयो विव-
स्वत इव दीप्तयो विश्वं व्याप्य भान्ति भ्राजन्ते,
सर्वकार्येष्वयमव्याहतसामर्थ्यः स्यादित्यर्थः ।
तथो हि नैनमत्युग्रतेजस्त्वाद्देदीप्यमानं सन्तं
राक्षसदानवत्रिदशमनुजेभ्यः कश्चिदप्याक्रा-
मति । प्रकृष्टैर्ज्ञानक्रियावीर्यतेजोभिरेतान् दा-
नवादीनतीत्यातिक्रम्य स्थितत्वादिति, रोरु-
चानमिति२ विशेषणद्वारेण हेतुः ॥ ११ ॥
अत्र मुनिः प्रश्रयति
निवृत्तेर्मनसो हेतुः
संसर्गात्प्राणखेदनम् ।
निवृत्तिर्धारणादीनां
मूलं सर्वस्य तत्ततः ॥ १२ ॥
१ 'नच तं' क. । २ 'नत्वादिति' ख. ।
१२ मृगेन्द्रतन्त्रे । [ १११
विस्तरेण सुरश्रेष्ठ
विप्रकृष्टं च यत्स्थितम् ।
यदन्यत्साधनं किंचि-
द्योगसिद्धेश्च कथ्यताम् ॥१३॥
इन्द्रियार्थसंसर्गान्मनसो या निवृत्तिर्विरति-
स्तस्याः किल प्राणायामाः कारणत्वेनेष्यन्ते ।
प्राणादिजयाद्धि मनसो वश्यता भवति । सा
च मनस इन्द्रियार्थेभ्यो निवृत्तिर्धारणादीनां
हेतुस्ततश्च हेतोस्तत्प्राणखेदनं सर्वस्य धारणा-
देर्मूलमिति कृत्वा विस्तरेणोच्यताम्। यच्चान्य-
द्योगसिद्धेर्विप्रकृष्टमङ्गाङ्गितया साधनं स्थितं हि-
तमितजीर्णाशननिर्बाधस्थाना२ध्यासनादि शौ-
चादि वा तदपि भगवन्नमरेश्वर अस्मभ्यम-
भिधीयतामिति मुनेः प्रश्नः ॥ १२ ॥ १३ ॥
अथात्रोत्तरम्
न शक्यं विस्तराद्वक्तुं
तत्प्रसङ्गभयाद्विधेः ।
१ 'विकृष्टमपि तत्' ख. । २ 'नासना' क. ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । १३
प्रश्नस्यावश्यवाच्यत्वा-
त्तथाप्युद्देश उच्यते ॥ १४ ॥
विधिप्रदर्शकत्वेनोपचारात् शास्त्रेऽपि विधि-
व्यपदेशः । विस्तरेण वक्तव्येऽभिधीयमाने शा-
स्त्रस्यातिविस्तरप्रसङ्गः स्यादिति विस्तरेण ता-
वदभिधेयं वक्तुमयुक्तं, यथायथं विस्तरभीरवो
हि श्रोतारः, तथाप्यवश्यवक्तव्यत्वात् प्रश्नस्यो-
द्देशः संक्षिप्तसकलविधिनिरूपणं क्रियते ॥१४॥
तत्रादितस्तदङ्गतया स्थितं शौचं संक्षेपतो
वक्तुमाह
मूत्राद्युत्सृज्य विधिव-
देकार्धदशसप्तभिः ।
मृद्भिर्लिङ्गगुदासव्य-
हस्तयुग्मानि शौचयेत् ॥ १५ ॥
द्विर्वती त्रिरपः पीत्वा
द्विर्विमृज्याननं स्पृशेत् ।
खबाहुनाभिहृत्कानि
द्विस्त्रिर्वा शौचिताधरः ॥ १६ ॥
विण्मूत्रोत्सर्गं विधिवदिति सामान्यशास्त्र-
विध्यनतिक्रमेण कृत्वा । यथोक्तं वासिष्ठे
'अवगुण्ठितशिरा भूमिमयो१ज्ञियैस्तृणैरन्तरितां कृत्वा
मूत्रपुरीषे कुर्यात्, उदङ्मुखोऽहनि, नक्तं दक्षिणाभिमुखः ।'
इति । तत एकपञ्चदशसप्तसंख्याभिर्मृत्तिका-
भिर्यथासंख्यं शिश्नं च पायुं वामहस्तमुभौ च
पाणी शौचयेत् । द्विव्रतीति समयिसा२धका-
दीनां चतुर्णामपि चर्यापादे व्रतित्वमव्रतित्वं च
वक्ष्यति । तथा चायमव्रतिविषयः शौचविधिः ।
व्रती तु तदेव द्विगुणमाचरेत् । ततः त्रिरपः
पीत्वा इत्याचम्य द्विश्चास्यं परिमृज्य खानी-
न्द्रियच्छिद्राणि बाहुनाभी हृच्छिरसी च स्पृ-
शेत् । द्वौ वारौ त्रीन् वारान् वाऽधरोष्ठौ च
क्षालयेत् ॥ १५ ॥ १६ ॥
तदनन्तरं तु
हितजीर्णाशनस्वस्थ-
स्त्रिकुड्यावेष्टिते गृहे ।
बाधाशून्ये वनादौ वा
स्वासनस्थ उदङ्मुखः ॥ १७ ॥
१ 'यज्ञीयैः' क. । २ 'पुत्रका' क. ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १५
नमस्कृत्य महेशान-
मुमास्कन्दगणाधिपान्।
ऋजुग्रीवाशिरोवक्षा
नासाग्राहितदृग्द्वयः ॥ १८ ॥
पार्ष्णिभ्यां वृषणौ रक्षन्
दन्तैर्दन्तानसंस्पृशन् ।
विष्टब्धदेहो दन्ताग्रे
जिह्वामादाय सुस्थितः ॥१९॥
रेचयेच्छक्तिपर्यन्तं
पुटेनैकेन मारुतम् ।
हितमपीडाकरं, जीर्णे परिणामप्राप्तौ अशनं
यस्य स एवं स्वस्थः, अत एव धातुसाम्यादिना ।
त्रिभिः कुड्यैः प्राकारैरावृते निःशब्दे गृहे नि-
र्बाधे वा वने गिरिगुहादौ वा सुखावस्थितिहे-
तुत्वात्, सुष्ठु शोभने चेलाजिनाद्युत्तरे आसने
पीठपट्टादौ स्थितः । यद्वा अभ्यासवशात् सुष्ठु
स्थैर्यसुखहेतावागमान्तरेषु उपदिष्टलक्षणे पद्म-
स्वस्तिकार्धचन्द्रादिके योगासने तिष्ठतीति स्वा-
१६ मृगेन्द्रतन्त्रे । [ १।१
सनस्थः । उत्तरदिङ्मुखः । परमेश्वरं देवीं गुहं
गणेशं च नत्वा, सुस्पष्टशिरःकण्ठवक्षाः स्व-
नासिकाप्रान्तनिहितदृष्टिः, १व्यवहितोत्तराधर-
दन्तपङ्क्तिः, पार्ष्णिभ्यां मुष्कपीडनमुद्धातवशा-
दुत्प्लुतौ वा२ रक्षन्नकुञ्चितशरीरः सुस्थितो दन्त-
प्रान्तनिहितजिह्वः सन् यथाशक्ति दक्षिणेन
नासापुटेन वायुं शरीरान्तःस्थं नाडीशोधनार्थं
रेचयेत् बहिः क्षिपेत् ॥
स रेचकस्तदभ्यासा-
द्वेधविक्षिप्तकर्मसु ॥ २० ॥
क्रमशः शक्ततामेति
विकृष्टविषयेष्वपि ।
उक्तलक्षणस्य रेचकस्याभ्यासात् क्रमेण व्य-
वहितविषयेष्वपि वेधकर्मसु विक्षिप्तकर्मसु च
विशरारुताकरणरूपेषु योगी शक्ततां प्राप्नोति ॥
अथ पूरकलक्षणम्
बाह्येन वायुना मूर्तेः
३शक्तिसीमप्रपूरणम् ॥ २१ ॥
१ 'विवधितो' ख. । २ 'वारयन्' क. । ३ 'यथाशक्ति' क. ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १७
पूरकः स तदभ्यासा-
त्सुगुर्वपि विकर्षयेत् ।
बहिष्ठेन मारुतेन यथाशक्ति मूर्तेः प्रकर्षणेन
पूरणं पूरकः, तस्मिन्नभ्यस्ते सुष्ठु गरिष्ठमपि
शिलादि१ आक्रष्टुं शक्तो भवेत् ॥
कुम्भकं कथयितुमाह
त्यागसंग्रहणे हित्वा
निरोधः कुम्भकः स्मृतः ॥२२॥
रोधशक्तिस्तदभ्यासा-
द्व्यक्तिमेत्यनिवारिता ।
रेचनात्मकं त्यागं पूरणरूपं संग्रहणं त्यक्त्वा,
अन्तःस्थस्य वायोर्निरोधात् कुम्भीकृत्यावस्था-
पनं यत्कुम्भकस्तस्याभ्यासादव्याहतरोधशक्ति-
रभिमतवस्तुस्तम्भनसामर्थ्यं व्यज्यते ॥
तथास्य चरतो विद्वान्
सोमसूर्येशवर्त्मसु ॥ २३ ॥
तद्धर्मयोग्यतां बुद्ध्वा
योगी संसाधयेन्मतम् ।
१ 'द्याकर्षणशक्तः' क. ।
३ मृ. यो.
१८ मृगेन्द्रतन्त्रे । [ ११ ]
तदभ्यासाद्विधेयत्वेनास्य वायेश्चरतः प्रचा-
रज्ञो योगी मध्यवामदक्षिणनाडीचारेषु चिकी-
र्षितवस्त्वानुगुण्यं निश्चित्य, यथास्मिन्कर्मणि
दक्षिणश्चरन् श्रेष्ठोऽमुष्मिन् मध्यम एतस्मिंस्तु
सौम्यः प्रशस्तः इत्येवं मत्वा अभीष्टं योगी
साधयेत् ॥
तथाहि
पूरकं कुम्भकं वापि
भजेच्चन्द्रपथि स्थिते ॥ २४ ॥
पुष्टिमृत्युजयाद्यर्थं
स्वात्मनोऽन्यस्य रेचकम् ।
अनग्निज्वलने वृक्ष-
शोषणे बीजनाशने ॥ २५ ॥
स्तोभोन्मादविषोद्दीप्ति-
प्रमुख्येषु तु रेचकम् ।
ध्यानार्चनजपाद्येषु
देहत्यागे च शाङ्करे ॥ २६ ॥
कुम्भको रेचकश्चेष्टो
दीक्षासंस्थापनेषु च ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । १९
वामनाड्यवस्थिते मरुति कुम्भकपूरकौ स्व-
पुष्ट्यर्थमात्मन आप्यायनार्थं मृत्युजयार्थं च
कालवञ्चनाय, आदिग्रहणाच्छान्तिकादिसिद्ध्यै
च कुर्यात्। परस्य पुष्ट्याद्यर्थं वा वामस्थं रेचकं
भजेत् । यदा त्वनग्निज्वलनवृक्षशोषणनिर्वी-
जीकरणस्तोभोन्मादविषोद्दीपनप्रमुखकार्याणि
कर्तुमिष्टानि तदानीं सौरमार्गस्थेन चारेण
रेचकं कुर्यात् । स्तोभः स्वल्पस्य विषज्वालादेर्ब-
हुलीकरणम्। शाङ्कर इति सौषुम्नमार्गस्थं विषु-
वति कर्तव्यतयोक्तं यत्तद्ध्यानार्चनजपादि
कार्यं, उत्क्रान्तिर्वा तद्विषये, दीक्षासंस्थापने
कुम्भकरेचकाविष्टौ । संस्थापनं प्रतिष्ठानम् ॥
अथैषां रेचकादीनामभ्यासाय कालपरिमा-
णं प्रति नियमं वक्तुमाह
यवीयान् मध्यमो ज्येष्ठः
स तालैर्द्वादशादिभिः ॥ २७ ॥
तालो द्वादशभिर्जानु-
परिणाहपरिभ्रमैः ।
१ 'शिवाश्रयसौषुम्णमार्गस्थवि' क. । २ 'परिणामप्रतिनि' ख. ।
२० मृगेन्द्रतन्त्रे । [ १११
हस्तेन जानुमण्डलपरिश्रमणं यावत्या का-
लमात्रया क्रियते तावतीभिर्द्वादशभिस्ताला-
ख्यः कालांशो ज्ञेयः । तैश्च तालैर्द्वादशभिः
कनिष्ठः प्राणायामः, चतुर्विंशत्या मध्यमः,
अष्टाचत्वारिंशता श्रेष्ठः । तथोक्तं श्रीसर्वज्ञा-
नोत्तरे
'तालद्वादशको ज्ञेयः प्राणायामस्तु कन्यसः ।
मध्यश्चतुर्भिर्विंशत्या श्रेष्ठस्तद्विगुणो भवेत् ॥'
इति ॥
इत्थं प्रतिनियत¹प्राणरेचकपूरककुम्भकस-
मुदायरूपो यः प्राणायामः
सोऽपि ध्यानजपोपेतः
सगर्भोऽन्यस्तदुज्झितः ॥ २८ ॥
यथा सगर्भः स्थैर्याय
मनसो न तथेतरः ।
सोऽप्ययं प्राणायामो ध्यानेन जपेन च युक्तः
सगर्भाख्यया ज्ञेयः । यस्तु विनैव ध्यानजपा-
भ्यां क्रियते स निर्गर्भः । यथा च मनसः
स्थैर्यहेतुत्वं सगर्भस्य न तथा निर्गर्भस्य–इति
१ 'नियम' क. ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २१
सगर्भप्राणायामार्थमभ्यासः कार्यः इति ता-
त्पर्यम् ॥
प्रातर्निशाकृतं पापं
दिनान्ते च दिवाकृतम् ॥ २९ ॥
प्रभाते कृतोऽयं सगर्भः प्राणायामो नि-
शाकृतं पापं हन्ति, दिनान्ते तु कृतः स दि-
वाकृतं हन्तीत्यग्रस्थेन संबन्धः ॥ २९ ॥
हन्त्यगर्भोऽपि देवानां
प्रचलत्वं प्रधावताम् ।
ऐवं च न किञ्चिन्निर्गर्भेण प्राणायामेन प्र-
योजनम्, अतः किं तेनेत्याह—देवानां मनः-
सहितानामिन्द्रियाणां विषयेष्वनाद्यविद्याव-
शात् प्रकर्षेण धावतामेष निर्गर्भः प्राणायामः
सातत्येन क्रियमाणः प्रचलत्वं प्रकृष्टवेगवत्वं
हन्ति इन्द्रियजयकारीत्यर्थः ॥
किं च
स्नातो भवति तीर्थेषु
सर्वक्रतुषु दीक्षितः ॥ ३० ॥
१ 'एवं चेन्न कश्चित्' ख. ।
२२ मृगेन्द्रतन्त्रे । [ १११
पोतः पितॄणां यः शश्व-
त्सगर्भमिममाचरेत् ।
यस्तु नित्ययुक्तत्वेनेमं जपध्यानयुक्तं सग-
र्भमभ्यस्यति स सर्वतीर्थेषु स्नानस्य समस्ता-
ध्वरेषु दीक्षितस्य च फलं लभते, पितॄणां च
संसारोत्तरणे पोतः प्लवो भवति, तत्प्रसादात्त-
स्तेऽपि भवान्धेतः समुत्तरन्तीत्यर्थः ॥
सगर्भतामेव वक्तुमाह
ध्यायेदध्वान्तगं २देवं
जपेतद्वाचकं सदा ॥ ३१ ॥
क्षित्यादीन्यथ तत्त्वानि
तद्रूपाधिकृतानि वा ।
सर्वाधिष्ठातृत्वेन हेतुनाध्वनः पर्यन्तवर्तिनं
परमेश्वरं सकलकारणातीतं परमार्थत्वेन ध्या-
येत्, तस्य च वाचकं मन्त्रं जपेत्, शब्दार्थरूपा-
ववियुक्तौ प्राणायामसमये कुर्यादित्यर्थः । यदि
वा धारणाफलं लिप्सुः पृथिव्यादीनि परमे-
श्वरस्वरूपाश्रयत्वेन च ध्यायेत् । सकलचिद्-
१ 'ब्धि' क. । २ 'कं' क. । ३ 'पाणिकृ' ख. ।
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २३
चिद्भावाधिष्ठातृतया भगवतः सर्वदा सर्वत्रा-
वस्थितेः ॥
अथ पृथिव्यादितत्त्वध्याने किं भगवद्भाव-
नयेत्याह
यस्मान्नाचेतनं तत्त्वं
सिद्धमप्युपकारकम् ॥ ३२ ॥
शैवं वपुरिति ध्याये-
दतो यद्यत्समीहितम् ।
यतः किल स्वभावजडं पृथिव्यादिवस्तु-
जातं शिवस्वरूपाधिष्ठानं विना कृतध्यानाभ्या-
सतः सिद्धमपि नोपकारकम्, अतः पारमे-
श्वरमेवैतत्सर्वं वपुरिति ध्यायेत् । अतो यद्य-
त्किमप्यभिप्रेतमचिद्रूपमपि वस्तु ध्यायेत् ॥
यतश्चैवमतः
सिद्धये धारणादीनां
वृत्तीनामनिलस्य च ॥ ३३ ॥
सगर्भं कुम्भकं विद्वा-
नातिष्ठेदविखिन्नधीः ।
२४ मृगेन्द्रतन्त्रे । [ २११
.. धारणादीनां योगाङ्गानां प्राणादिवृत्तीनां च
प्रागुक्तानां प्रणयनाद्यर्थानां सिद्ध्यर्थं सगर्भं
कुम्भकाभ्यासमनुद्विग्नबुद्धिः सन्नातिष्ठेदाचरेत्॥
अयमर्कगुणं कालं
कृतचित्तव्यवस्थितिः ॥ ३४ ॥
प्राप्नोति धारणाशब्दं
धारणासिद्धिदानतः ।
अयं सगर्भः कुम्भको द्वादशगुणं कालं
चित्तवृत्तिनिरोधेन कृतः सन् धारणाव्यपदेशं
लभते। कुत इत्याह—धारणासिद्धिदानतः, धार-
णासंबन्धिनीः सिद्धीस्तथाभ्यस्यमानो ददाति ॥
स्थित्यर्थो धारणाशब्दः
स्थानार्थोऽप्युपचारतः ॥३५॥
स्थानं प्राथमिकस्येमा-
न्यवन्यादीनि नेतरत् ।
स्थितिरवस्थानं नियतदेशे हृत्कण्ठादौ चे-
तसो धारणाशब्देनोच्यते । उपचारात्तु तिष्ठ-
त्यस्मिंस्तथाविधया धारणयेति स्थानमधिकर-
णरूपमनेनाभिधीयते । प्राथमिकस्य प्रथमा-
श्रीमन्नारायणकण्ठविरचितवृत्त्युपेते । २५
भ्यासप्रवृत्तस्यारुरुक्षोः पृथिव्यादीनि पञ्चत-
त्त्वानि अभ्यासस्य स्थानं, न त्वन्यदप्रत्यक्षं
महदहङ्कारादितत्त्वजातम् । उपलभ्यमानपृथि-
व्यादितत्त्वाभ्यासपूर्वस्तु तत्तदभ्यासः सुगम
एवेति सर्वयोगशास्त्रेषूपदेशक्रमः ॥
अथैषामेव रूपाकृतिप्रयोजनलाञ्छनान्य-
भिधत्ते
तानि हेमहिमज्योतिः-
कृष्णस्वच्छानि रूपतः ॥ ३६ ॥
वेद्यर्धमण्डलत्र्यस्र-
वृत्तपद्माकृतीनि तु ।
स्थैर्याप्यायनविश्लेष-
प्रेरणाशून्यताप्तये ॥ ३७ ॥
भवन्ति वज्रकज्वाला-
बिन्दुशून्यान्वितानि तु ।
तानि पृथिव्यादीनि पञ्च तत्त्वानि यथासं-
ख्यं रूपतः पीतसितोज्ज्वलकृष्णस्वच्छानि, सं-
स्थानाच्चतुरस्रार्धेन्दुत्रिकोणपरिवर्तुलपद्माका-
राणि, क्रमाच्च वज्रेण वारिजेन ज्वालया बि-
४ मृ. यो.