सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 408, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 408

विण्मूत्रोत्सर्गं विधिवदिति सामान्यशास्त्र-
विध्यनतिक्रमेण कृत्वा । यथोक्तं वासिष्ठे
'अवगुण्ठितशिरा भूमिमयो१ज्ञियैस्तृणैरन्तरितां कृत्वा
मूत्रपुरीषे कुर्यात्, उदङ्मुखोऽहनि, नक्तं दक्षिणाभिमुखः ।'
इति । तत एकपञ्चदशसप्तसंख्याभिर्मृत्तिका-
भिर्यथासंख्यं शिश्नं च पायुं वामहस्तमुभौ च
पाणी शौचयेत् । द्विव्रतीति समयिसा२धका-
दीनां चतुर्णामपि चर्यापादे व्रतित्वमव्रतित्वं च
वक्ष्यति । तथा चायमव्रतिविषयः शौचविधिः ।
व्रती तु तदेव द्विगुणमाचरेत् । ततः त्रिरपः
पीत्वा इत्याचम्य द्विश्चास्यं परिमृज्य खानी-
न्द्रियच्छिद्राणि बाहुनाभी हृच्छिरसी च स्पृ-
शेत् । द्वौ वारौ त्रीन् वारान् वाऽधरोष्ठौ च
क्षालयेत् ॥ १५ ॥ १६ ॥
तदनन्तरं तु
हितजीर्णाशनस्वस्थ-
स्त्रिकुड्यावेष्टिते गृहे ।
बाधाशून्ये वनादौ वा
स्वासनस्थ उदङ्मुखः ॥ १७ ॥
१ 'यज्ञीयैः' क. । २ 'पुत्रका' क. ।